Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.24.1

तामाशु वेगेन दुरासदेन
त्वभिप्लुतां शोकमहार्णवेन।
पश्यंस्तदा वाल्यनुजस्तरस्वी
भ्रातुर्वधेनाप्रतिमेन तेपे ॥ ४.२४.१ ॥

他看到她迅速被悲伤的大海淹没,那无法抵挡的力量,力大无穷的婆利之弟因兄长无与伦比的被杀而痛苦。

4.24.2

स बाष्पपूर्णेन मुखेन पश्यन्
क्षणेन निर्विण्णमना मनस्वी।
जगाम रामस्य शनैः समीपं
भृत्यैर्वृतः सम्परिदूयमानः ॥ ४.२४.२ ॥

他满脸泪水地望着,心灰意冷,这位有智慧的人在仆从的环绕下,深感痛苦,缓缓走近罗摩。

4.24.3

स तं समासाद्य गृहीतचाप-
मुदात्तमाशीविषतुल्यबाणम्।
यशस्विनं लक्षणलक्षिताङ्ग-
मवस्थितं राघवमित्युवाच ॥ ४.२४.३ ॥

他走近手持弓箭的罗怙婆,那箭如毒蛇的、光荣的、肢体带有吉祥标记的、站立在那里的人,他这样说道。

4.24.4

यथा प्रतिज्ञातमिदं नरेन्द्र
कृतं त्वया दृष्टफलं च कर्म।
ममाद्य भोगेषु नरेन्द्रसूनो
मनो निवृत्तं हतजीवितेन ॥ ४.२४.४ ॥

君王啊,你已按承诺完成了此事,其果实已然可见。国王之子啊,今日我的心已远离享乐,我这生命已被毁灭之人。

4.24.5

अस्यां महिष्यां तु भृशं रुदत्यां
पुरेऽतिविक्रोशति दुःखतप्ते।
हते नृपे संशयितेऽङ्गदे च
न राम राज्ये रमते मनो मे ॥ ४.२४.५ ॥

当这位正宫王后在城中痛哭、因悲伤而煎熬、高声哀号,国王已被杀,安伽陀陷入疑惑之时,罗摩啊,我的心不再以王国为乐。

4.24.6

क्रोधादमर्षादतिविप्रधर्षाद्
भ्रातुर्वधो मेऽनुमतः पुरस्तात्।
हते त्विदानीं हरियूथपेऽस्मिन्
सुतीक्ष्णमिक्ष्वाकुवर प्रतप्स्ये ॥ ४.२४.६ ॥

我曾因愤怒和难以忍受的羞辱而默许杀害兄长。但如今若这位猴群之主被杀,伊克瓦库之最,我将因极度悲痛而备受煎熬。

4.24.7

श्रेयोऽद्य मन्ये मम शैलमुख्ये
तस्मिन् हि वासश्चिरमृष्यमूके।
यथा तथा वर्तयतः स्ववृत्त्या
नेमं निहत्य त्रिदिवस्य लाभः ॥ ४.२४.७ ॥

今日我认为对我而言最好的是,在我long居的主峰Ṛṣyamūka上,凭自己的方式生活。即使杀死他而得到天界之福,我也不愿要。

4.24.8

न त्वा जिघांसामि चरेति यन्मा-
मयं महात्मा मतिमानुवाच।
तस्यैव तद् राम वचोऽनुरूप-
मिदं वचः कर्म च मेऽनुरूपम् ॥ ४.२४.८ ॥

“我不想杀你,走吧”——这位大德而明智的人曾这样对我说。啊,罗摩,他那话是恰当的;我这番话与行为也与之相称。

4.24.9

भ्राता कथं नाम महागुणस्य
भ्रातुर्वधं राम विरोचयेत।
राज्यस्य दुःखस्य च वीर सारं
विचिन्तयन् कामपुरस्कृतोऽपि ॥ ४.२४.९ ॥

啊,罗摩,兄长怎会赞同杀害一位大德的兄弟呢?啊,英雄,即使有人思量王国与痛苦的实质,若被欲望驱使,又怎会赞同此事?

