Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.28.1

स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च।
वसन् माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत् ॥ ४.२८.१ ॥

彼时,罗摩杀死了波林,并为须羯里婆举行了册封,他住在摩尔耶梵山的山坡上,对罗什曼那说道。

4.28.2

अयं स कालः सम्प्राप्तः समयोऽद्य जलागमः।
सम्पश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः ॥ ४.२८.२ ॥

那个季节已经到来,今天雨季开始了。看那天空,被如同山峦般的云层所覆盖。

4.28.3

नवमासधृतं गर्भं भास्करस्य गभस्तिभिः।
पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥ ४.२८.३ ॥

以太阳的光线怀胎九个月,饮尽大海的精华,天空便诞下这生命的甘露。

4.28.4

शक्यमम्बरमारुह्य मेघसोपानपंक्तिभिः।
कुटजार्जुनमालाभिरलंकर्तुं दिवाकरः ॥ ४.२८.४ ॥

沿着云朵的阶梯攀上天空,太阳便能以库塔迦与阿周那花的花环来装点它。

4.28.5

संध्यारागोत्थितैस्ताम्रैरन्तेष्वपि च पाण्डुभिः।
स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम् ॥ ४.२८.५ ॥

晚霞升起的赤铜色,边缘泛白,云彩织物上光滑的裂口,使天空仿佛一道包扎好的伤口。

4.28.6

मन्दमारुतिनिःश्वासं संध्याचन्दनरञ्जितम्।
आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥ ४.२८.६ ॥

以轻柔的微风作为叹息,染上黄昏的檀香之色,云朵泛白,天空闪耀如同相思憔悴的人。

4.28.7

एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता।
सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति ॥ ४.२८.७ ॥

这片大地被酷热折磨,又被新雨浸透,像忧伤痛苦的悉多一样流泪。

4.28.8

मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः।
शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः ॥ ४.२८.८ ॥

从云腹中吹出的风,凉如樟叶,带着露兜花的香气,凉爽得可以用双手捧着饮用。

4.28.9

एष फुल्लार्जुनः शैलः केतकैरभिवासितः।
सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते ॥ ४.२८.९ ॥

这座山上阿周那树花开,又被露兜花的香气浸润,如同敌人已平息的须羯里婆一样,被瀑流灌顶。

4.28.10

मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः।
मारुतापूरितगुहाः प्राधीता इव पर्वताः ॥ ४.२८.१० ॥

群山身披乌云作的黑鹿皮,系着瀑流作的圣线,洞穴中充满风声,如同已经诵完吠陀的圣人。

4.28.11

कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम्।
अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम् ॥ ४.२८.११ ॥

天空仿佛被金色闪电的鞭子四面抽打,内里雷声轰鸣,如同忍受着痛苦。

4.28.12

नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे।
स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥ ४.२८.१२ ॥

依附于深蓝云层而闪耀的闪电,在我看来就像苦修的毗提诃在罗婆那膝上闪烁。

4.28.13

इमास्ता मन्मथवतां हिताः प्रतिहता दिशः।
अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः ॥ ४.२८.१३ ॥

这些为情欲所困者所喜的方位被阻隔,仿佛被浓云涂抹,星辰与月亮都已隐没。

4.28.14

क्वचिद् बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान्।
कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु।
मम शोकाभिभूतस्य कामसंदीपनान् स्थितान् ॥ ४.२८.१४ ॥

看啊,萨乌米特里,山坡上盛开的俱吒迦树,渴望雨季的到来,处处被水汽笼罩。对被悲伤压倒的我而言,它们正矗立着煽动欲望。

4.28.15

रजः प्रशान्तं सहिमोऽद्य वायु-
र्निदाघदोषप्रसराः प्रशान्ताः।
स्थिता हि यात्रा वसुधाधिपानां
प्रवासिनो यान्ति नराः स्वदेशान् ॥ ४.२८.१५ ॥

