Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 4.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.15.1

अथ तस्य निनादं तं सुग्रीवस्य महात्मनः।
शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥ ४.१५.१ ॥

その時、後宮にいたヴァーリンは、大いなる心の持ち主スグリーヴァの咆哮を聞いた。兄の挑発に、彼は耐えられなかった。

4.15.2

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्।
मदश्चैकपदे नष्टः क्रोधश्चापादितो महान् ॥ ४.१५.२ ॥

あらゆる生き物を震わせるその咆哮を聞くと、彼の慢心は一瞬にして消え去り、大きな怒りが呼び起こされた。

4.15.3

ततो रोषपरीताङ्गो वाली स कनकप्रभः।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ४.१५.३ ॥

すると、怒りに全身を覆われた黄金色の輝きのヴァーリンは、日食に覆われた太陽のように、たちまち光を失った。

4.15.4

वाली दंष्ट्राकरालस्तु क्रोधाद् दीप्ताग्निलोचनः।
भात्युत्पतितपद्माभः समृणाल इव ह्रदः ॥ ४.१५.४ ॥

牙で恐ろしいヴァーリンは、怒りに燃える火のような目をして、茎ごと立ち上がった蓮の輝きを帯びた湖のように輝いた。

4.15.5

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः।
वेगेन च पदन्यासैर्दारयन्निव मेदिनीम् ॥ ४.१५.५ ॥

その耐えがたい音を聞いて、その猿は素早く飛び出した。足の踏みしめで大地を裂くかのように。

4.15.6

तं तु तारा परिष्वज्य स्नेहाद् दर्शितसौहृदा।
उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः ॥ ४.१५.६ ॥

愛情から彼を抱きしめ、友情を示しながら、恐れと動揺に満ちたターラーは、益となる言葉をこう告げた。

4.15.7

साधु क्रोधमिमं वीर नदीवेगमिवागतम्।
शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ ४.१५.७ ॥

勇士よ、河の奔流のように襲ってきたこの怒りを捨てよ。寝床から起きて、朝につけた花輪を捨てるように。

4.15.8

काल्यमेतेन संग्रामं करिष्यसि च वानर।
वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥ ४.१५.८ ॥

猿よ、勇士よ、明日お前は彼と戦うだろう。しかし敵の力は大きく、彼には弱さもない。

4.15.9

सहसा तव निष्क्रामो मम तावन्न रोचते।
श्रूयतामभिधास्यामि यन्निमित्तं निवार्यते ॥ ४.१५.९ ॥

お前がこのように突然出て行くことは、今の私には気に入らない。聞きなさい、お前を引き止める理由を話そう。

4.15.10

पूर्वमापतितः क्रोधात् स त्वामाह्वयते युधि।
निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ ४.१५.१० ॥

彼は先に怒りをもって来て、お前に戦いを挑んでいる。出てきてお前に打ち負かされ、打たれて四方へ逃げ去ったのだ。

4.15.11

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः।
इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ ४.१५.११ ॥

お前に打ち負かされ、とりわけ痛めつけられた彼がここへ戻ってまた挑んでくるのは、私に疑念を抱かせる。

4.15.12

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः।
निनादस्य च संरम्भो नैतदल्पं हि कारणम् ॥ ४.१५.१२ ॥

彼が吠えるときの誇りと決意、そしてその咆哮の激しい勢い、これは小さな理由ではない。

4.15.13

नासहायमहं मन्ये सुग्रीवं तमिहागतम्।
अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥ ४.१५.१३ ॥

ここに来たスグリーヴァは味方なき者だとは私は思わない。彼が頼みとして吠えている方が、確かな支えを与えているのだ。

4.15.14

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः।
नापरीक्षितवीर्येण सुग्रीवः सख्यमेष्यति ॥ ४.१५.१४ ॥

生まれつき巧みで賢いこの猿スグリーヴァは、武勇を試されていない者と友となることはないだろう。

4.15.15

पूर्वमेव मया वीर श्रुतं कथयतो वचः।
अङ्गदस्य कुमारस्य वक्ष्याम्यद्य हितं वचः ॥ ४.१५.१५ ॥

勇士よ、以前にも王子アンガダの言葉を聞いた。今、その有益な言葉を語ろう。

4.15.16

अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः।
प्रवृत्तिस्तेन कथिता चारैरासीन्निवेदिता ॥ ४.१५.१६ ॥

王子アンガダは森の端まで出ており、間者たちが伝えた知らせは、彼を通して私に届けられた。

4.15.17

अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ।
इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥ ४.१५.१७ ॥