4.24.10

वधो हि मे मतो नासीत् स्वमाहात्म्यव्यतिक्रमात्।
ममासीद् बुद्धिदौरात्म्यात् प्राणहारी व्यतिक्रमः ॥ ४.२४.१० ॥

说实话,我自己的被杀并非我所认可,因为我违背了自身的尊严;然而因我心智的邪恶,这夺命的过失降临到了我身上。

4.24.11

द्रुमशाखावभग्नोऽहं मुहूर्तं परिनिष्टनन्।
सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥ ४.२४.११ ॥

我被树枝打伤,呻吟了片刻。他安慰我后说,我不应当再这样做了。

4.24.12

भ्रातृत्वमार्यभावश्च धर्मश्चानेन रक्षितः।
मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥ ४.२४.१२ ॥

兄弟之情、高尚之德与法得以由他守护,而我却显露了愤怒、欲望与猴子的本性。

4.24.13

अचिन्तनीयं परिवर्जनीय-
मनीप्सनीयं स्वनवेक्षणीयम्।
प्राप्तोऽस्मि पाप्मानमिदं वयस्य
भ्रातुर्वधात् त्वाष्ट्रवधादिवेन्द्रः ॥ ४.२४.१३ ॥

朋友,我因杀害兄长而招来了这桩罪孽——它不可思议,应当避免,不被人所希求,甚至自己也不忍直视——正如因义帝之子(陀湿多之子)被杀而招来罪孽的因陀罗。

4.24.14

पाप्मानमिन्द्रस्य मही जलं च
वृक्षाश्च कामं जगृहुः स्त्रियश्च।
को नाम पाप्मानमिमं सहेत
शाखामृगस्य प्रतिपत्तुमिच्छेत् ॥ ४.२४.१४ ॥

大地、水、树木与女子曾自愿承担因陀罗的罪过;但这罪孽谁能承受?又有谁愿意去抗拒一只猴子呢?

4.24.15

नार्हामि सम्मानमिमं प्रजानां
न यौवराज्यं कुत एव राज्यम्।
अधर्मयुक्तं कुलनाशयुक्त-
मेवंविधं राघव कर्म कृत्वा ॥ ४.२४.१५ ॥

啊,罗怙之后!我既犯下如此违背法义、导致家族覆灭的行为,便不配受百姓这般尊敬,也不配担任太子之位,更何况王位呢。

4.24.16

पापस्य कर्तास्मि विगर्हितस्य
क्षुद्रस्य लोकापकृतस्य लोके।
शोको महान् मामभिवर्ततेऽयं
वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥ ४.२४.१६ ॥

我是罪人,被人唾弃,卑贱,是世间的作恶者。正如雨水的急流淹没低地,这巨大的悲痛淹没了我。

4.24.17

सोदर्यघातापरगात्रवालः
संतापहस्ताक्षिशिरोविषाणः।
एनोमयो मामभिहन्ति हस्ती
दृप्तो नदीकूलमिव प्रवृद्धः ॥ ४.२४.१७ ॥

杀害兄弟之罪打击着我,如同发狂的大象,其鼻、眼、头因痛苦而灼热,撞击涨满的河岸。

4.24.18

अंहो बतेदं नृवराविषह्यं
निवर्तते मे हृदि साधुवृत्तम्।
अग्नौ विवर्णं परितप्यमानं
किट्टं यथा राघव जातरूपम् ॥ ४.२४.१८ ॥

唉,人中之最,罗摩!这难以承受的罪恶从我心中驱逐了我的善行,正如火中烧炼的金子,杂质使其失去光泽。

4.24.19

महाबलानां हरियूथपाना-
मिदं कुलं राघव मन्निमित्तम्।
अस्याङ्गदस्यापि च शोकतापा-
दर्धस्थितप्राणमितीव मन्ये ॥ ४.२४.१९ ॥

罗摩啊!因为我,这群强大的猴群统领的族类陷入了危难。我想,安伽陀的生命也因悲痛和煎熬而只剩一半。

4.24.20

सुतः सुलभ्यः सुजनः सुवश्यः
कुतस्तु पुत्रः सदृशोऽङ्गदेन।
न चापि विद्येत स वीर देशो
यस्मिन् भवेत् सोदरसंनिकर्षः ॥ ४.२४.२० ॥

儿子很容易得到,好人和容易驯服的人也容易得到。但与安伽陀相当的儿子从哪里找得到呢?英雄啊,也没有哪个地方能有兄弟的亲近相伴。

4.24.21

अद्याङ्गदो वीरवरो न जीवे-
ज्जीवेत माता परिपालनार्थम्।
विना तु पुत्रं परितापदीना
सा नैव जीवेदिति निश्चितं मे ॥ ४.२४.२१ ॥

今日英雄中最杰出的安陀陀将不再活着;母亲本可为了护育他而活下去。失去儿子、为悲痛所苦的她,必定不会活下去,这是我坚定的判断。

4.24.22

सोऽहं प्रवेक्ष्याम्यतिदीप्तमग्निं
भ्रात्रा च पुत्रेण च सख्यमिच्छन्।
इमे विचेष्यन्ति हरिप्रवीराः
सीतां निदेशे परिवर्तमानाः ॥ ४.२४.२२ ॥