尘土已经平息,如今风已凉爽,夏日弊病的蔓延也已停止。君王的远征已经止息,旅人们正返回各自的家乡。

4.28.16

सम्प्रस्थिता मानसवासलुब्धाः
प्रियान्विताः सम्प्रति चक्रवाकाः।
अभीक्ष्णवर्षोदकविक्षतेषु
यानानि मार्गेषु न सम्पतन्ति ॥ ४.२८.१६ ॥

如今贪恋在曼纳萨湖栖居的赤鸭,已与伴侣一同启程。在被不断雨水冲毁的道路上,车辆已无法通行。

4.28.17

क्वचित् प्रकाशं क्वचिदप्रकाशं
नभः प्रकीर्णाम्बुधरं विभाति।
क्वचित् क्वचित् पर्वतसंनिरुद्धं
रूपं यथा शान्तमहार्णवस्य ॥ ४.२८.१७ ॥

天空此处明亮,彼处昏暗,点缀着散落的云朵;处处被群山阻隔,恰如平静的大海之面。

4.28.18

व्यामिश्रितं सर्जकदम्बपुष्पै-
र्नवं जलं पर्वतधातुताम्रम्।
मयूरकेकाभिरनुप्रयातं
शैलापगाः शीघ्रतरं वहन्ति ॥ ४.२८.१८ ॥

混合着娑罗花与甘巴花,被山中矿土染红的新水,伴随着孔雀的鸣叫,山间溪流飞快地奔流。

4.28.19

रसाकुलं षट्पदसंनिकाशं
प्रभुज्यते जम्बुफलं प्रकामम्।
अनेकवर्णं पवनावधूतं
भूमौ पतत्याम्रफलं विपक्वम् ॥ ४.२८.१९ ॥

汁液丰盈、色如蜂群的黑莓果被尽情食用;五彩斑斓、被风摇动的熟芒果落在地上。

4.28.20

विद्युत्पताकाः सबलाकमालाः
शैलेन्द्रकूटाकृतिसंनिकाशाः।
गर्जन्ति मेघाः समुदीर्णनादा
मत्ता गजेन्द्रा इव संयुगस्थाः ॥ ४.२८.२० ॥

以闪电为旗、以鹤群为花环的云团,形如山王的峰顶,发出洪大的雷鸣,如同战场上发狂的象王。

4.28.21

वर्षोदकाप्यायितशाद्वलानि
प्रवृत्तनृत्तोत्सवबर्हिणानि।
वनानि निर्वृष्टबलाहकानि
पश्यापराह्णेष्वधिकं विभान्ति ॥ ४.२८.२१ ॥

看那些草地被雨水滋养的森林,孔雀欢快地起舞,乌云已经降下甘霖;到了午后,它们更加光彩夺目。

4.28.22

समुद्वहन्तः सलिलातिभारं
बलाकिनो वारिधरा नदन्तः।
महत्सु शृङ्गेषु महीधराणां
विश्रम्य विश्रम्य पुनः प्रयान्ति ॥ ४.२८.२२ ॥

载着沉重的雨水,带着鹤群,轰鸣的云团在山峦高峰上一次次歇息,然后又继续前行。

4.28.23

मेघाभिकामा परिसम्पतन्ती
सम्मोदिता भाति बलाकपंक्तिः।
वातावधूता वरपौण्डरीकी
लम्बेव माला रुचिराम्बरस्य ॥ ४.२८.२३ ॥

渴望云朵、欢快地四处飞翔的鹤群,宛如天空中一串美丽的垂挂花环,由被风吹动的上好白莲织成。

4.28.24

बालेन्द्रगोपान्तरचित्रितेन
विभाति भूमिर्नवशाद्वलेन।
गात्रानुपृक्तेन शुकप्रभेण
नारीव लाक्षोक्षितकम्बलेन ॥ ४.२८.२४ ॥

