蚁垤《罗摩衍那》 · 篇 4.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.17.1
ततः शरेणाभिहतो रामेण रणकर्कशः।
पपात सहसा वाली निकृत्त इव पादपः ॥ ४.१७.१ ॥
罗摩的箭射中了善战的婆梨,他如被砍断的树木一般骤然倒下。
4.17.2
स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः।
अपतद् देवराजस्य मुक्तरश्मिरिव ध्वजः ॥ ४.१७.२ ॥
他全身伏倒在地,身饰烧炼过的金饰,如同天王因绳索松脱而倒下的旗帜。
4.17.3
अस्मिन् निपतिते भूमौ हर्यृक्षाणां गणेश्वरे।
नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी ॥ ४.१७.३ ॥
这位猴熊之主倒在地上之后,大地失去光彩,如同失去月亮的天空。
4.17.4
भूमौ निपतितस्यापि तस्य देहं महात्मनः।
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥ ४.१७.४ ॥
虽然他倒在地上,那位大德者的身体仍不失光彩,生命之气、光辉与勇力也并未离去。
4.17.5
शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता।
दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ॥ ४.१७.५ ॥
这串由因陀罗所赐、镶嵌宝石的殊胜金鬘,保存着群猴之首的生命、光辉与威仪。
4.17.6
स तया मालया वीरो हैमया हरियूथपः।
संध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥ ४.१७.६ ॥
那位英雄猴军统帅佩戴着这金鬘,宛如边缘被晚霞染红的云朵。
4.17.7
तस्य माला च देहश्च मर्मघाती च यः शरः।
त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ४.१७.७ ॥
他的花环、身体以及刺穿要害的箭,仿佛以三种形式排列,即使倒下,光彩依然闪耀。
4.17.8
तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्।
रामबाणासनक्षिप्तमावहत् परमां गतिम् ॥ ४.१७.८ ॥
那支从罗摩弓中射出的箭,为这位英雄显现天国之路,并将他带往至高之境。
4.17.9
तं तथा पतितं संख्ये गतार्चिषमिवानलम्।
ययातिमिव पुण्यान्ते देवलोकादिह च्युतम् ॥ ४.१७.९ ॥
他就这样战死倒下,犹如火焰熄灭的火,又如功德耗尽而从天界坠落于此的耶耶底。
4.17.10
आदित्यमिव कालेन युगान्ते भुवि पातितम्।
महेन्द्रमिव दुर्धर्षमुपेन्द्रमिव दुःसहम् ॥ ४.१७.१० ॥
如同在劫末被时间坠落大地的太阳,如同难以战胜的大因陀罗,如同难以忍受的优毗因陀罗。
4.17.11
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्।
व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ॥ ४.१७.११ ॥
大因陀罗之子婆梨倒卧在地——佩戴金色花环,胸膛宽阔,臂膀雄大,面容光辉,双眼呈淡褐色。
4.17.12
लक्ष्मणानुचरो रामो ददर्शोपससर्प च।
तं तथा पतितं वीरं गतार्चिषमिवानलम् ॥ ४.१७.१२ ॥
与罗什曼那同行的罗摩看见了他,便走近前去。这位英雄就这样倒下,如同火焰熄灭的火。
4.17.13
बहुमान्य च तं वीरं वीक्षमाणं शनैरिव।
उपयातौ महावीर्यौ भ्रातरौ रामलक्ष्मणौ ॥ ४.१७.१३ ॥
两位大勇士兄弟罗摩与罗什曼那敬重那位英雄,缓缓注视着他,走近前来。
4.17.14
तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्।
अब्रवीत् परुषं वाक्यं प्रश्रितं धर्मसंहितम् ॥ ४.१७.१४ ॥
瓦利见到罗ghava(罗摩)与强大的罗什曼那,说出了严厉却合乎法义的话。
4.17.15
स भूमावल्पतेजोऽसुर्निहतो नष्टचेतनः।
अर्थसंहितया वाचा गर्वितं रणगर्वितम् ॥ ४.१७.१५ ॥
他倒卧在地,光彩黯淡,生气已绝,神志昏迷;他以富有意义的言辞,骄傲而满怀战场之傲气地说话。
4.17.16
त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः।
पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः।
यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः ॥ ४.१७.१६ ॥
你是人主之子,声名远扬,相貌可爱。杀害背转身去的人,你在此得到了什么功德?我本好战,却因你而死。
4.17.17
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः।
रामः करुणवेदी च प्रजानां च हिते रतः ॥ ४.१७.१७ ॥
罗摩出身高贵,品性坚强,光彩照人,恪守誓愿;他懂得慈悲,致力于百姓的福祉。
4.17.18
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः।