因此我将走入烈火之中,渴望与兄弟和儿子重修旧好。这些在我号令下行动的猴族英雄,将去寻找悉多。

4.24.23

कृत्स्नं तु ते सेत्स्यति कार्यमेत-
न्मय्यप्यतीते मनुजेन्द्रपुत्र।
कुलस्य हन्तारमजीवनार्हं
रामानुजानीहि कृतागसं माम् ॥ ४.२४.२३ ॥

然而即使我死去,你的这项大事也必将成就,人主之子啊。罗摩,请允许我——我这个有罪之人,毁灭家族的罪人,不配活在世上。

4.24.24

इत्येवमार्तस्य रघुप्रवीरः
श्रुत्वा वचो वालिजघन्यजस्य।
संजातबाष्पः परवीरहन्ता
रामो मुहूर्तं विमना बभूव ॥ ४.२४.२४ ॥

罗摩——罗怙族的英雄,诛杀敌方勇士者——听到伐利那悲痛的幼弟如此言语,泪水涌出,片刻间神色黯然。

4.24.25

तस्मिन् क्षणेऽभीक्ष्णमवेक्षमाणः
क्षितिक्षमावान् भुवनस्य गोप्ता।
रामो रुदन्तीं व्यसने निमग्नां
समुत्सुकः सोऽथ ददर्श ताराम् ॥ ४.२४.२५ ॥

此时,罗摩不断地环顾,他如大地般能忍耐,是世界的守护者,急切地看见塔罗正在哭泣,沉陷于灾难之中。

4.24.26

तां चारुनेत्रां कपिसिंहनाथां
पतिं समाश्लिष्य तदा शयानाम्।
उत्थापयामासुरदीनसत्त्वां
मन्त्रिप्रधानाः कपिराजपत्नीम् ॥ ४.२४.२६ ॥

诸位首席大臣扶起了那位美目的猴狮之主的王后,她仍紧抱着丈夫躺着,但她的意志并未屈服。

4.24.27

सा विस्फुरन्ती परिरभ्यमाणा
भर्तुः समीपादपनीयमाना।
ददर्श रामं शरचापपाणिं
स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ ४.२४.२७ ॥

她浑身颤抖,被从丈夫身边带开,被人搂着,她看见手持弓箭的罗摩,以自身光辉如太阳般闪耀。

4.24.28

सुसंवृतं पार्थिवलक्षणैश्च
तं चारुनेत्रं मृगशावनेत्रा।
अदृष्टपूर्वं पुरुषप्रधान-
मयं स काकुत्स्थ इति प्रजज्ञे ॥ ४.२४.२८ ॥

他具备王者之相,美目俊朗,是她从未见过的人中之杰;这位鹿眼女子认出:“此人便是那位迦古特斯塔。”

4.24.29

तस्येन्द्रकल्पस्य दुरासदस्य
महानुभावस्य समीपमार्या।
आर्तातितूर्णं व्यसनं प्रपन्ना
जगाम तारा परिविह्वलन्ती ॥ ४.२४.२९ ॥

高贵的多罗陷于悲痛,极其慌乱地急急前往那与因陀罗相似、难以接近、威力广大的人身边。

4.24.30

तं सा समासाद्य विशुद्धसत्त्वं
शोकेन सम्भ्रान्तशरीरभावा।
मनस्विनी वाक्यमुवाच तारा
रामं रणोत्कर्षणलब्धलक्ष्यम् ॥ ४.२४.३० ॥

多罗来到这位本性纯净的人身边,心地高洁却因悲伤而身心震荡,对在战场上以卓越达成目标的罗摩说出了这番话。

4.24.31

त्वमप्रमेयश्च दुरासदश्च
जितेन्द्रियश्चोत्तमधर्मकश्च।
अक्षीणकीर्तिश्च विचक्षणश्च
क्षितिक्षमावान् क्षतजोपमाक्षः ॥ ४.२४.३१ ॥

你不可限量,难以接近,克制诸根,最尊崇法义,声名不衰,明智,忍耐如大地,双眼如血般赤红。

4.24.32

त्वमात्तबाणासनबाणपाणि-
र्महाबलः संहननोपपन्नः।
मनुष्यदेहाभ्युदयं विहाय
दिव्येन देहाभ्युदयेन युक्तः ॥ ४.२४.३२ ॥

你手持弓箭,大力而体格强健;舍弃了人身的荣光,如今具足神圣的身躯光辉。

4.24.33

येनैव बाणेन हतः प्रियो मे
तेनैव बाणेन हि मां जहीहि।
हता गमिष्यामि समीपमस्य
न मां विना वीर रमेत वाली ॥ ४.२४.३३ ॥

用射死我爱人的那支箭,也射死我吧;我死后将去到他身边。英雄啊,没有我,婆利不会快乐。

4.24.34

स्वर्गेऽपि पद्मामलपत्रनेत्र
समेत्य सम्प्रेक्ष्य च मामपश्यन्।
न ह्येष उच्चावचताम्रचूडा
विचित्रवेषाप्सरसोऽभजिष्यत् ॥ ४.२४.३४ ॥