大地点缀着新生的因陀罗虫,覆盖着嫩绿的青草,宛如一位女子裹着贴身的鹦鹉绿毯子,上面洒满了紫胶染料,熠熠生辉。

4.28.25

निद्रा शनैः केशवमभ्युपैति
द्रुतं नदी सागरमभ्युपैति।
हृष्टा बलाका घनमभ्युपैति
कान्ता सकामा प्रियमभ्युपैति ॥ ४.२८.२५ ॥

睡意缓缓走近克舍婆;河流迅速奔向大海;欢喜的鹤飞向云朵;充满情欲的爱人奔向她的爱人。

4.28.26

जाता वनान्ताः शिखिसुप्रनृत्ता
जाताः कदम्बाः सकदम्बशाखाः।
जाता वृषा गोषु समानकामा
जाता मही सस्यवनाभिरामा ॥ ४.२८.२६ ॥

林边孔雀翩翩起舞;卡丹巴树已经生长,枝头开满卡丹巴花;牛群中的公牛都心生同样的欲望;大地因庄稼与树林而变得秀丽迷人。

4.28.27

वहन्ति वर्षन्ति नदन्ति भान्ति
ध्यायन्ति नृत्यन्ति समाश्वसन्ति।
नद्यो घना मत्तगजा वनान्ताः
प्रियाविहीनाः शिखिनः प्लवंगमाः ॥ ४.२८.२७ ॥

河流奔流,云朵降雨、轰鸣、闪耀;发情的象冥思、起舞、自得安慰;林边的孔雀与猴子则失去了心爱的伴侣。

4.28.28

प्रहर्षिताः केतकिपुष्पगन्ध-
माघ्राय मत्ता वननिर्झरेषु।
प्रपातशब्दाकुलिता गजेन्द्राः
सार्धं मयूरैः समदा नदन्ति ॥ ४.२८.२८ ॥

闻到ketaki花的香气而欣喜若狂,被林中瀑布的轰鸣所扰动的象王们与孔雀一同嘶鸣。

4.28.29

धारानिपातैरभिहन्यमानाः
कदम्बशाखासु विलम्बमानाः।
क्षणार्जितं पुष्परसावगाढं
शनैर्मदं षट्चरणास्त्यजन्ति ॥ ४.२८.२९ ॥

被倾泻的雨流击打,悬挂在kadamba树枝上,沉浸于片刻间采得的花蜜中的蜜蜂,慢慢地放弃了它们的醉意。

4.28.30

अङ्गारचूर्णोत्करसंनिकाशैः
फलैः सुपर्याप्तरसैः समृद्धैः।
जम्बूद्रुमाणां प्रविभान्ति शाखा
निपीयमाना इव षट्पदौघैः ॥ ४.२८.३० ॥

如同堆积的炭末,枝头挂满多汁成熟的果实,蒲桃树的枝条闪耀着光彩,仿佛正被蜂群吮吸。

4.28.31

तडित्पताकाभिरलंकृताना-
मुदीर्णगम्भीरमहारवाणाम्।
विभान्ति रूपाणि बलाहकानां
रणोत्सुकानामिव वारणानाम् ॥ ४.२८.३१ ॥

闪电为旗帜装点的云朵,发出低沉而巨大的轰鸣,闪耀如同渴望战斗的象群。

4.28.32

मार्गानुगः शैलवनानुसारी
सम्प्रस्थितो मेघरवं निशम्य।
युद्धाभिकामः प्रतिनादशङ्की
मत्तो गजेन्द्रः प्रतिसंनिवृत्तः ॥ ४.२८.३२ ॥

沿着小路行进,穿梭于山林之间的醉象之王,听到云中的雷声便出发,渴望战斗,却怀疑回声中有对手,于是转身返回。

4.28.33

क्वचित् प्रगीता इव षट्पदौघैः
क्वचित् प्रनृत्ता इव नीलकण्ठैः।
क्वचित् प्रमत्ता इव वारणेन्द्रै-
र्विभान्त्यनेकाश्रयिणो वनान्ताः ॥ ४.२८.३३ ॥

