蚁垤《罗摩衍那》 · 篇 4.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.29.1
समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्।
सारसाकुलसंघुष्टं रम्यज्योत्स्नानुलेपनम् ॥ ४.२९.१ ॥
望着晴朗的天空,闪电与乌云已散去,天空中满是鹤鸣之声,洒满了迷人的月光。
4.29.2
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम्।
अत्यर्थं चासतां मार्गमेकान्तगतमानसम् ॥ ४.२९.२ ॥
苏羯婆,诸事已然顺遂,却怠于积累法与财富,心意全然沉溺于恶人之道。
4.29.3
निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा।
प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ॥ ४.२९.३ ॥
事已办完、目的已成,常与女子欢娱,所求的一切愿望皆已得偿。
4.29.4
स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम्।
विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ ४.२९.४ ॥
与心爱的妻子及他极为渴慕的达罗,日夜嬉戏,心满意足,毫无忧虑。
4.29.5
क्रीडन्तमिव देवेशं गन्धर्वाप्सरसां गणैः।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥ ४.२९.५ ॥
仿佛天神之王与乾闼婆、阿普沙罗的群众嬉戏;他把政务托付给大臣,却不过问大臣们的行事。
4.29.6
उच्छिन्नराज्यसंदेहं कामवृत्तमिव स्थितम्।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ४.२९.६ ॥
对王国毫无疑虑,安居如同纵情于欲望之人。目标坚定,通晓事务的本质,熟知时节的特定法度。
4.29.7
प्रसाद्य वाक्यैर्विविधैर्हेतुमद्भिर्मनोरमैः।
वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ ४.२९.७ ॥
精通言辞的风神之子哈奴曼,以多种动听且有理有据的言辞,安抚了通晓言语真谛的猴王。
4.29.8
हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत्।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ॥ ४.२९.८ ॥
这番话有益、真实而适宜,蕴含着怀柔、法与利的策略,充满亲情与善意,并建立在互信之上的坚定决心。
4.29.9
हरीश्वरमुपागम्य हनूमान् वाक्यमब्रवीत्।
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ॥ ४.२९.९ ॥
哈奴曼走近猴王,说道:“王国已经得到,声名也已获得;家族的福运也已增长。”
4.29.10
मित्राणां संग्रहः शेषस्तद् भवान् कर्तुमर्हति।
यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ॥ ४.२९.१० ॥
召集朋友之事尚未完成,因此您应当去做。那些懂得时机、常对朋友行善之人——
4.29.11
तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते।
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप।
समान्येतानि सर्वाणि स राज्यं महदश्नुते ॥ ४.२९.११ ॥
凡其府库、军队、朋友与自身皆同样充实者,其国家、声望与威势也随之增长;哦,君王,这样的人享有广大的王国。
4.29.12
तद् भवान् वृत्तसम्पन्नः स्थितः पथि निरत्यये।
मित्रार्थमभिनीतार्थं यथावत् कर्तुमर्हति ॥ ४.२९.१२ ॥
因此,您品德高尚,立于不衰之道,理应依礼完成前面所说的、为朋友而行的目的。
4.29.13
संत्यज्य सर्वकर्माणि मित्रार्थे यो न वर्तते।
सम्भ्रमाद् विकृतोत्साहः सोऽनर्थैर्नावरुध्यते ॥ ४.२९.१३ ॥
舍弃一切事务而不为朋友之事尽力,又因慌乱而使干劲受挫的人,会陷入种种祸患。
4.29.14
यो हि कालव्यतीतेषु मित्रकार्येषु वर्तते।
स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ॥ ४.२९.१४ ॥
若在时机已过之后才为朋友之事奔走,即便成就大事,也不能与朋友之利相合。
4.29.15
तदिदं मित्रकार्यं नः कालातीतमरिंदम।
क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम् ॥ ४.२९.१५ ॥
因此,我们朋友的这件事已过时机了,啊,降伏敌人者。请现在就为罗怙后裔(罗摩)去寻找维代哈(悉多)吧。
4.29.16
न च कालमतीतं ते निवेदयति कालवित्।
त्वरमाणोऽपि स प्राज्ञस्तव राजन् वशानुगः ॥ ४.२९.१६ ॥
大王,那位知晓时机的智者,虽然急迫,却不向您禀告时机已过;他是服从您意志的人。
4.29.17
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ ४.२९.१७ ॥
罗怙(罗摩)是其家族昌盛的根源,也是长久的盟友;他的威力不可估量,自身的德行亦无与伦比。
4.29.18
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव।
हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि ॥ ४.२९.१८ ॥
你应当去完成他的事,因为他先前已为你完成了事情。啊,猴王之主,你应当向诸位优秀的猴子下达命令。
4.29.19
नहि तावद् भवेत् कालो व्यतीतश्चोदनादृते।
चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः ॥ ४.२९.१९ ॥
若无你的催促,时间尚未虚度;延误只会发生在已被催促的事情上。
4.29.20
अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर।
किं पुनः प्रतिकर्तुस्ते राज्येन च वधेन च ॥ ४.२९.२० ॥
猴王啊,即使是你未曾做过的事,你也会去做。何况是为你夺回王国、报你之仇的人呢?
