Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.12.1

एतच्च वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्।
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ ४.१२.१ ॥

罗摩大光明者听到须羯利婆这番善言,为使其信服,便拿起了弓。

4.12.2

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः।
सालमुद्दिश्य चिक्षेप पूरयन् स रवैर्दिशः ॥ ४.१२.२ ॥

他拿起可怕的弓和一支箭,瞄准一棵娑罗树射出,以弓弦之声充满四方。

4.12.3

स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः।
भित्त्वा सालान् गिरिप्रस्थं सप्तं भूमिं विवेश ह ॥ ४.१२.३ ॥

这支被强者射出、饰以黄金的箭,穿透娑罗树与山脊,进入了第七层大地。

4.12.4

सायकस्तु मुहूर्तेन सालान् भित्त्वा महाजवः।
निष्पत्य च पुनस्तूणं तमेव प्रविवेश ह ॥ ४.१२.४ ॥

那支迅疾的箭转瞬间穿透娑罗树,飞出之后,又重新回到自己的箭囊之中。

4.12.5

तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः।
रामस्य शरवेगेन विस्मयं परमं गतः ॥ ४.१२.५ ॥

见那七棵娑罗树被罗摩箭的力量所穿透,猴中之王须羯利婆大为惊叹。

4.12.6

स मूर्ध्ना न्यपतद् भूमौ प्रलम्बीकृतभूषणः।
सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥ ४.१२.६ ॥

须羯利婆大喜,任由饰物垂落,合掌在罗怙后裔面前以头触地而拜。

4.12.7

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः।
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥ ४.१२.७ ॥

他因那件事而欢喜,便对精通法、在一切神兵之中最为卓越、英勇而屹立不动的罗摩说了这番话。

4.12.8

सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ।
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ४.१२.८ ॥

人中雄牛啊,主上!您能以箭在战场上射杀包括因陀罗在内的一切天神,何况杀死婆利呢!

4.12.9

येन सप्त महासाला गिरिर्भूमिश्च दारिताः।
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ ४.१२.९ ॥

你以一支箭劈裂了七棵大娑罗树、山岳与大地,啊,迦古斯特ha!在战阵前沿,谁能站在你面前?

4.12.10

अद्य मे विगतः शोकः प्रीतिरद्य परा मम।
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ ४.१२.१० ॥

今日我的忧愁已消散,今日我心中生出了无上的喜悦,因为我得到了你这样的朋友,如同摩亨德罗与伐楼那一般。

4.12.11

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्।
वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥ ४.१२.११ ॥

啊,迦古斯特ha!请今日便为我这心爱之事,杀死那以兄弟之身出现的仇敌婆利;我已合掌相求。

4.12.12

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम्।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतं वचः ॥ ४.१२.१२ ॥

于是大智的罗摩拥抱了容貌可爱的须羯哩婆,并转向跟随身后的罗什曼那,说出了这番话。

4.12.13

अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः।
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥ ४.१२.१३ ॥

我们从这里去基什金陀。你快快先走;去呼唤须羯哩婆,也呼唤那带着兄弟气息的婆黎。

4.12.14

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्।
वृक्षैरात्मानमावृत्य ह्यतिष्ठन् गहने वने ॥ ४.१२.१४ ॥

他们都迅速来到婆黎的城市基什金陀,用树木遮掩自己,站立在茂密的森林中。

4.12.15

सुग्रीवोऽप्यनदद् घोरं वालिनो ह्वानकारणात्।
गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ ४.१२.१५ ॥

须羯哩婆也为呼唤婆黎而发出可怕的吼声。他坚定地准备着,以猛烈的气势吼叫,仿佛要撕裂天空。

4.12.16

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः।
निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव ॥ ४.१२.१६ ॥

婆黎听到弟弟的吼声,大为愤怒,以极大的怒气冲出,如同太阳从落日山的岸边升起。

4.12.17

ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्।
गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ॥ ४.१२.१७ ॥

于是婆黎与须羯哩婆之间爆发了极为激烈的战斗,犹如天空中水星与火星的可怕相遇。

4.12.18

तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः।
जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ ॥ ४.१२.१८ ॥

两位兄弟以如雷电般的手掌和如金刚杵般的拳头,在战场上互相击打,怒火使他们昏了头。

4.12.19

ततो रामो धनुष्पाणिस्तावुभौ समुदैक्षत।
अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥ ४.१२.१९ ॥

于是手持弓箭的罗摩仔细看着两人:两位英雄彼此相似,宛如双生神阿输瓦因。

4.12.20

यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः।
ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम् ॥ ४.१२.२० ॥

因为罗怙婆无法分辨苏羯latu与婆利,他便没有决心射出那支致死的箭。

4.12.21

एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना।
अपश्यन् राघवं नाथमृष्यमूकं प्रदुद्रुवे ॥ ४.१२.२१ ॥

此时,被婆利击败的苏羯latu见不到他的主人罗怙婆,便逃向了利沙牟迦山。

4.12.22

क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः।
वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥ ४.१२.२२ ॥