时而像被蜂群吟唱,时而像被孔雀起舞,时而像充满发狂的象王——庇护众生的林边熠熠生辉。

4.28.34

कदम्बसर्जार्जुनकन्दलाढ्या
वनान्तभूमिर्मधुवारिपूर्णा।
मयूरमत्ताभिरुतप्रनृत्तै-
रापानभूमिप्रतिमा विभाति ॥ ४.२८.३४ ॥

林地上生长着茂密的紫荆、娑罗与阿周那树及嫩芽,充满蜜水,因发狂的孔雀跃起而舞,宛如酒肆一般光彩照人。

4.28.35

मुक्तासमाभं सलिलं पतद् वै
सुनिर्मलं पत्रपुटेषु लग्नम्।
हृष्टा विवर्णच्छदना विहंगाः
सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥ ४.२८.३५ ॥

如珍珠般澄澈的水滴落,停留在叶片的杯状处;口渴而欢喜的鸟儿羽色暗淡,饮着因陀罗所赐的甘露之水。

4.28.36

षट्पादतन्त्रीमधुराभिधानं
प्लवंगमोदीरितकण्ठतालम्।
आविष्कृतं मेघमृदङ्गनादै-
र्वनेषु संगीतमिव प्रवृत्तम् ॥ ४.२८.३६ ॥

蜜蜂如弦,发出甜美之名;猴群以喉音与节拍应和;云鼓之声使其显露——森林中仿佛音乐已经奏响。

4.28.37

क्वचित् प्रनृत्तैः क्वचिदुन्नदद्भिः
क्वचिच्च वृक्षाग्रनिषण्णकायैः।
व्यालम्बबर्हाभरणैर्मयूरै-
र्वनेषु संगीतमिव प्रवृत्तम् ॥ ४.२८.३७ ॥

时而起舞,时而鸣叫,时而栖息于树梢,以长长的尾羽为饰的孔雀——森林中仿佛音乐已经奏响。

4.28.38

स्वनैर्घनानां प्लवगाः प्रबुद्धा
विहाय निद्रां चिरसंनिरुद्धाम्।
अनेकरूपाकृतिवर्णनादा
नवाम्बुधाराभिहता नदन्ति ॥ ४.२८.३८ ॥

被云层的轰鸣唤醒的猴群,抛开长久压抑的睡眠,形态、模样、颜色与叫声各异,被新雨的水流击打,纷纷吼叫。

4.28.39

नद्यः समुद्वाहितचक्रवाका-
स्तटानि शीर्णान्यपवाहयित्वा।
दृप्ता नवप्रावृतपूर्णभोगा-
दृतं स्वभर्तारमुपोपयान्ति ॥ ४.२८.३९ ॥

河流卷走了赤麻鸭,冲毁了破碎的堤岸,因新雨季的丰盈而涨满骄傲,依时奔向它们的主宰——大海。

4.28.40

नीलेषु नीला नववारिपूर्णा
मेघेषु मेघाः प्रतिभान्ति सक्ताः।
दवाग्निदग्धेषु दवाग्निदग्धाः
शैलेषु शैला इव बद्धमूलाः ॥ ४.२८.४० ॥

充满新水的黑色云团出现在黑云之中,相互依附;被林火烧过的,出现在被林火焚烧的山峦之间,如同根基稳固的山岳。

4.28.41

प्रमत्तसंनादितबर्हिणानि
सशक्रगोपाकुलशाद्वलानि।
चरन्ति नीपार्जुनवासितानि
गजाः सुरम्याणि वनान्तराणि ॥ ४.२८.४१ ॥

在美丽的林间,醉态的孔雀高声鸣叫,草丛中满是因陀罗虫,空气中弥漫着尼波树和阿周那树的芬芳,大象在此游荡。

4.28.42

नवाम्बुधाराहतकेसराणि
द्रुतं परित्यज्य सरोरुहाणि।
कदम्बपुष्पाणि सकेसराणि
नवानि हृष्टा भ्रमराः पिबन्ति ॥ ४.२८.४२ ॥