इत्येतत् सर्वभूतानि कथयन्ति यशो भुवि ॥ ४.१७.१८ ॥
他充满慈悲,极具精力,懂得时机与分寸,誓愿坚定;因此一切众生都在大地上宣扬他的美名。
4.17.19
दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु ॥ ४.१७.१९ ॥
克制、平静、宽恕、法、坚定、真实与勇力——这些是君王的品德,哦国王;还有对作恶者施以惩罚。
4.17.20
तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव।
तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः ॥ ४.१७.२० ॥
我思量了那些美德和你高贵的家世,尽管被塔罗阻拦,我还是与须羯里瓦一同前来。
4.17.22
न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि।
स त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्।
जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ ४.१७.२२ ॥
我与他人正在愤怒之中、毫无防备,你却趁机击杀我,实在不该。我知道你:你自我毁灭,虽打着法的旗号,实则不义,行为邪恶,如同被草覆盖的井。
4.17.23
सतां वेषधरं पापं प्रच्छन्नमिव पावकम्।
नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥ ४.१७.२३ ॥
我没有认出你——你这罪人披着善人的外衣,如同隐藏的火,藏在法的掩饰之下。
4.17.24
विषये वा पुरे वा ते यदा पापं करोम्यहम्।
न च त्वामवजानेऽहं कस्मात् तं हंस्यकिल्बिषम् ॥ ४.१७.२४ ॥
假若我在你的国土或城邑中曾作恶,或曾轻慢你——而我并未如此——那你为何要杀死这个无辜之人?
4.17.25
फलमूलाशनं नित्यं वानरं वनगोचरम्।
मामिहाप्रतियुध्यन्तमन्येन च समागतम् ॥ ४.१७.२५ ॥
我——一只常年住在林中、以果实和根茎为食的猴子——此时并未与他人交战,只是前来与他相会——
4.17.26
त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः।
लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम् ॥ ४.१७.२६ ॥
你是人主之子,人所共知,面貌可爱。大王,你身上还可见与法相合的标记。
4.17.27
कः क्षत्रियकुले जातः श्रुतवान् नष्टसंशयः।
धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् ॥ ४.१७.२७ ॥
出身刹帝利族、博学而无疑惑的人,谁会躲在法的标记之后,去做残暴的事呢?
4.17.28
त्वं राघवकुले जातो धर्मवानिति विश्रुतः।
अभव्यो भव्यरूपेण किमर्थं परिधावसे ॥ ४.१७.२८ ॥
你生于罗怙族,以德行著称,为何以高贵的外表,却四处奔走做卑劣之事?
4.17.29
साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु ॥ ४.१७.२९ ॥
和解、布施、宽恕、法义、真实、坚忍与勇武,是诸王之德,大王;对作恶者施以惩罚,亦是王道。
4.17.30
वयं वनचरा राम मृगा मूलफलाशिनः।
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर ॥ ४.१७.३० ॥
罗摩啊,我们是林中居民,是以根与果为食的鹿兽。这是我们的本性;而你,人主啊,是人。
4.17.31
भूमिर्हिरण्यं रूपं च विग्रहे कारणानि च।
तत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ ४.१७.३१ ॥
土地、黄金与美色,才是争斗的缘由;那么在这片森林里,你对我的果实又有何贪心?
4.17.32
नयश्च विनयश्चोभौ निग्रहानुग्रहावपि।
राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः ॥ ४.१७.३२ ॥
policy and discipline, punishment and favor — these are the unmixed conduct of kingship. Kings do not act by desire.
4.17.33
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः।
राजवृत्तेषु संकीर्णः शरासनपरायणः ॥ ४.१७.३३ ॥
而你以欲望为主,易怒且不稳定;在王者的行为中混杂不纯,只专注于弓箭。
4.17.34
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता।
इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर ॥ ४.१७.३४ ॥
你对法毫无敬意,心智在财利与目标上也不坚定。人主啊,你被感官驱使,依欲望而行,正被拖向深渊。
4.17.35
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्।
किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥ ४.१७.३५ ॥
啊,甘古斯塔之后,你用箭射杀我这个无罪之人,做了这样可耻的事,在善人之中你将如何辩解?