4.29.21
शक्तिमानतिविक्रान्तो वानरर्क्षगणेश्वर।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे ॥ ४.२९.२१ ॥
猴熊众军之主啊,你强大而极其勇猛。为何在执行那能令达舍罗陀之子欢喜的命令上犹豫不决?
4.29.22
कामं खलु शरैः शक्तः सुरासुरमहोरगान्।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञामवेक्षते ॥ ४.२९.२२ ॥
达舍罗陀之子以其箭矢,的确能够制伏诸天与阿修罗的大蛇,然而他仍在等待你的誓言得以实现。
4.29.23
प्राणत्यागाविशंकेन कृतं तेन महत् प्रियम्।
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ ४.२९.२३ ॥
他虽担心失去性命,仍为你做了大好事。为了他,我们要在大地上乃至天空中寻找毗提诃之女。
4.29.24
देवदानवगन्धर्वा असुराः समरुद्गणाः।
न च यक्षा भयं तस्य कुर्युः किमिव राक्षसाः ॥ ४.२९.२४ ॥
诸天、檀那婆、乾闼婆、阿修罗、摩录多众,乃至夜叉,都不能使他生出恐惧,何况罗刹呢?
4.29.25
तदेवं शक्तियुक्तस्य पूर्वं प्रतिकृतस्तथा।
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥ ४.२९.२५ ॥
因此,你应当以全部身心,为有力的罗摩做他所喜悦之事,他曾先前以同样的恩惠回报了你,啊,猴王之主。
4.29.26
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे।
कस्यचित् सज्जतेऽस्माकं कपीश्वर तवाज्ञया ॥ ४.२९.२६ ॥
啊,猴王之主,凭你的命令,我们的行程无人能阻——无论下于大地,还是行于水中,或上于天空。
4.29.27
तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु।
हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ॥ ४.२९.२७ ॥
所以请下令:谁该做什么,从何处开始。啊,无过之人,你的猴子即使面对千万之众也不可战胜。
4.29.28
तस्य तद् वचनं श्रुत्वा काले साधु निरूपितम्।
सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ॥ ४.२९.२८ ॥
苏格里婆听闻他适时而善言的这番话,勇气充沛,便下定了上好的决心。
4.29.29
संदिदेशातिमतिमान् नीलं नित्यकृतोद्यमम्।
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे ॥ ४.२९.२९ ॥
极具智慧的苏格里婆命总是勤勉的尼罗,从各个方向集合所有的军队。
4.29.30
यथा सेना समग्रा मे यूथपालाश्च सर्वशः।
समागच्छन्त्यसङ्गेन सेनाग्र्ये ण तथा कुरु ॥ ४.२९.३० ॥
为使我的全军与各队统领毫不延误地一同到来,统帅啊,请如此行事。
4.29.31
ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः।
समानयन्तु ते शीघ्रं त्वरिताः शासनान्मम।
स्वयं चानन्तरं कार्यं भवानेवानुपश्यतु ॥ ४.२९.३१ ॥
让边境的守卫猴众,行动迅捷而果敢,依我的命令迅速而热切地召集全部;之后你亲自监督此事。
4.29.32
त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयादिह वानरः।
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ ४.२९.३२ ॥
凡猴众在三五夜之后到达此处者,其刑罚为死;此事无须再议。
4.29.33
हरींश्च वृद्धानुपयातु साङ्गदो
भवान् ममाज्ञामधिकृत्य निश्चितम्।
विधाय वेश्म प्रविवेश वीर्यवान् ॥ ४.२९.३३ ॥
你与安伽陀一同前往老猴众那里,确实地执行我的命令。说完这些,这位英勇者便走入了他的居所。