苏羯latu疲惫不堪,浑身浴血,被击打得遍体鳞伤,又被婆利愤怒地追赶,于是钻进了一片大森林。

4.12.23

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात् ततः।
मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः ॥ ४.१२.२३ ॥

婆利见他进入森林,因惧怕诅咒,便说:“你确实已被放过了。”这位大力者便转身返回。

4.12.24

राघवोऽपि सह भ्रात्रा सह चैव हनूमता।
तदेव वनमागच्छत् सुग्रीवो यत्र वानरः ॥ ४.१२.२४ ॥

罗怙婆也与他的兄弟和哈努曼一同来到苏羯latu所在的那片森林。

4.12.25

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्।
ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ॥ ४.१२.२५ ॥

看见罗摩与罗什曼那一同到来,羞愧的须羯里婆低头望着大地,沮丧地说了这些话。

4.12.26

आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम्।
वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥ ४.१२.२६ ॥

你对我说"去挑战他",又显示了你的勇武,却让敌人伤了我——现在你这是做了什么?

4.12.27

तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः।
वालिनं न निहन्मीति ततो नाहमितो व्रजे ॥ ४.१२.२७ ॥

啰怙婆啊,你当时就该如实说:"我不杀婆黎";那样的话,我就不会离开这里了。

4.12.28

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः।
करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥ ४.१२.२८ ॥

伟大的须羯里婆如此说话时,罗怙婆以悲悯而哀伤的声音再次开口。

4.12.29

सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम्।
कारणं येन बाणोऽयं स मया न विसर्जितः ॥ ४.१२.२९ ॥

听着,须羯里婆,亲爱的朋友,放下你的愤怒。听听我没有放出这支箭的原因。

4.12.30

अलंकारेण वेषेण प्रमाणेन गतेन च।
त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥ ४.१२.३० ॥

须羯里婆啊,无论饰物、装束、身形还是步态,你与婆黎都彼此相似。

4.12.31

स्वरेण वर्चसा चैव प्रेक्षितेन च वानर।
विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ॥ ४.१२.३१ ॥

猴子啊,即使从声音、光彩、目光、勇力和言语中,我也无法分辨你们二者的不同。

4.12.32

ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम।
नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ॥ ४.१२.३२ ॥

因此,我被相貌的相似所迷惑,猴中之最啊,我没有射出那支能摧毁敌人的迅疾之箭。

4.12.33

जीवितान्तकरं घोरं सादृश्यात् तु विशङ्कितः।
मूलघातो न नौ स्याद्धि द्वयोरिति कृतो मया ॥ ४.१२.३३ ॥

这支令人毙命的可怕之箭;因相似而心生疑虑,我想若射出,恐怕我们二人都会被连根摧毁。

4.12.34

त्वयि वीर विपन्ने हि अज्ञानाल्लाघवान्मया।
मौढ्यं च मम बाल्यं च ख्यापितं स्यात् कपीश्वर ॥ ४.१२.३४ ॥

勇士啊,若你被杀,我因无知和轻率而愚蠢与幼稚之名将传扬开来,猴王啊。

4.12.35

दत्ताभयवधो नाम पातकं महदद्भुतम्।
अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी ॥ ४.१२.३५ ॥

杀害已被许诺庇护之人,是一桩巨大而骇人的罪过;我、罗什曼那,以及肤色美丽的悉多也都将蒙受其害。

4.12.36

त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान्।
तस्माद् युध्यस्व भूयस्त्वं मा माशङ्कीश्च वानर ॥ ४.१२.३६ ॥

我们在这森林里都依赖于你,你就是我们的庇护。因此,猴子啊,再去战斗吧,不要犹豫。

4.12.37

एतन्मुहूर्ते तु मया पश्य वालिनमाहवे।
निरस्तमिषुणैकेन चेष्टमानं महीतले ॥ ४.१२.३७ ॥

此刻就看那伐林,在战场上被我一箭射倒,正在地上翻滚挣扎。

4.12.38

अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर।
येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ॥ ४.१२.३८ ॥

猴王啊,你要留下一个能让我认出你的标记,因为你已来到单独决斗之中。

4.12.39

गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्।
कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥ ४.१२.३९ ॥

罗什曼那,摘下这朵盛开、带有吉祥标记的象花,戴在伟大的须羯里婆颈上。

4.12.40

ततो गिरितटे जातामुत्पाट्य कुसुमायुताम्।
लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ॥ ४.१२.४० ॥

于是罗什曼那摘下那株生长在山坡上、满是花朵的象花,戴在他的颈上。

4.12.41

स तया शुशुभे श्रीमाँल्लतया कण्ठसक्तया।
मालयेव बलाकानां ससंध्य इव तोयदः ॥ ४.१२.४१ ॥

那位光辉的人,颈上缠绕着如藤蔓般的花环而生辉,如同黄昏时带着鹭鸶行列的雨云。

4.12.42

विभ्राजमानो वपुषा रामवाक्यसमाहितः।
जगाम सह रामेण किष्किन्धां पुनराप सः ॥ ४.१२.४२ ॥

他身形光彩照人,心志专注于罗摩的言辞,与罗摩同行,再次抵达了键锯山城。