ヴァールミーキのラーマーヤナ · サルガ 4.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.23.1
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम्।
पतिं लोकश्रुता तारा मृतं वचनमब्रवीत् ॥ ४.२३.१ ॥
そのとき、世に名高いターラーは猿王の顔に顔を寄せて匂いを嗅ぎ、死んだ夫にこう語った。
4.23.2
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम।
उपलोपचिते वीर सुदुःखे वसुधातले ॥ ४.२३.२ ॥
勇士よ、私の言葉に従わず、石だらけの、まことに苦しいこの凸凹の大地に、悲しみのうちに横たわっている。
4.23.3
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव।
शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥ ४.२३.३ ॥
猿の王よ、きっとこの大地はわたしよりもあなたにとって愛しいのでしょう。それを抱きしめて横たわり、わたしに返事さえしないのですから。
4.23.4
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो।
सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥ ४.२३.४ ॥
ああ、スグリーヴァの手中に落ちること、それがあなたの運命となったのです。勇士よ、勇敢な者に愛される方よ、勇猛さを示したのはスグリーヴァの方でした。
4.23.5
ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते।
तेषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः ॥ ४.२३.५ ॥
熊と猿の長たちが、力強いあなたのそばに侍っています。彼らの嘆きと、悲しむアンガダの泣き声は、まことに苦しいものです。
4.23.6
मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे।
इदं तद् वीरशयनं तत्र शेषे हतो युधि ॥ ४.२३.६ ॥
わたしのこの言葉を聞いても、なぜ目を覚まさないのですか。戦いに倒れたあなたが横たわっているのは、英雄たちの寝床なのです。
4.23.7
शायिता निहता यत्र त्वयैव रिपवः पुरा।
विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय ॥ ४.२३.७ ॥
ここは、かつてあなたが敵を倒して横たえた場所。清らかな本性と高貴な血筋をもつ方、戦いを愛する、わが愛しき人よ。
4.23.8
मामनाथां विहायैकां गतस्त्वमसि मानद।
शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥ ४.२३.८ ॥
名誉を授ける方よ、あなたは守る者のない私を一人残して去ってしまった。賢者は娘を勇士に与えてはならない。
4.23.9
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम्।
अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ॥ ४.२३.९ ॥
見よ、英雄の妻であった私を。たちまち寡婦にされてしまった。私の名誉は砕け、永遠のよりどころも断たれた。
4.23.10
अगाधे च निमग्नास्मि विपुले शोकसागरे।
अश्मसारमयं नूनमिदं मे हृदयं दृढम् ॥ ४.२३.१० ॥
私はこの広大で底知れぬ悲しみの海に沈んでしまった。きっと私のこの心は、石の本質でできているかのように堅いのだ。
4.23.11
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम्।
सुहृच्चैव च भर्ता च प्रकृत्या च मम प्रियः ॥ ४.२३.११ ॥
夫が殺されたのを見たのに、今日この心は百に砕けなかった。夫は私の友であり、夫であり、本性においても私の愛しい人であった。
4.23.12
प्रहारे च पराक्रान्तः शूरः पञ्चत्वमागतः।
पतिहीना तु या नारी कामं भवतु पुत्रिणी ॥ ४.२३.१२ ॥
打撃を受けて勇敢な英雄は五大、すなわち死に至った。夫を失った女は、望むならば息子を持つ母となるがよい。
4.23.13
धनधान्यसमृद्धापि विधवेत्युच्यते जनैः।
स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले ॥ ४.२३.१३ ॥
富と穀物に恵まれていても、人々は彼女を寡婦と呼ぶ。英雄よ、自らの身体から生まれた者よ、おまえは血の池に横たわっている。
4.23.14
कृमिरागपरिस्तोमे स्वकीये शयने यथा।
रेणुशोणितसंवीतं गात्रं तव समन्ततः ॥ ४.२३.१४ ॥
虫の染料で赤く染めた、おまえ自身の寝台のように、おまえの身体は塵と血に全身覆われている。
4.23.15
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ।
कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे ॥ ४.२३.१५ ॥
猿の中の牡牛よ、私はこの腕でおまえを抱きしめることができない。この極めて恐ろしい敵対において、スグリーヴァは今日その目的を果たした。