蜜蜂欢欣地迅速离开被新雨水流击打了花蕊的莲花,转而饮取带着花蕊的新鲜卡丹波花之蜜。

4.28.43

मत्ता गजेन्द्रा मुदिता गवेन्द्रा
वनेषु विक्रान्ततरा मृगेन्द्राः।
रम्या नगेन्द्राः निभृता नरेन्द्राः
प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥ ४.२८.४३ ॥

醉意盎然的象王,欢欣的牛王,林中更加勇猛的狮王,秀丽的山岳,安静的君王——天神之主因陀罗与云彩嬉戏。

4.28.44

मेघाः समुद्भूतसमुद्रनादा
महाजलौघैर्गगनावलम्बाः।
नदीस्तटाकानि सरांसि वापी-
र्महीं च कृत्स्नामपवाहयन्ति ॥ ४.२८.४४ ॥

如海涛般轰鸣的云层悬挂天空;以巨大的水流,它们冲走河流、池塘、湖泊、水井,以及整个大地。

4.28.45

वर्षप्रवेगा विपुलाः पतन्ति
प्रवान्ति वाताः समुदीर्णवेगाः।
प्रणष्टकूलाः प्रवहन्ति शीघ्रं
नद्यो जलं विप्रतिपन्नमार्गाः ॥ ४.२८.४५ ॥

暴雨的猛烈之势,倾盆而下;狂风以汹涌之力吹拂;河流失去了堤岸与河道,迷失了方向,急速地奔流着。

4.28.46

नरैर्नरेन्द्रा इव पर्वतेन्द्राः
सुरेन्द्रदत्तैः पवनोपनीतैः।
घनाम्बुकुम्भैरभिषिच्यमाना
रूपं श्रियं स्वामिव दर्शयन्ति ॥ ४.२८.४६ ॥

如同被人加冕的君王,那些山中之王被天神之主所赐、风所送来的云水瓮浇灌沐浴,仿佛在展示它们自身的容颜与光彩。

4.28.47

घनोपगूढं गगनं न तारा
न भास्करो दर्शनमभ्युपैति।
नवैर्जलौघैर्धरणी वितृप्ता
तमोविलिप्ता न दिशः प्रकाशाः ॥ ४.२८.४७ ॥

天空被厚厚的云层笼罩,星辰与太阳都不再显现;大地被新的水流浇灌得饱足,而被黑暗涂抹的四方,都不再明亮。

4.28.48

महान्ति कूटानि महीधराणां
धाराविधौतान्यधिकं विभान्ति।
महाप्रमाणैर्विपुलैः प्रपातै-
र्मुक्ताकलापैरिव लम्बमानैः ॥ ४.२८.४८ ॥

群山的巨峰被溪流冲洗,格外光彩照人;它们宽广的瀑布如同垂下的珍珠串。

4.28.49

शैलोपलप्रस्खलमानवेगाः
शैलोत्तमानां विपुलाः प्रपाताः।
गुहासु संनादितबर्हिणासु
हारा विकीर्यन्त इवावभान्ति ॥ ४.२८.४९ ॥

诸多高山的广阔瀑布,水势顺着岩石与石块滑落奔涌;在孔雀鸣叫的洞穴中,它们仿佛散落的珠串。

4.28.50

शीघ्रप्रवेगा विपुलाः प्रपाता
निर्धौतशृङ्गोपतला गिरीणाम्।
मुक्ताकलापप्रतिमाः पतन्तो
महागुहोत्सङ्गतलैर्ध्रियन्ते ॥ ४.२८.५० ॥

群山的广阔瀑布水流湍急,峰顶的下部已被冲洗干净。如珠串般坠落的它们,仿佛被大洞穴的底部托住。

4.28.51

सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः।
पतन्ति चातुला दिक्षु तोयधाराः समन्ततः ॥ ४.२८.५१ ॥

如同天上仙女在欢爱之中挣断的项链珍珠,无与伦比的水流从四面八方倾泻而下。

4.28.52

विलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः।
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥ ४.२८.५२ ॥

