Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.3.1

वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः।
पर्वतादृष्यमूकात् तु पुप्लुवे यत्र राघवौ ॥ ४.३.१ ॥

哈奴曼领会了伟大的须羯哩婆的话,便从黑猴山跃向两位罗怙之后所在之处。

4.3.2

कपिरूपं परित्यज्य हनुमान् मारुतात्मजः।
भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥ ४.३.२ ॥

哈奴曼舍弃猴形,风神之子便以狡诈之心化作托钵僧之形。

4.3.3

ततश्च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया।
विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥ ४.३.३ ॥

于是哈奴曼以温和悦耳的言辞,谦恭地走近两位罗怙之后,向他们行礼。

4.3.4

आबभाषे च तौ वीरौ यथावत् प्रशशंस च।
सम्पूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः ॥ ४.३.४ ॥

猴中之最哈奴曼依礼与两位英雄交谈,赞美他们,并依照礼仪向他们致敬。

4.3.5

उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ।
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ॥ ४.३.५ ॥

哈奴曼随心所欲地对这两位真勇之士、如王仙与天神一般、持守坚定誓愿的苦行者,说出了温和的话语。

4.3.6

देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ।
त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ॥ ४.३.६ ॥

两位容貌出众的人,为何来到这片地方,惊扰着鹿群和其他林中生灵?

4.3.7

पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः।
इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ ॥ ४.३.७ ॥

环顾潘帕河岸上生长的树木,装点着这条清水之河的两位迅捷而有力的英雄。

4.3.8

धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ।
निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः ॥ ४.३.८ ॥

你们二位坚毅、金色光芒、身着树皮衣、叹息连连、臂膀有力,为何苦害这些生灵?

4.3.9

सिंहविप्रेक्षितौ वीरौ महाबलपराक्रमौ।
शक्रचापनिभे चापे गृहीत्वा शत्रुनाशनौ ॥ ४.३.९ ॥

二位英雄目光如狮,力量与勇武过人,手持如帝释天之弓的弓,是消灭敌人的人。

4.3.10

श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ।
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ॥ ४.३.१० ॥

二位英俊光辉、容貌出众,勇猛如最优秀的公牛,臂膀如象鼻,光彩照人,是人中之雄。

4.3.11

प्रभया पर्वतेन्द्रोऽसौ युवयोरवभासितः।
राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ॥ ४.३.११ ॥

这位山王因你们的光辉而明亮。你们二位配享王位,如同天神,为何来到这片土地?

4.3.12

पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ।
अन्योन्यसदृशौ वीरौ देवलोकादिहागतौ ॥ ४.३.१२ ॥

二位英雄目如莲瓣,头戴发髻,形貌相似,是从天界来到此地的。

4.3.13

यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यौ वसुंधराम्।
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥ ४.३.१३ ॥

仿佛日月偶然降临大地,这两位宽胸的英雄是凡人,却有神的容貌。

4.3.14

सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ।
आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ॥ ४.३.१४ ॥

肩如狮子,意志昂扬,如同发情的公牛;他们的手臂修长圆润,如同铁棒。

4.3.15

सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः।
उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ॥ ४.३.१५ ॥

他们本应以一切饰物装扮,为何未加装饰?我认为这二人足以守护这片大地。

4.3.16

ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्।
इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने ॥ ४.३.१६ ॥

整个大地,连同海洋与森林,由文底耶山与弥卢山装点;还有这两张奇妙光滑、涂有彩色漆饰的弓。

4.3.17

प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते।
सम्पूर्णाश्च शितैर्बाणैस्तूणाश्च शुभदर्शनाः ॥ ४.३.१७ ॥

它们如同因陀罗饰金的金刚杵般闪耀;盛满锐利箭矢的箭袋,望之吉祥。

4.3.18

जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः।
महाप्रमाणौ विपुलौ तप्तहाटकभूषणौ ॥ ४.३.१८ ॥

如同令人丧命、可怕而炽热的毒蛇;这二人身材高大魁伟,饰以炼过的黄金首饰。

4.3.19

खड्गावेतौ विराजेते निर्मुक्तभुजगाविव।
एवं मां परिभाषन्तं कस्माद् वै नाभिभाषतः ॥ ४.३.१९ ॥

这两把剑闪耀如同蜕去蛇皮的毒蛇。我如此与你们说话,你们为何不回答我?