4.23.16
यस्य रामविमुक्तेन हृतमेकेषुणा भयम्।
शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ॥ ४.२३.१६ ॥
ラーマが放った一本の矢によって彼の恐怖は取り除かれた。その矢は、おまえの身体に触れると、おまえの心臓に突き刺さった。
4.23.17
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते।
उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा ॥ ४.२३.१७ ॥
おまえが死んだのを見て、私はおまえを引き止める。そのとき、ニーラは彼の身体に刺さった矢を引き抜いた。
4.23.18
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा।
तस्य निष्कृष्यमाणस्य बाणस्यापि बभौ द्युतिः ॥ ४.२३.१८ ॥
山の洞窟に潜む輝く毒蛇のように、彼の身体から引き抜かれる矢の輝きもまた現れた。
4.23.19
अस्तमस्तकसंरुद्धरश्मेर्दिनकरादिव।
पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ॥ ४.२३.१९ ॥
沈む山の頂で光を遮られた太陽のように、彼の傷口から四方へ血の流れがほとばしった。
4.23.20
ताम्रगैरिकसम्पृक्ता धारा इव धराधरात्।
अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना ॥ ४.२३.२० ॥
赤い赭土を混じえて山から流れ落ちる水流のように、戦塵に覆われた夫を拭うターラー。
4.23.21
अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम्।
रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ॥ ४.२३.२१ ॥
目から流れる涙で、武器に打たれ全身を血に染めて倒れた勇士を濡らした。夫が殺されたのを見て。
4.23.22
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना।
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ॥ ४.२३.२२ ॥
黄褐色の目の息子アンガダに、ターラーは言った。「息子よ、父の最期の姿を見なさい、なんと恐ろしいことか。」
4.23.23
सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा।
बालसूर्योज्ज्वलतनुं प्रयातं यमसादनम् ॥ ४.२३.२३ ॥
敵意に深く執着した罪深い行いのゆえに、彼の最期が来た。若い太陽のように輝く身体の彼は、ヤマの住処へ去った。
4.23.24
अभिवादय राजानं पितरं पुत्र मानदम्।
एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ॥ ४.२३.२४ ॥
「息子よ、名誉を与える王、お前の父に礼拝しなさい。」そう言われて、彼は立ち上がり、父の足を取った。
4.23.25
भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन्।
अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ॥ ४.२३.२५ ॥
太く丸い両腕で「私はAṅgadaです」と言いながら、昔あなたがAṅgadaにしたように、礼をするあなたに礼をいたします。
4.23.26
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे।
अहं पुत्रसहाया त्वामुपासे गतचेतनम्।
सिंहेन पातितं सद्यो गौः सवत्सेव गोवृषम् ॥ ४.२३.२६ ॥
「長寿であれ、息子よ」と、なぜ私に語りかけないのですか。息子と共にあなたのそばにいます。意識を失ったあなたのそばに。獅子に一瞬で倒された雄牛のそばで、子牛と共にいる雌牛のように。
4.23.27
इष्ट्वा संग्रामयज्ञेन रामप्रहरणाम्भसा।
तस्मन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ ४.२३.२७ ॥
戦いの供犠をラーマの武器の水で執り行い、あの終いの沐浴を済ませた今、妻である私なしで、どうしているのですか。
4.23.28
या दत्ता देवराजेन तव तुष्टेन संयुगे।
शातकौम्भीं प्रियां मालां तां ते पश्यामि नेह किम् ॥ ४.२३.२८ ॥
戦いで満足した神々の王が授けた、愛しい金の花環は、なぜここであなたに見えないのですか。
4.23.29
राज्यश्रीर्न जहाति त्वां गतासुमपि मानद।
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ ४.२३.२९ ॥
名誉を与える者よ、息絶えていても王権の栄光はあなたを離れない。回る太陽の輝きが山の王を離れないように。
4.23.30
न मे वचः पथ्यमिदं त्वया कृतं
न चास्मि शक्ता हि निवारणे तव।
हता सपुत्रास्मि हतेन संयुगे
सह त्वया श्रीर्विजहाति मामपि ॥ ४.२३.३० ॥
あなたは私の有益な言葉に従わず、私もあなたを止める力がありませんでした。戦いで私は息子と共に討たれました。あなたと共に滅びゆく今、幸運さえも私を離れていきます。