Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.25.1

स सुग्रीवं च तारां च साङ्गदां सहलक्ष्मणः।
समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ॥ ४.२५.१ ॥

与罗什曼那同在的迦口特existed罗摩,自己也怀着同样的悲伤,安慰着须羯哩婆、Tārā和Aṅgada,说了这些话。

4.25.2

न शोकपरितापेन श्रेयसा युज्यते मृतः।
यदत्रानन्तरं कार्यं तत् समाधातुमर्हथ ॥ ४.२५.२ ॥

死者不会因悲伤和煎熬而获得福祉。因此你们现在应当完成眼前应做的职责。

4.25.3

लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्।
न कालादुत्तरं किंचित् कर्मशक्यमुपासितुम् ॥ ४.२५.३ ॥

应当遵循世间的礼法:你们已经流过眼泪了。过了时限,便再无可做之事。

4.25.4

नियतिः कारणं लोके नियतिः कर्मसाधनम्।
नियतिः सर्वभूतानां नियोगेष्विह कारणम् ॥ ४.२५.४ ॥

在世间,命运是原因;命运是行为的手段。对于一切众生,命运是他们所被安排之事的原因。

4.25.5

न कर्ता कस्यचित् कश्चिन्नियोगे नापि चेश्वरः।
स्वभावे वर्तते लोकस्तस्य कालः परायणम् ॥ ४.२५.५ ॥

没有谁是他人之事的作者,在分派之中也没有主宰者。世界依其自性运行,而时间是它的终极归宿。

4.25.6

न कालः कालमत्येति न कालः परिहीयते।
स्वभावं च समासाद्य न कश्चिदतिवर्तते ॥ ४.२५.६ ॥

时间不会超越时间,时间也不会减损。一旦进入其本性,无人能够逾越。

4.25.7

न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः।
न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः ॥ ४.२५.७ ॥

时间没有亲属关系,没有原因,也没有勇力;朋友与亲族的关系也不是它的缘由,它也不受自己的支配。

4.25.8

किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता।
धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥ ४.२५.८ ॥

然而,善于观察者应当看到时间的成熟:法、利与欲都依时间的次序而安排。

4.25.9

इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्।
सामदानार्थसंयोगैः पवित्रं प्लवगेश्वरः ॥ ४.२५.९ ॥

筏利(婆利)依其本性从此离去,得到了行为的果报;猴王以和解、布施与利益的结合而得以清净。

4.25.10

स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना।
स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ॥ ४.२५.१० ॥

那位大人凭借与自身法(职责)的结合而获得胜利;他虽不护惜自己的性命,却得到了天界。

4.25.11

एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः।
तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ ४.२५.११ ॥

这便是最好的定数,猴群之主已循此而去;因此不必再悲伤——应顺应已至的时机。

4.25.12

वचनान्ते तु रामस्य लक्ष्मणः परवीरहा।
अवदत् प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ ४.२५.१२ ॥

罗摩的话说完后,击杀敌方英雄的罗什曼那,谦恭地对心神慌乱的须羯里婆说道。

4.25.13

कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्।
ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति ॥ ४.२५.१३ ॥

苏格利瓦啊,你与达罗和安伽达一同,立即为伐利举行火葬的丧葬仪式。

4.25.14

समाज्ञापय काष्ठानि शुष्काणि च बहूनि च।
चन्दनानि च दिव्यानि वालिसंस्कारकारणात् ॥ ४.२५.१४ ॥

命人取来许多干柴和神圣的檀香木,用于伐利的火葬仪式。

4.25.15

समाश्वासय दीनं त्वमङ्गदं दीनचेतसम्।
मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ॥ ४.२५.१५ ॥

安慰悲伤的安伽达;你不要糊涂,这座城市现在归你管辖。

4.25.16

अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च।
घृतं तैलमथो गन्धान् यच्चात्र समनन्तरम् ॥ ४.२५.१६ ॥

让安伽达立即取来花环、各式衣物、酥油、香油和各种香料,以及此处所需的一切。

4.25.17

त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्।
त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः ॥ ४.२५.१७ ॥

达罗啊,你快快带着轿子急速前来;此时尤其需要这样的急迫。

4.25.18

सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः।
समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् ॥ ४.२५.१८ ॥

让适合抬轿、有能力且强壮的猴子们准备好;他们将把伐利抬出去。

4.25.19

एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः।
तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ ४.२५.१९ ॥

对须羯哩婆如此说罢,使须弥多罗欢喜的、杀敌英雄的罗什曼那,站在兄长身旁。

4.25.20

लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः।
प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः ॥ ४.२५.२० ॥

多罗听了罗什曼那的话,心神慌乱,念念不忘轿子,迅速走进了山洞。

4.25.21

आदाय शिबिकां तारः स तु पर्यापतत् पुनः।
वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः ॥ ४.२५.२१ ॥

