蚁垤《罗摩衍那》 · 篇 4.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.32.1
अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह।
लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥ ४.३२.१ ॥
苏羯里婆听了安伽陀的话,又听说罗什曼那已经震怒,便克制自己,与大臣们一同离开了座位。
4.32.2
स च तानब्रवीद् वाक्यं निश्चित्य गुरुलाघवम्।
मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः ॥ ४.३२.२ ॥
他权衡了事情的轻重,精通谋略、坚定于商议,便对通晓谋略的大臣们说了这些话。
4.32.3
न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम्।
लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥ ४.३२.३ ॥
我没有说过任何恶言,也没有做过任何恶行。罗怙之弟罗什曼那为何震怒?我正在思量。
4.32.4
असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः।
मम दोषानसम्भूतान् श्रावितो राघवानुजः ॥ ४.३२.४ ॥
那些时时搜寻我过失的仇敌与不友之人,把并不存在的过错传到了罗怙的幼弟耳中。
4.32.5
अत्र तावद् यथाबुद्धिः सर्वैरेव यथाविधि।
भावस्य निश्चयस्तावद् विज्ञेयो निपुणं शनैः ॥ ४.३२.५ ॥
此时此地,各人应依自己的见识,依法度,谨慎而缓慢地去了解意图的决断。
4.32.6
न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्।
मित्रं स्वस्थानकुपितं जनयत्येव सम्भ्रमम् ॥ ४.३२.६ ॥
我对罗什曼那毫无畏惧,对罗怙也无所畏惧。朋友在自己的位置上发怒,只会引起惊慌。
4.32.7
सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम्।
अनित्यत्वात् तु चित्तानां प्रीतिरल्पेऽपि भिद्यते ॥ ४.३२.७ ॥
结交朋友处处容易,维系友谊却很难。因心念无常,即使为小事,情谊也会破裂。
4.32.8
अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना।
यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥ ४.३२.८ ॥
因此,我因大德的罗摩而心怀恐惧;他所施于我的恩惠,我无法报答。
4.32.9
सुग्रीवेणैवमुक्ते तु हनूमान् हरिपुंगवः।
उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥ ४.३२.९ ॥
sugrīva如此说罢,猴中之最Hanumān在众猴大臣之中,以自己的思量说道。
4.32.10
सर्वथा नैतदाश्चर्यं यत् त्वं हरिगणेश्वर।
न विस्मरसि सुस्निग्धमुपकारं कृतं शुभम् ॥ ४.३२.१० ॥
猴群之主啊,你不忘记那极为亲厚、吉祥的恩惠,这完全不足为奇。
4.32.11
राघवेण तु वीरेण भयमुत्सृज्य दूरतः।
त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ॥ ४.३२.११ ॥
英雄罗怀婆抛开恐惧,从远处为了让你欢喜,杀死了勇力可与因陀罗相比的婆利。
4.32.12
सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः।
भ्रातरं सम्प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम् ॥ ४.३२.१२ ॥
罗怀婆因深情而愤怒,这没有疑问;他派遣了兄弟罗什曼那,此人能增添吉祥。
4.32.13
त्वं प्रमत्तो न जानीषे कालं कालविदां वर।
फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छुभा ॥ ४.३२.१३ ॥
知时之最者啊!你懈怠而不知时节:吉祥的秋天已经来临,盛开的七叶树使大地呈现深色。
4.32.14
निर्मलग्रहनक्षत्रा द्यौः प्रणष्टबलाहका।
प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च ॥ ४.३२.१४ ॥
天空清澈,行星与星宿明净,云彩已经消散;四面八方、江河湖泊都澄明安宁。
4.32.15
प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव।
त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ॥ ४.३२.१५ ॥
猴中之雄啊!行动的时机已经到来,你却不明白;你显然懈怠了,因此这位罗什曼那才来到这里。
4.32.16
आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्।
वचनं मर्षणीयं ते राघवस्य महात्मनः ॥ ४.३२.१६ ॥
一个悲痛且妻子被夺走的人,经他人之口说出的严厉话语,你应当忍受;那是大德罗ghava的话语。
4.32.17
कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम्।
अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥ ४.३२.१७ ॥
对于犯了过错的你,我看不到别的合宜之道,只有合掌恭敬,以平息罗什曼那的怒气。
4.32.18
नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम्।
इत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ॥ ४.३२.१८ ॥
受任的大臣必须向君王说出有益的话;因此我从此放下畏惧,说一句坚定的话。
4.32.19
अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः।
सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ॥ ४.३२.१९ ॥
若罗伽婆(罗摩)勃然大怒、举起弓来,他便足以使包括诸天、阿修罗与乾闼婆在内的整个世界都臣服于其掌控之下。
4.32.20
न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत्।
पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥ ४.३२.२० ॥
他记得往日的恩惠,尤其懂得感恩,不会去激怒那些可以再度被安抚的人。
4.32.21
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः।
राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ॥ ४.३२.२१ ॥
大王!你当与子嗣、亲友一同向他叩首致礼,依照你的誓言,居于他的掌控之下,犹如妻子顺从丈夫一般。
4.32.22
न रामरामानुजशासनं त्वया
कपीन्द्र युक्तं मनसाप्यपोहितुम्।
मनो हि ते ज्ञास्यति मानुषं बलं
सराघवस्यास्य सुरेन्द्रवर्चसः ॥ ४.३२.२२ ॥
猴王啊!你即便在心中也不宜违背罗摩及其幼弟的命令。你自己的心将会知道这位与天帝一样光辉的罗伽婆所具有的人间之力。