Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.19.1

स वानरमहाराजः शयानः शरपीडितः।
प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ॥ ४.१९.१ ॥

躺卧在地、被箭所苦的猴王,面对所说的合理之言,竟无言以对。

4.19.2

अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम्।
रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः ॥ ४.१९.२ ॥

肢体被石块撕裂,又被树木重重击打,并被罗摩之箭所制,他在生命将尽之时昏厥过去。

4.19.3

तं भार्या बाणमोक्षेण रामदत्तेन संयुगे।
हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥ ४.१९.३ ॥

塔罗听闻,猴中之虎婆里在战场上被罗摩所射之箭杀死。

4.19.4

सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम्।
निष्पपात भृशं तस्मादुद्विग्ना गिरिकन्दरात् ॥ ४.१९.४ ॥

她与儿子同在,听闻丈夫被杀的那个极其可怖而令人不悦的消息,心神不定,便从山洞中急速冲了出来。

4.19.5

ये त्वङ्गदपरीवारा वानरा हि महाबलाः।
ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥ ४.१९.५ ॥

随从于安伽达的大力猴众,见罗摩持弓而立,惊恐逃散。

4.19.6

सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम्।
यूथादेव परिभ्रष्टान् मृगान् निहतयूथपान् ॥ ४.१९.६ ॥

她随即看见惊恐的猴子疾奔而来,如同离群的鹿,其首领已被杀死。

4.19.7

तानुवाच समासाद्य दुःखितान् दुःखिता सती।
रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः ॥ ४.१९.७ ॥

忠贞而悲伤的塔拉走近哀痛的猴子们,对所有被罗摩惊吓、仿佛被箭追逐的猴子说道。

4.19.8

वानरा राजसिंहस्य यस्य यूयं पुरःसराः।
तं विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः ॥ ४.१९.८ ॥

猴子们啊!你们为何惊恐而狼狈地逃跑,抛弃了曾经走在前面的那位王中之狮?

4.19.9

राज्यहेतोः स चेद् भ्राता भ्रात्रा क्रूरेण पातितः।
रामेण प्रहितैर्दूरान्मार्गणैर्दूरपातिभिः ॥ ४.१९.९ ॥

若他的兄长为了王国被残忍的兄弟所杀,那么便是罗摩从远处射出的、飞行very远的箭所致。

4.19.10

कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः।
प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम् ॥ ४.१९.१० ॥

猴子们听了猴妻的话,这些能随意变化形体的猴子,对那位女子说了应时而恰当的话。

4.19.11

जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम्।
अन्तको रामरूपेण हत्वा नयति वालिनम् ॥ ४.१९.११ ॥

有活着的儿子的母亲啊,请回去,保护你的儿子安加达。死神化作罗摩的模样,打倒了伐林,正把他带走。

4.19.12

क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च तथा शिलाः।
वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः ॥ ४.१९.१२ ॥

伐林投掷树木和巨石,却被如霹雳般的箭射倒,仿佛被雷电本身击中。

4.19.13

अभिभूतमिदं सर्वं विद्रुतं वानरं बलम्।
अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे ॥ ४.१९.१३ ॥

这支猴子大军被击溃、四散奔逃,因为那位跳跃者中的猛虎、光辉与因陀罗相等的英雄已被杀死。

4.19.14

रक्ष्यतां नगरी शूरैरङ्गदश्चाभिषिच्यताम्।
पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः ॥ ४.१९.१४ ॥

愿勇士守卫城池,愿安伽陀受灌顶。跳跃的猴子们将侍奉那位居于伐里之位的儿子。

4.19.15

अथवारुचितं स्थानमिह ते रुचिरानने।
आविशन्ति च दुर्गाणि क्षिप्रमद्यैव वानराः ॥ ४.१९.१५ ॥

或者,美貌的人啊,你可去此地任何你喜欢的地方;猴子们今天就会迅速进入堡垒。

4.19.16

अभार्याः सहभार्याश्च सन्त्यत्र वनचारिणः।
लुब्धेभ्यो विप्रलब्धेभ्यस्तेभ्यो नः सुमहद्भयम् ॥ ४.१९.१६ ॥

这里森林中有四处游荡之人,有的有妻子,有的没有;对那些贪婪而受骗的人,我们有极大的恐惧。

4.19.17

अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना।
आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥ ४.१९.१७ ॥

那位笑容可爱的女子听见那些走出不远之人的话,便依照自己的身份而说道。

4.19.18

पुत्रेण मम किं कार्यं राज्येनापि किमात्मना।
कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ॥ ४.१९.१८ ॥

当那位大福之人、猴中之狮、我的丈夫正在灭亡时,儿子于我何用,王国于我何用,甚至我自己的性命又有何用?

4.19.19

पादमूलं गमिष्यामि तस्यैवाहं महात्मनः।
योऽसौ रामप्रयुक्तेन शरेण विनिपातितः ॥ ४.१९.१९ ॥

我将前往那位被罗摩所射之箭击倒的大德之足下。

4.19.20

एवमुक्त्वा प्रदुद्राव रुदती शोकमूर्च्छिता।
शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती ॥ ४.१९.२० ॥

说完这些,她悲泣着,因悲痛而昏厥,奔跑而去,以双臂痛击自己的头和胸。

4.19.21

सा व्रजन्ती ददर्शाथ पतिं निपतितं भुवि।
हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥ ४.१९.२१ ॥

她前行时,看见丈夫倒卧在地——他是达那婆之主的杀手,在战场上从不退缩。

4.19.22

क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम्।
महावातसमाविष्टं महामेघौघनिःस्वनम् ॥ ४.१९.२२ ॥

如因陀罗(Vāsava)向巨大山峰投掷霹雳,被狂风所裹,发出巨大云团般的轰鸣。

4.19.23

शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम्।
नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम्।
शार्दूलेनामिषस्यार्थे मृगराजमिवाहतम् ॥ ४.१९.२३ ॥

勇猛如因陀罗,如降雨已尽的云般倒卧;在吼声中最为可怖——英雄被英雄击倒,如同老虎为了肉而击杀狮子。

4.19.24

अर्चितं सर्वलोकस्य सपताकं सवेदिकम्।
नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा ॥ ४.१९.२४ ॥

为一切世界所敬奉,有旗幡与祭坛——如同为了一条蛇,迦楼罗拔起了一座圣所。

4.19.25

अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम्।
रामं रामानुजं चैव भर्तुश्चैव तथानुजम् ॥ ४.१९.२५ ॥

她看见罗摩站立着,倚靠在他强有力的弓上,还看见罗摩的弟弟,以及她丈夫的弟弟。

4.19.26

तानतीत्य समासाद्य भर्तारं निहतं रणे।
समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह ॥ ४.१९.२६ ॥

她越过他们,走到在战场上被杀的丈夫身边,看见他,痛苦万分,惊慌失措地倒在地上。

4.19.27

सुप्तेव पुनरुत्थाय आर्यपुत्रेति वादिनी।
रुरोद सा पतिं दृष्ट्वा संवीतं मृत्युदामभिः ॥ ४.१९.२७ ॥

她仿佛从睡梦中醒来,又站起身,呼喊着“雅利安之子啊”,看见丈夫被死神的绳索缠绕,便哭泣起来。

4.19.28

तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव।
विषादमगमत् कष्टं दृष्ट्वा चाङ्गदमागतम् ॥ ४.१९.२८ ॥

看见她像鱼鹰一样哀号,须羯哩婆陷入深深的悲痛;看见前来的安伽陀,他更是痛苦不堪。