アヨーディヤーの主の二人の息子、勇者にして戦いで打ち負かせぬ者、イクシュヴァーク家に生まれた名高いラーマとラクシュマナ。

4.15.18

सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ।
स ते भ्रातुर्हि विख्यातः सहायो रणकर्मणि ॥ ४.१५.१८ ॥

近づきがたい二人は、スグリーヴァの大切な願いを果たすためにそこへ来た。彼らこそ、あなたの兄の戦いの行いにおける名高い助力者である。

4.15.19

रामः परबलामर्दी युगान्ताग्निरिवोत्थितः।
निवासवृक्षः साधूनामापन्नानां परा गतिः ॥ ४.१५.१९ ॥

ラーマは敵軍を砕く者、劫末の火のように立ち上がった者であり、善人の宿りの木、苦難に陥った者の至上の拠り所である。

4.15.20

आर्तानां संश्रयश्चैव यशसश्चैकभाजनम्।
ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः ॥ ४.१५.२० ॥

彼は苦しむ者の拠り所であり、名声の唯一の器である。知と智慧を備え、父の命令に専念している。

4.15.21

धातूनामिव शैलेन्द्रो गुणानामाकरो महान्।
तत् क्षमो न विरोधस्ते सह तेन महात्मना ॥ ४.१५.२१ ॥

山々の王が鉱物の大鉱脈であるように、彼は徳の大鉱脈である。ゆえに、その高潔な人と敵対することは君にふさわしくない。

4.15.22

दुर्जयेनाप्रमेयेण रामेण रणकर्मसु।
शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम् ॥ ४.१५.२२ ॥

戦いの業において征服しがたく、測り知れないラーマに対して——おお勇士よ、君に言うべきことがある。君を非難したいわけではない。

4.15.23

श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम्।
यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ॥ ४.१५.२३ ॥

聞け、そして行え。君にとって益となることを言おう。速やかに正しくスグリーヴァを太子として灌頂せよ。

4.15.24

विग्रहं मा कृथा वीर भ्रात्रा राजन् यवीयसा।
अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ॥ ४.१५.२४ ॥

勇敢な王よ、弟と争ってはならない。あのラーマと友好を結ぶことこそ、君にふさわしいと私は思う。

4.15.25

सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः।
लालनीयो हि ते भ्राता यवीयानेष वानरः ॥ ४.१५.२५ ॥

スグリーヴァとの敵意を捨てて友情を結びなさい。この猿はあなたの弟であり、愛しみ守るべき者です。

4.15.26

तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते।
नहि तेन समं बन्धुं भुवि पश्यामि कंचन ॥ ४.१५.२६ ॥

彼がそこにいようと近くにいようと、どのみち彼はあなたの親族です。この地上で彼に並ぶ親族を私は見ません。

4.15.27

दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम्।
वैरमेतत् समुत्सृज्य तव पार्श्वे स तिष्ठतु ॥ ४.१५.२७ ॥

贈り物や敬意などの厚遇で彼に応えなさい。この敵意を捨て、彼をそばに置きなさい。

4.15.28

सुग्रीवो विपुलग्रीवो महाबन्धुर्मतस्तव।
भ्रातृसौहृदमालम्ब्य नान्या गतिरिहास्ति ते ॥ ४.१५.२८ ॥

広い首をしたスグリーヴァは、あなたの大切な親族と見なされています。兄弟の情を受け入れる以外に、ここにあなたの道はありません。

4.15.29

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्।
याच्यमानः प्रियत्वेन साधु वाक्यं कुरुष्व मे ॥ ४.१५.२९ ॥

もし私の喜ぶことをしたいのであり、私があなたを思う者だと分かっているなら、愛情をもって頼む私の良い言葉に従ってください。

4.15.30

प्रसीद पथ्यं शृणु जल्पितं हि मे
न रोषमेवानुविधातुमर्हसि।
क्षमो हि ते कोशलराजसूनुना
न विग्रहः शक्रसमानतेजसा ॥ ४.१५.३० ॥

どうか心を和らげて、私の益になる言葉を聞いてください。ただ怒りに従うべきではありません。インドラに等しい輝きを持つコーシャラ王の子と争うことは、あなたにふさわしくありません。

4.15.31

तदा हि तारा हितमेव वाक्यं
तं वालिनं पथ्यमिदं बभाषे।
न रोचते तद् वचनं हि तस्य
कालाभिपन्नस्य विनाशकाले ॥ ४.१५.३१ ॥

そのとき、ターラーはヴァーリンにこの有益で良薬のような言葉を告げた。しかし時に捕らえられた彼にはその言葉は気に入らなかった。破滅の時が来ていたのである。