4.3.20

सुग्रीवो नाम धर्मात्मा कश्चिद् वानरपुङ्गवः।
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥ ४.३.२० ॥

有一位名叫须羯利婆的正直猴中之杰。这位英雄被其兄所欺,痛苦地在世间流浪。

4.3.21

प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना।
राज्ञा वानरमुख्यानां हनुमान् नाम वानरः ॥ ४.३.२१ ॥

我受伟大心灵的须羯利婆派遣而来。他是众猴之王。我名叫哈奴曼,是一只猴子。

4.3.22

युवाभ्यां स हि धर्मात्मा सुग्रीवः सख्यमिच्छति।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ ४.३.२२ ॥

那位正直的须羯利婆愿与你们二人结为友好。请知道我是他的大臣,风神之子猴子。

4.3.23

भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकारणात्।
ऋष्यमूकादिह प्राप्तं कामगं कामचारिणम् ॥ ४.३.२३ ॥

为了使须羯利婆欢喜,我化作乞士的模样,从仙人山来到这里。我能随意前往,随意游走。

4.3.24

एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ।
वाक्यज्ञो वाक्यकुशलः पुनर्नोवाच किंचन ॥ ४.३.२४ ॥

说完这番话后,精通言辞、善于辩说的哈奴曼,便不再对那两位英雄罗摩与罗什曼那说任何话了。

4.3.25

एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्।
प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ॥ ४.३.२५ ॥

罗摩听了他的这番话,面带喜色,对站在身旁的弟弟罗什曼那说道。

4.3.26

सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः।
तमेव कांक्षमाणस्य ममान्तिकमिहागतः ॥ ४.३.२६ ॥

此人是大德猴王须羯哩婆的大臣;他正是为寻找我而来到我这里。

4.3.27

तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम्।
वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम् ॥ ४.३.२७ ॥

苏弥陀罗之子啊!请用充满温情的甜美言辞,与须羯哩婆的大臣、善于言辞、能降伏敌人的那位猴子交谈。

4.3.28

नानृग्वेदविनीतस्य नायजुर्वेदधारिणः।
नासामवेदविदुषः शक्यमेवं विभाषितुम् ॥ ४.३.२८ ॥

未曾精通《梨俱吠陀》、不持《夜柔吠陀》、也不通晓《娑摩吠陀》的人,是不可能这样说话的。

4.3.29

नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्।
बहु व्याहरतानेन न किंचिदपशब्दितम् ॥ ४.३.२९ ॥

他必定已从各方面学习了全部语法,因为他说了这么多,竟没有说出一个错误的词。

4.3.30

न मुखे नेत्रयोश्चापि ललाटे च भ्रुवोस्तथा।
अन्येष्वपि च सर्वेषु दोषः संविदितः क्वचित् ॥ ४.३.३० ॥

他的面容、双眼、额头和眉毛,以及其他一切肢体,都找不到任何缺陷。

4.3.31

अविस्तरमसंदिग्धमविलम्बितमव्यथम्।
उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम् ॥ ४.३.३१ ॥

言辞不冗长、不含糊,不急促、不滞涩,发自胸中,从喉间出,声音居于中音。

4.3.32

संस्कारक्रमसम्पन्नामद्भुतामविलम्बिताम्।
उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम् ॥ ४.३.३२ ॥

他说出的言辞,次序精妙,奇妙而不急促,吉祥且令人心生欢喜。

4.3.33

अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया।
कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ ४.३.३३ ॥

以此多彩之言,发于三处之音,谁的心不被打动?即便是高举利剑的敌人,其心也不被感化吗?

4.3.34

एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु।
सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥ ४.३.३४ ॥

若君王没有这样的使者,他所谋之事如何能够成就呢,无瑕之人啊?

4.3.35

एवंगुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः।
तस्य सिद्ध्यन्ति सर्वेऽर्था दूतवाक्यप्रचोदिताः ॥ ४.३.३५ ॥

若有具备此等诸般德行、善于成事的使者,他的一切目标都会因使者之言的推动而成就。

4.3.36

एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम्।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥ ४.३.३६ ॥

如此被言及,精通言辞的罗什曼那,对苏耆婆的大臣、风神之子那猴子,这位同样精通言辞的人说道。

4.3.37

विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः।
तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम् ॥ ४.३.३७ ॥

智者啊,我们知道伟大心灵的须羯哩婆的美德;我们二人正要寻找的,正是那猴王须羯哩婆。

4.3.38

यथा ब्रवीषि हनुमन् सुग्रीववचनादिह।
तत् तथा हि करिष्यावो वचनात् तव सत्तम ॥ ४.३.३८ ॥

哈奴曼啊,你依须羯哩婆的话在此所说的,我们便依你的话照办,善人中的最上者啊。

4.3.39

तत् तस्य वाक्यं निपुणं निशम्य
प्रहृष्टरूपः पवनात्मजः कपिः।
मनः समाधाय जयोपपत्तौ
सख्यं तदा कर्तुमियेष ताभ्याम् ॥ ४.३.३९ ॥

听了他们巧妙的话语,风神之子那只猴子喜形于色;他将心志专注于获得胜利,于是便想与这二人结为友好。