即便在天界,这位眼如莲瓣的人,若见不到我,也不会去寻那些装束各异的天女。

4.24.35

स्वर्गेऽपि शोकं च विवर्णतां च
मया विना प्राप्स्यति वीर वाली।
रम्ये नगेन्द्रस्य तटावकाशे
विदेहकन्यारहितो यथा त्वम् ॥ ४.२४.३५ ॥

英雄啊,没有我,婆利即便在天界也会悲伤憔悴,就像你在山王美丽的山坡上失去了毗提诃之女一样。

4.24.36

त्वं वेत्थ तावद् वनिताविहीनः
प्राप्नोति दुःखं पुरुषः कुमारः।
तत् त्वं प्रजानञ्जहि मां न वाली
दुःखं ममादर्शनजं भजेत ॥ ४.२४.३६ ॥

你知道,失去妻子的男子,即便是年轻的王子,也会遭受痛苦。因此,知道这一点后,不要抛弃我;不是对瓦林,而是因与我分离而生的痛苦会降临于我。

4.24.37

यच्चापि मन्येत भवान् महात्मा
स्त्रीघातदोषस्तु भवेन्न मह्यम्।
आत्मेयमस्येति हि मां जहि त्वं
न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र ॥ ४.२४.३७ ॥

如果你这位崇高者认为杀死女人的罪过不会归于我,那么知道她就是他自己的化身;所以请杀了我吧。啊,人主之子,这不算杀女人。

4.24.38

शास्त्रप्रयोगाद् विविधाश्च वेदा-
दनन्यरूपाः पुरुषस्य दाराः।
दारप्रदानाद्धि न दानमन्यत्
प्रदृश्यते ज्ञानवतां हि लोके ॥ ४.२४.३८ ॥

依据经典的应用和吠陀,男子的妻子虽多种多样,却是同一种形态、并非他者。实际上,世间智者所见的布施,没有比施与妻子更大的了。

4.24.39

त्वं चापि मां तस्य मम प्रियस्य
प्रदास्यसे धर्ममवेक्ष्य वीर।
अनेन दानेन न लप्स्यसे त्व-
मधर्मयोगं मम वीर घातात् ॥ ४.२४.३९ ॥

你也会顾念正法,把我交给我那心爱的人。英雄啊,凭这份布施,你不会因我的被杀而与非法相连。

4.24.40

आर्तामनाथामपनीयमाना-
मेवंगतां नार्हसि मामहन्तुम्।
अहं हि मातङ्गविलासगामिना
प्लवंगमानामृषभेण धीमता।
विना वरार्होत्तमहेममालिना
चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ॥ ४.२४.४० ॥

我悲伤无依,正被如此带走,你不应杀我。没有那位步态如象、聪慧、猴群中的雄牛、佩戴上好金项链的人,我不能长久活下去,人主啊。

4.24.41

इत्येवमुक्तस्तु विभुर्महात्मा
तारां समाश्वास्य हितं बभाषे।
मा वीरभार्ये विमतिं कुरुष्व
लोको हि सर्वो विहितो विधात्रा ॥ ४.२४.४१ ॥

他如此被说后,这位伟大而有力的人安慰了达拉,并说了有益的话:妻子啊,勇士之妻,不要心乱,因为整个世界都是造物主所安排的。

4.24.42

तं चैव सर्वं सुखदुःखयोगं
लोकोऽब्रवीत् तेन कृतं विधात्रा।
त्रयोऽपि लोका विहितं विधानं
नातिक्रमन्ते वशगा हि तस्य ॥ ४.२४.४२ ॥

世人说,这一切苦乐的交织都是造物主所为。三界也不违背他所定的法则,因为它们都在他的掌控之下。

4.24.43

प्रीतिं परां प्राप्स्यसि तां तथैव
पुत्रश्च ते प्राप्स्यति यौवराज्यम्।
धात्रा विधानं विहितं तथैव
न शूरपत्न्यः परिदेवयन्ति ॥ ४.२४.४३ ॥

你将获得至高的喜乐,你的儿子也将得到太子之位。造物主所定之事,必会如此;英雄之妻不会哀哭。

4.24.44

आश्वासिता तेन महात्मना तु
प्रभावयुक्तेन परंतपेन।
सा वीरपत्नी ध्वनता मुखेन
सुवेषरूपा विरराम तारा ॥ ४.२४.४४ ॥

被那位强大、伟大而令敌人惊惧的人安慰之后,英雄之妻达拉——衣饰与容貌俱美——停止了从口中发出的哭声。