ヴァールミーキのラーマーヤナ · サルガ 4.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.2.1
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ।
वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥ ४.२.१ ॥
その偉大な二人の兄弟、ラーマとラクシュマナ、優れた武器を携えた英雄たちを見て、スグリーヴァは不安になった。
4.2.2
उद्विग्नहृदयः सर्वा दिशः समवलोकयन्।
न व्यतिष्ठत कस्मिंश्चिद् देशे वानरपुंगवः ॥ ४.२.२ ॥
動揺した心で、猿の中の最高の者はあらゆる方向を見回し、どこにも落ち着いていられなかった。
4.2.3
नैव चक्रे मनः स्थातुं वीक्षमाणौ महाबलौ।
कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ ४.२.३ ॥
二人の大力の者を見つめても、心は定まらなかった。ひどく怯えた猿の心は沈み込んだ。
4.2.4
चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्।
सुग्रीवः परमोद्विग्नः सर्वैस्तैर्वानरैः सह ॥ ४.२.४ ॥
正しき魂のスグリーヴァは熟慮し、利害得失を量って、ひどく動揺しながら、その猿たち全員と相談した。
4.2.5
ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः।
शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ॥ ४.२.५ ॥
そこで跳躍者たちの主スグリーヴァは、ひどく動揺しながらラーマとラクシュマナを見て、大臣たちに告げた。
4.2.6
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्।
छद्मना चीरवसनौ प्रचरन्ताविहागतौ ॥ ४.२.६ ॥
この二人は確かにヴァーリに遣わされた者たちだ。欺くために樹皮の衣をまとい、この険しい森をさまよってここへ来たのだ。
4.2.7
ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ।
जग्मुर्गिरितटात् तस्मादन्यच्छिखरमुत्तमम् ॥ ४.२.७ ॥
そこでスグリーヴァの大臣たちは、その二人の至高の弓使いを見て、その山腹からもう一つの優れた峰へ向かった。
4.2.8
ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम्।
हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ॥ ४.२.८ ॥
それらの群れの長たちはすばやく近づき、猿たちの中で最も優れた群れの牡牛を取り囲んで、その傍らに立った。
4.2.9
एवमेकायनगताः प्लवमाना गिरेर्गिरिम्।
प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च ॥ ४.२.९ ॥
こうして同じ一つの道を進み、跳び跳ねて山から山へ移り、その速さで山々の峰さえも揺り動かした。
4.2.10
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः।
बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गमाश्रितान् ॥ ४.२.१० ॥
すると力強い猿たちは皆跳び回り、そこの険しい場所に生えている花の咲いた木々を折り倒した。
4.2.11
आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्।
मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा ॥ ४.२.११ ॥
猿の中の優れた者たちは、その大山の四方を跳び回り、鹿や猫、虎を脅かしながら、そのまま進んで行った。
4.2.12
ततः सुग्रीवसचिवाः पर्वतेन्द्रे समाहिताः।
संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ॥ ४.२.१२ ॥
そこでスグリーヴァの大臣たちは皆、山々の王の上で心を集中して集まり、猿の首領と会って、皆合掌して立った。
4.2.13
ततस्तु भयसंत्रस्तं वालिकिल्बिषशङ्कितम्।
उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः ॥ ४.२.१३ ॥
そのとき、言葉に巧みなハヌマーンは、恐怖に怯え、ヴァーリの罪を懸念するスグリーヴァに、このように言った。
4.2.14
सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान्।
मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः ॥ ४.२.१४ ॥
その慌てを捨てよ。ヴァーリがもたらした大いなる恐れはここにはない。これは山々の中で最も優れたマラヤ山である。ここにはヴァーリへの恐れはない。
4.2.15
यस्मादुद्विग्नचेतास्त्वं विद्रुतो हरिपुङ्गव।
तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ ४.२.१५ ॥
猿の中の最上の者よ。心が乱れて逃げてきたのだから、凶暴な姿の残忍なヴァーリがここにいるのは見えない。
4.2.16
यस्मात् तव भयं सौम्य पूर्वजात् पापकर्मणः।
स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ ४.२.१६ ॥
善良なる者よ。おまえが恐れるのは、罪深い行いの兄からだが、その邪悪な心のヴァーリはここにはいない。ここでおまえに何の恐れも私は見ない。
4.2.17
अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम।
लघुचित्ततयाऽऽत्मानं न स्थापयसि यो मतौ ॥ ४.२.१७ ॥
ああ、跳ねる猿よ。おまえの猿らしさは明らかだ。心の軽さゆえに、自分を判断の中で落ち着かせることができていない。
4.2.18
बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर।
नह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥ ४.२.१८ ॥
知恵と見識を備え、合図によってすべてを行え。愚かさに陥らない王こそが、あらゆる生き物を統治するのだ。
4.2.19
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः।
ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥ ४.२.१९ ॥
スグリーヴァはハヌマーンの吉祥な言葉をすべて聞き、そのうえさらに吉祥な言葉をハヌマーンに語った。
4.2.20
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ।
कस्य न स्याद् भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥ ४.२.२० ॥
長い腕と広い眼を持ち、矢・弓・剣を携え、神々の子のような二人を見て、誰が恐れないでいられようか。
4.2.21
वालिप्रणिहितावेव शङ्केऽहं पुरुषोत्तमौ।
राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥ ४.२.२१ ॥
この二人の人中の最上者は、ヴァーリンが遣わした者ではないかと私は疑う。王には多くの味方があるので、ここで信頼することは適切ではない。
4.2.22
अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः।
विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्त्यपि ॥ ४.२.२२ ॥
人は欺いて動く敵を見分けねばならない。疑い深い者は、信じる者の弱点を突いて打ち倒すのだ。
4.2.23
कृत्येषु वाली मेधावी राजानो बहुदर्शिनः।
भवन्त परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥ ४.२.२३ ॥
行動において、賢明なヴァーリンと先見の明ある王たちは敵を討つ者である。普通の人々にもそれと知られる。
4.2.24
तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवंगम।
इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च ॥ ४.२.२४ ॥
跳躍者の中の最上者よ。普通の人のように行き、様々な身振りと、彼らの姿と言葉によってあの二人を見きわめよ。
4.2.25
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि।
विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः ॥ ४.२.२५ ॥
もし二人が喜びの心であれば、その意向を見極めよ。賛辞と身振りによって信頼を得つつ、幾度も。
4.2.26
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव।
प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ ४.२.२६ ॥
私の前に立って、猿の中の最良の者よ、彼らに問え。この森に入る目的は何か、弓を持つ二人よ。
4.2.27
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम।
व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः ॥ ४.२.२७ ॥
跳ぶ者よ、この二人が清らかな心であるかどうか、お前は知れ。その悪意は言葉や姿によって見分けられる。
4.2.28
इत्येवं कपिराजेन संदिष्टो मारुतात्मजः।
चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ ४.२.२८ ॥
猿王からこのように命じられ、風の子は羅摩と羅什満那がいる所へ行くことを決意した。
4.2.29
तथेति सम्पूज्य वचस्तु तस्य
कपेः सुभीतस्य दुरासदस्य।
महानुभावो हनुमान् ययौ तदा
स यत्र रामोऽतिबली सलक्ष्मणः ॥ ४.२.२९ ॥
「そのとおりに」と言い、あの非常に怯えた、近づき難い猿の言葉を尊んで、大いなる力を持つハヌマーンは、力強きラーマがラクシュマナと共にいる所へ向かった。