多罗拿起轿子又奔了出来;抬着轿子的,是适合抬它的勇猛猴子们。

4.25.22

दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्।
पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम् ॥ ४.२५.२२ ॥

这座天神般的轿子,有华美的座位,像战车一般,上面绘着飞鸟的图案,并装饰着树木的纹样。

4.25.23

आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः।
विमानमिव सिद्धानां जालवातायनायुताम् ॥ ४.२५.२३ ॥

它布满彩绘的板面,四周布置妥当,如同成就者的天车,有格子窗相连。

4.25.24

सुनियुक्तां विशालां च सुकृतां शिल्पिभिः कृताम्।
दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम् ॥ ४.२५.२४ ॥

它布置得当,宽敞,由工匠精心制作,带有如木制山岳般的造型,并以精美的工艺加以装饰。

4.25.25

वराभरणहारैश्च चित्रमाल्योपशोभिताम्।
गुहागहनसंछन्नां रक्तचन्दनभूषिताम् ॥ ४.२५.२५ ॥

以上好的饰物和项链装饰,以斑斓的花环点缀,覆盖着洞穴与密林,以红檀香妆饰。

4.25.26

पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव च।
तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम् ॥ ४.२५.२६ ॥

被满堆的花朵完全覆盖,围绕着莲花花环与朝阳色泽的闪亮花环。

4.25.27

ईदृशीं शिबिकां दृष्ट्वा रामो लक्ष्मणमब्रवीत्।
क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम् ॥ ४.२५.२७ ॥

罗摩见到这样的轿子,对罗什曼那说:"快把波利抬走,为他举行丧葬之礼。"

4.25.28

ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा।
आरोपयत विक्रोशन्नङ्गदेन सहैव तु ॥ ४.२५.२८ ॥

于是须羯哩婆抬起波利,与安伽陀一同大声哀哭,将他放上轿子。

4.25.29

आरोप्य शिबिकां चैव वालिनं गतजीवितम्।
अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ ४.२५.२९ ॥

将生命已逝的波利放在轿子上,以各种饰物、花环和衣物装饰他。

4.25.30

आज्ञापयत् तदा राजा सुग्रीवः प्लवगेश्वरः।
और्ध्वदेहिकमार्यस्य क्रियतामनुकूलतः ॥ ४.२५.३० ॥

于是猴王须羯哩婆下令:"按礼制为尊贵的波利举行丧葬之礼。"

4.25.31

विश्राणयन्तो रत्नानि विविधानि बहूनि च।
अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम् ॥ ४.२५.३१ ॥

分发种种许多珍宝,让猴子们走在前面,之后跟随的是轿子。

4.25.32

राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः।
तादृशैरिह कुर्वन्तु वानरा भर्तृसत्क्रियाम् ॥ ४.२५.३२ ॥

世上所见国王的种种富贵之物,就用这样的物品,让众猴在此为主君行应有的礼敬。

4.25.33

तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम्।
अङ्गदं परिरभ्याशु तारप्रभृतयस्तदा ॥ ४.२५.३३ ॥

随即为婆利准备了相称的丧葬之礼;那时,塔罗等人拥抱安迦陀,立即……

4.25.34

क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः।
ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः ॥ ४.२५.३४ ॥

众猴因亲人被杀,哀号着前行;随后,所有顺从他的母猴也恭敬地跟随。

4.25.35

चुक्रुशुर्वीरवीरेति भूयः क्रोशन्ति ताः प्रियम्।
ताराप्रभृतयः सर्वा वानर्यो हतबान्धवाः ॥ ४.२५.३५ ॥

她们高呼:“英雄啊,英雄啊!”又为她们的爱人再次哀哭;塔罗等所有母猴,亲人皆已被杀。

4.25.36

अनुजग्मुश्च भर्तारं क्रोशन्त्यः करुणस्वनाः।
तासां रुदितशब्देन वानरीणां वनान्तरे ॥ ४.२५.३६ ॥

她们以悲切的声音哭喊着追随主君;在那些母猴的哭声中,林中深处(回荡不绝)。

4.25.37

वनानि गिरयश्चैव विक्रोशन्तीव सर्वतः।
पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते ॥ ४.२५.३७ ॥

森林和山岳仿佛也在四面哀号;在山间河流幽静的岸边,四周环水之处。

4.25.38

चितां चक्रुः सुबहवो वानरा वनचारिणः।
अवरोप्य ततः स्कन्धाच्छिबिकां वानरोत्तमाः ॥ ४.२५.३८ ॥

众多林中栖居的猴族人修筑了火葬堆;随后,诸猴中的英杰从肩上放下了轿子。

4.25.39

तस्थुरेकान्तमाश्रित्य सर्वे शोकपरायणाः।
ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् ॥ ४.२५.३९ ॥

众人沉浸于悲伤之中,退到一旁站立;这时,塔罗看见丈夫躺在轿底。

4.25.40

आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता।
हा वानरमहाराज हा नाथ मम वत्सल ॥ ४.२५.४० ॥

她将他的头放在膝上,悲痛万分地哀哭道:“哎呀,猴族的大王!哎呀,夫君,我所爱的人!”

