ヴァールミーキのラーマーヤナ · サルガ 4.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.16.1
तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्।
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ ४.१६.१ ॥
そのように語る、月のような顔のターラーを、ヴァーリンは叱責し、この言葉を述べた。
4.16.2
गर्जतोऽस्य सुसंरब्धं भ्रातुः शत्रोर्विशेषतः।
मर्षयिष्यामि केनापि कारणेन वरानने ॥ ४.१६.२ ॥
彼が激怒して咆哮するのを、とりわけ弟の敵であるのを、美しい顔の人よ、私は何らかの理由で耐えよう。
4.16.3
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्।
धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ४.१६.३ ॥
戦いで敗れることも退くこともない勇士にとって、侮辱を耐えることは死よりも悪い、臆病な者よ。
4.16.4
सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे।
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितम् ॥ ४.१६.४ ॥
戦いを望むスグリーヴァの激怒と、あの恥辱の者の咆哮に、私は耐えることができない。
4.16.5
न च कार्यो विषादस्ते राघवं प्रति मत्कृते।
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ ४.१६.५ ॥
私のために、ラーガヴァ(ラーマ)について悲しむべきではない。法を知り恩を知るあの方が、どうして罪を犯すだろうか。
4.16.6
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि।
सौहृदं दर्शितं तावन्मयि भक्तिस्त्वया कृता ॥ ४.१६.६ ॥
女たちと共に引き返せ。なぜ何度も私について来るのか。これまでお前は私への友情を示し、献身を尽くした。
4.16.7
प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्।
दर्पं चास्य विनेष्यामि न च प्राणैर्वियोक्ष्यते ॥ ४.१६.७ ॥
私は行ってスグリーヴァと戦おう。動揺を捨てよ。彼の高慢を打ち砕こう。彼は命を失わずにはいないだろう。
4.16.8
अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम्।
वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ ४.१६.८ ॥
私は戦場に立つ彼に、望むことをしてやろう。木々と拳の打撃に苦しめられ、彼は引き返すだろう。
4.16.9
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्।
कृतं तारे सहायत्वं दर्शितं सौहृदं मयि ॥ ४.१६.९ ॥
この悪心の者は、私の誇り高い奮闘に耐えられないだろう。ターラーよ、お前は助力し、私に友情を示してくれた。
4.16.10
शापितासि मम प्राणैर्निवर्तस्व जनेन च।
अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ॥ ४.१६.१० ॥
私の命にかけて誓う。民とともに引き返せ。あの兄弟を戦場で打ち破ったら、私はただ戻ってこよう。
4.16.11
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी।
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥ ४.१६.११ ॥
優しく語るターラーはヴァーリンを抱きしめ、泣きながらそっと右回りに彼を巡った。
4.16.12
ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी।
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ ४.१६.१२ ॥
その後、策に通じ勝利を望むターラーは吉祥の儀式を行い、悲しみに心乱れて女たちとともに後宮に入った。
4.16.13
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्।
नगर्या निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ ४.१६.१३ ॥
ターラーが侍女たちと自室に入ると、怒りに燃えたヴァーリンは大蛇のように息を荒げて都から出ていった。
4.16.14
स निःश्वस्य महारोषो वाली परमवेगवान्।
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया ॥ ४.१६.१४ ॥
激しく怒り、きわめて俊足のヴァーリンは深く息をつき、敵を見つけようと四方へ視線を走らせた。
4.16.15
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्।
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ ४.१६.१५ ॥
そのとき栄光あるヴァーリンは、黄金色のスグリーヴァが十分に身を飾り、身構えて立ち、燃え盛る火のように輝いているのを見た。
4.16.16
तं स दृष्ट्वा महाबाहुः सुग्रीवं पर्यवस्थितम्।
गाढं परिदधे वासो वाली परमकोपनः ॥ ४.१६.१६ ॥
強靭な腕を持つヴァーリンは、しっかりと立つスグリーヴァを見て、激しく憤り、衣をきつく締め直した。
4.16.17
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्।
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥ ४.१६.१७ ॥
勇猛なヴァーリンは衣を固く締め、拳を振り上げ、戦う覚悟を決めてまっすぐスグリーヴァへ向かった。
4.16.18
श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः।
सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् ॥ ४.१६.१८ ॥
スグリーヴァもまた拳を固く握って高く振り上げ、いっそう激怒して進み出て、金の花環をつけたヴァーリンを目指した。
4.16.19
तं वाली क्रोधताम्राक्षः सुग्रीवं रणकोविदम्।
आपतन्तं महावेगमिदं वचनमब्रवीत् ॥ ४.१६.१९ ॥
怒りで目を赤く染めたヴァーリンは、戦に長けたスグリーヴァが猛烈な速さで襲いかかってくるのを見て、このように言った。
4.16.20
एष मुष्टिर्महान् बद्धो गाढः सुनियताङ्गुलिः।
मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ ४.१६.२० ॥