4.17.36
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः।
नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ॥ ४.१७.३६ ॥
弑君者、弑婆罗门者、杀牛者、盗贼、乐于杀害生灵者、无神论者,以及先于兄长结婚者——这些人都将堕入地狱。
4.17.37
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः।
लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ॥ ४.१७.३७ ॥
告密者、吝啬者、背叛朋友者,以及与师母通奸者——这些人无疑会去往罪人的世界。
4.17.38
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्।
अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ॥ ४.१७.३८ ॥
善人不可穿戴我的皮,毛与骨也被禁止;像你这样奉行法度的人,不可食用肉类。
4.17.39
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव।
शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ॥ ४.१७.३९ ॥
罗祇婆啊,婆罗门与刹帝利可食的五爪动物有:豪猪、师婆毗陀、巨蜥、野兔,第五是龟。
4.17.40
चर्म चास्थि च मे राम न स्पृशन्ति मनीषिणः।
अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ॥ ४.१७.४० ॥
罗摩啊,智者不触碰我的皮与骨,不可食之肉亦然。我这五爪之身已被杀死。
4.17.41
तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम्।
तदतिक्रम्य मोहेन कालस्य वशमागतः ॥ ४.१७.४१ ॥
全知的达罗对我说了真实而有益的话;我违背了它,因迷惑而落入时间(死亡)的掌控之中。
4.17.42
त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा।
प्रमदा शीलसम्पूर्णा पत्येव च विधर्मणा ॥ ४.१७.४२ ॥
迦古特斯タ啊,大地虽有你为主,却并未真正得到庇护;如同有德的女子,因不义的丈夫而失去依靠。
4.17.43
शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः।
कथं दशरथेन त्वं जातः पापो महात्मना ॥ ४.१७.४३ ॥
狡诈、奸险、卑劣、心怀虚伪谦逊的你,怎会出生于大德的十车王之子?啊,罪人!
4.17.44
छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना।
त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ॥ ४.१७.४४ ॥
我的品行之带已断,被你杀死——罗摩,你这头踰越善人之法、弃置法之钩的象。
4.17.45
अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम्।
वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः ॥ ४.१७.४५ ॥
若你做了此事,又与善人同列,却说出不吉、不当、为善人所责的言语……
4.17.46
उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः।
अपकारिषु ते राम नैवं पश्यामि विक्रमम् ॥ ४.१७.४६ ॥
罗摩啊,你对于我们这些中立者所显示的这份勇武,我却没有看见你对伤害你的人如此显示勇武。
4.17.47
दृश्यमानस्तु युध्येथा मया युधि नृपात्मज।
अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥ ४.१७.४७ ॥
王子啊,在我眼前作战吧;今日你将被我所杀,去见毗婆娑多神(阎摩)。
4.17.48
त्वयादृश्येन तु रणे निहतोऽहं दुरासदः।
प्रसुप्तः पन्नगेनैव नरः पापवशं गतः ॥ ४.१७.४८ ॥
你隐身在战场上杀了我这难以接近之人——正如睡着的人,落入罪的掌控,被蛇所咬。
4.17.49
सुग्रीवप्रियकामेन यदहं निहतस्त्वया।
मामेव यदि पूर्वं त्वमेतदर्थमचोदयः।
मैथिलीमहमेकाह्ना तव चानीतवान् भवेः ॥ ४.१७.४९ ॥
你因想讨好须羯里婆,杀了我;若你早先就为此事催促我,我一天之内就会为你把迈提利带来。
4.17.50
राक्षसं च दुरात्मानं तव भार्यापहारिणम्।
कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे ॥ ४.१७.५० ॥
我本会将夺走你妻子的恶毒罗刹罗波那用绳子缚住颈项,不在战场上杀死他,便交到你手中。
4.17.51
न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्।
आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव ॥ ४.१७.५१ ॥
即使她被藏于大海之水中,或藏于地底世界,我也会遵照你的命令将摩提利带回,如同牵回一匹白色的骡子。
4.17.52
युक्तं यत्प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि।
अयुक्तं यदधर्मेण त्वयाहं निहतो रणे ॥ ४.१७.५२ ॥
我升天之后,须哩哇获得王国是合理的;但你在战场上以非法之举杀死我,却是不当的。
4.17.53
काममेवंविधो लोकः कालेन विनियुज्यते।
क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥ ४.१७.५३ ॥
的确,世界便是这样被时间所驱使。若你认为合宜,就请好好考虑一个恰当的回答。
4.17.54
इत्येवमुक्त्वा परिशुष्कवक्त्रः
शराभिघाताद् व्यथितो महात्मा।
समीक्ष्य रामं रविसंनिकाशं
तूष्णीं बभौ वानरराजसूनुः ॥ ४.१७.५४ ॥
说罢,这位被箭伤所苦、面容枯槁的大德猴王之子,望着如太阳般光辉的罗摩,默然而立。