鸟儿渐渐止息,莲花闭合,茉莉绽放,由此可知太阳已经落下。

4.28.53

वृत्ता यात्रा नरेन्द्राणां सेना पथ्येव वर्तते।
वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥ ४.२८.५३ ॥

诸王的出征已经停止,军队仿佛停留在路上。仇怨与道路都被水流抹平了。

4.28.54

मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम्।
अयमध्यायसमयः सामगानामुपस्थितः ॥ ४.२८.५४ ॥

在Prauṣṭhapada月,想要诵读吠陀的婆罗门以及歌唱娑摩歌的人,学习的时节已经到来。

4.28.55

निवृत्तकर्मायतनो नूनं संचितसंचयः।
आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥ ४.२८.५५ ॥

完成祭祀之事、积蓄财物的科萨拉之主婆罗多,想必已经来到了阿沙荼月。

4.28.56

नूनमापूर्यमाणायाः सरय्वा वर्धते रयः।
मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ॥ ४.२८.५६ ॥

想必那涨满的萨罗由河水流正在增强;看见我到来,它便像阿逾陀的喧声一样轰鸣。

4.28.57

इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते।
विजितारिः सदारश्च राज्ये महति च स्थितः ॥ ४.२८.५७ ॥

苏格里婆在这富足美好的雨季中安乐享受,已战胜敌人,与妻子一同稳坐于广大的王国之中。

4.28.58

अहं तु हृतदारश्च राज्याच्च महतश्च्युतः।
नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ॥ ४.२८.५८ ॥

然而我,妻子被夺,又从伟大的王位上坠落,啊,罗什曼那,我正像被浸湿的河岸一样陷落下去。

4.28.59

शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः।
रावणश्च महाञ्छत्रुरपारः प्रतिभाति मे ॥ ४.२८.५९ ॥

我的悲痛广大无边,雨季极难度过,而大敌罗婆那在我看来也是无边无际的。

4.28.60

अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान्।
प्रणते चैव सुग्रीवे न मया किंचिदीरितम् ॥ ४.२८.६० ॥

看到这段旅程和极其艰难的道路,即使苏羯里婆俯身行礼,我也什么都没说。

4.28.61

अपि चापि परिक्लिष्टं चिराद् दारैः समागतम्।
आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम् ॥ ४.२८.६१ ॥

虽然他疲惫不堪,久别后才与妻子们重聚,但因我自己的使命十分重大,我不想对这只猴子说话。

4.28.62

स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम्।
उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥ ४.२८.६२ ॥

他自己休息之后,知道时机已到,也会明白所受的恩惠;这一点毫无疑问。

4.28.63

तस्मात् कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण।
सुग्रीवस्य नदीनां च प्रसादमभिकांक्षयन् ॥ ४.२८.६३ ॥

因此,吉兆之人啊,我留在这里等待时机,渴望苏羯里婆与河流的恩惠。

4.28.64

उपकारेण वीरो हि प्रतीकारेण युज्यते।
अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ४.२८.६४ ॥

英雄以报答相连;忘恩负义、不报答恩惠的人,伤害善良者的心。

4.28.65

अथैवमुक्तः प्रणिधाय लक्ष्मणः
कृताञ्जलिस्तत् प्रतिपूज्य भाषितम्।
उवाच रामं स्वभिरामदर्शनं
प्रदर्शयन् दर्शनमात्मनः शुभम् ॥ ४.२८.६५ ॥

听罢此言,罗什曼那凝神合掌,尊敬地回应,向容貌极其可爱的罗摩说话,并显现自己吉祥的形貌。

4.28.66

यदुक्तमेतत् तव सर्वमीप्सितं
नरेन्द्र कर्ता नचिराद्धरीश्वरः।
शरत्प्रतीक्षः क्षमतामिमं भवान्
जलप्रपातं रिपुनिग्रहे धृतः ॥ ४.२८.६६ ॥

君王啊!您所愿望的一切,猴王不久便会完成。您志在制服敌人,请忍耐这倾盆大雨,等待秋天的到来。