これは私の大きな拳、固く握りしめ、指もよく曲がっている。私が勢いよく放てば、お前の命を奪い去るだろう。
4.16.21
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्।
तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥ ४.१६.२१ ॥
このように言われたスグリーヴァは怒り、ヴァーリンに言った。「お前の命を奪うこの拳よ、お前自身の頭に落ちよ!」
4.16.22
ताडितस्तेन तं क्रुद्धः समभिक्रम्य वेगतः।
अभवच्छोणितोद्गारी सापीड इव पर्वतः ॥ ४.१६.२२ ॥
彼に打たれたヴァーリンは怒り、素早く彼に突進した。血を吐きながら、彼は峰を持つ山のようになった。
4.16.23
सुग्रीवेण तु निःशङ्कं सालमुत्पाट्य तेजसा।
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ॥ ४.१६.२३ ॥
スグリーヴァは恐れることなく、力強くサーラの木を引き抜き、ヴァーリンの体を打った。ヴァーリンは、大山が金剛杵に打たれるように打ちのめされた。
4.16.24
स तु वृक्षेण निर्भग्नः सालताडनविह्वलः।
गुरुभारभराक्रान्ता नौः ससार्थेव सागरे ॥ ४.१६.२४ ॥
木に打ち砕かれ、サーラの一撃で意識朦朧となった彼は、重荷に圧された船が商人たちを乗せて大海で揺れるように、ふらついた。
4.16.25
तौ भीमबलविक्रान्तौ सुपर्णसमवेगितौ।
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ॥ ४.१६.२५ ॥
その二人は恐ろしい力と武勇を備え、ガルダのように速く、大きく恐ろしい姿となり、空の月と太陽のようであった。
4.16.26
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ।
ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ॥ ४.१६.२६ ॥
二人はともに敵を討つ者で、互いの隙をうかがうことに余念がなかった。そのとき力と勇気を備えたヴァーリンはさらに勢いを増した。
4.16.27
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयत।
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ॥ ४.१६.२७ ॥
太陽の子、大いなる勇力を持つスグリーヴァは衰えていった。ヴァーリンによって誇りを砕かれ、スグリーヴァの武勇は弱まった。
4.16.28
वालिनं प्रति सामर्षो दर्शयामास राघवम्।
वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः ॥ ४.१६.२८ ॥
ヴァーリンへの怒りをこめ、彼はラーガヴァ(ラーマ)に示した。枝ぶりのよい木々、山の頂、雷の先のような爪とともに。
4.16.29
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः।
तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ ४.१६.२९ ॥
拳、膝、足、腕で幾度も打ち合い、二人の間にはヴリトラとヴァーサヴァ(インドラ)のような恐ろしい戦いが起こった。
4.16.30
तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ।
मेघाविव महाशब्दैस्तर्जमानौ परस्परम् ॥ ४.१६.३० ॥
血にまみれた二匹の森を行く猿は、雲のように大きな咆哮で互いを威嚇しながら戦った。
4.16.31
हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम्।
प्रेक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥ ४.१६.३१ ॥
するとラーガヴァは、猿王スグリーヴァが力を失い、幾度も四方を見回しているのを見た。
4.16.32
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम्।
स शरं वीक्षते वीरो वालिनो वधकांक्षया ॥ ४.१६.३२ ॥
そのとき大いなる威光のラーマは、猿王が苦しむのを見て、ヴァーリンを殺そうと自分の矢を見つめた。
4.16.33
ततो धनुषि संधाय शरमाशीविषोपमम्।
पूरयामास तच्चापं कालचक्रमिवान्तकः ॥ ४.१६.३३ ॥
そこで毒蛇のような矢を弓につがえ、時輪を持つ死神のように、その弓を満月のように引き絞った。
4.16.34
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः।
प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः ॥ ४.१६.३४ ॥
弦の響きに、鳥の王たちと鹿たちは怯えて逃げ惑い、劫末のように混乱した。
4.16.35
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः।
राघवेण महाबाणो वालिवक्षसि पातितः ॥ ४.१६.३५ ॥
ラーガヴァの放った大矢は、雷鳴のような轟きをあげ、燃え盛る雷電のように、ヴァーリンの胸に突き刺さった。
4.16.36
ततस्तेन महातेजा वीर्ययुक्तः कपीश्वरः।
वेगेनाभिहतो वाली निपपात महीतले ॥ ४.१६.३६ ॥
その矢に激しく打たれ、力と威光を備えた猿王ヴァーリンは大地に倒れた。
4.16.37
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले।
आश्वयुक्समये मासि गतश्रीको विचेतनः।
बाष्पसंरुद्धकण्ठस्तु वाली चार्तस्वरः शनैः ॥ ४.१६.३७ ॥
アーシュヴァユジャ月の満月の日、インドラの旗が引き倒されて地に落ちるように、輝きを失い意識を失ったヴァーリンは、涙で喉を詰まらせ、弱々しく苦しげな声をあげた。
4.16.38
नरोत्तमः कालयुगान्तकोपमं
शरोत्तमं काञ्चनरूप्यभूषितम्।
ससर्ज दीप्तं तममित्रमर्दनं
सधूममग्निं मुखतो यथा हरः ॥ ४.१६.३८ ॥
人中の最上者(ラーマ)は、劫末の時の神の怒りのように燃え、金銀で飾られ、敵を砕く、輝く優れた矢を放った。ハラ(シヴァ)が口から煙を伴う火を吐くように。
4.16.39
अथोक्षितः शोणिततोयविस्रवैः
सुपुष्पिताशोक इवानिलोद्धतः।
विचेतनो वासवसूनुराहवे
प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः ॥ ४.१६.३९ ॥
そのとき、血の流れに水のように濡れ、風に揺さぶられた満開のアショーカ樹のように、戦いの中で意識を失ったヴァーサヴァの子(ヴァーリン)は、倒されたインドラの旗のように地に倒れた。