4.25.41

हा महार्ह महाबाहो हा मम प्रिय पश्य माम्।
जनं न पश्यसीमं त्वं कस्माच्छोकाभिपीडितम् ॥ ४.२५.४१ ॥

哎呀,双臂有力、值得大礼敬重的人啊!哎呀,我的爱人,看看我吧!你为何不看看这个被悲痛折磨的人?

4.25.42

प्रहृष्टमिह ते वक्त्रं गतासोरपि मानद।
अस्तार्कसमवर्णं च दृश्यते जीवतो यथा ॥ ४.२५.४२ ॥

施予尊荣的人啊,即使你已断气,你的面容在此仍显得欢悦;它呈现落日般的色泽,看起来与你活着时一样。

4.25.43

एष त्वां रामरूपेण कालः कर्षति वानर।
येन स्म विधवाः सर्वाः कृता एकेषुणा रणे ॥ ४.२५.४३ ॥

猴子啊,罗摩的形象中,时间正拖着你走。他在战场上一箭便使她们全都成了寡妇。

4.25.44

इमास्तास्तव राजेन्द्र वानर्योऽप्लवगास्तव।
पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे ॥ ४.२५.४४ ॥

啊,王中之王,这些是你的猿妇,已不能跳跃,被拖着双脚走到了这里。你难道看不见吗?

4.25.45

तवेष्टा ननु चैवेमा भार्याश्चन्द्रनिभाननाः।
इदानीं नेक्षसे कस्मात् सुग्रीवं प्लवगेश्वर ॥ ४.२५.४५ ॥

这些是你所爱的妻子,面如明月。啊,猴王,你现在为何不看她们,也不看须羯哩婆?

4.25.46

एते हि सचिवा राजंस्तारप्रभृतयस्तव।
पुरवासिजनश्चायं परिवार्य विषीदति ॥ ४.२५.४६ ॥

啊,国王,这些是以多罗为首的你的大臣;城中百姓围绕着你,正在悲伤。

4.25.47

विसर्जयैनान् सचिवान् यथापुरमरिंदम।
ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥ ४.२५.४७ ॥

啊,制伏敌人者,像从前那样遣退这些大臣吧;然后我们都被欲望激得狂热,在林中嬉戏。

4.25.48

एवं विलपतीं तारां पतिशोकपरीवृताम्।
उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः ॥ ४.२५.४८ ॥

她如此哀号,被丈夫之悲所围绕的多罗,此时被那些因悲伤而消瘦的猿妇扶了起来。

4.25.49

सुग्रीवेण ततः सार्धं सोऽङ्गदः पितरं रुदन्।
चितामारोपयामास शोकेनाभिप्लुतेन्द्रियः ॥ ४.२५.४९ ॥

于是,与须羯都一起,安伽陀悲痛得心神迷乱,哭泣着将父亲放上了火葬的柴堆。

4.25.50

ततोऽग्निं विधिवद् दत्त्वा सोऽपसव्यं चकार ह।
पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ॥ ४.२५.५० ॥

随后依仪式献火,他逆时针绕行火葬堆;心神慌乱,仿佛父亲已踏上漫长的旅途。

4.25.51

संस्कृत्य वालिनं तं तु विधिवत् प्लवगर्षभाः।
आजग्मुरुदकं कर्तुं नदीं शुभजलां शिवाम् ॥ ४.२५.५१ ॥

按规制为婆梨完成了仪式后,这些猴中之雄来到水质吉祥的圣河,去献水祭奠。

4.25.52

ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः।
सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् ॥ ४.२५.५२ ॥

随后众人一起,让安伽陀走在前面,与须羯都和陀罗一同为婆梨奠水。

4.25.53

सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः।
समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥ ४.२५.५३ ॥

与须羯都同样悲伤,大力的迦古特斯塔后裔罗摩也因同样的哀痛,下令举行了亡者的祭仪。

4.25.54

ततोऽथ तं वालिनमग्र्यपौरुषं
प्रकाशमिक्ष्वाकुवरेषुणा हतम्।
प्रदीप्य दीप्ताग्निसमौजसं तदा
सलक्ष्मणं राममुपेयिवान् हरिः ॥ ४.२५.५४ ॥

随后,他将那位无与伦比的勇士——被伊刹婆迦家族最好的箭射倒、光辉如燃烧之火的婆梨——展示出来,那猴子(哈努曼)便与罗什曼那一同来到罗摩面前。