蚁垤《罗摩衍那》 · 篇 4.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.33.1
अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा।
प्रविवेश गुहां रम्यां किष्किन्धां रामशासनात् ॥ ४.३३.१ ॥
于是,遵照罗摩的命令,摧毁敌方英雄的罗什曼那进入了吉什金陀美丽的洞穴。
4.33.2
द्वारस्था हरयस्तत्र महाकाया महाबलाः।
बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ ४.३३.२ ॥
守在门口的猴子们身躯庞大、力量强大,看见罗什曼那后,全都合掌肃立。
4.33.3
निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्।
बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् ॥ ४.३३.३ ॥
看见达沙罗陀之子怒气冲冲、长声叹息,猴子们惊恐万分,不敢上前将他包围。
4.33.4
स तां रत्नमयीं दिव्यां श्रीमान् पुष्पितकाननाम्।
रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् ॥ ४.३३.४ ॥
这位光辉的罗什曼那看见了那座宏大的洞穴:它由珠宝构成,神妙非凡,林园繁花盛开,美丽而珍宝遍布。
4.33.5
हर्म्यप्रासादसम्बाधां नानारत्नोपशोभिताम्।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥ ४.३३.५ ॥
那洞穴中楼阁宫殿林立,装饰着各色珍宝,并有开花的树木点缀,树上结满满足一切愿望的果实。
4.33.6
देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः।
दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनैः ॥ ४.३३.६ ॥
那洞穴中有天神和乾闼婆之子,以及能随意变化形貌的猴子,他们佩戴神圣的花环、穿着神妙的衣服,令人赏心悦目。
4.33.7
चन्दनागुरुपद्मानां गन्धैः सुरभिगन्धिताम्।
मैरेयाणां मधूनां च सम्मोदितमहापथाम् ॥ ४.३३.७ ॥
檀香、沉香与莲花的芬芳遍布全城,大道因迈雷耶酒与蜜酒的香气而欢愉。
4.33.8
विन्ध्यमेरुगिरिप्रख्यैः प्रासादैर्नैकभूमिभिः।
ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ॥ ४.३३.८ ॥
罗怙之子在那里看见了如毗陀耶山与弥卢山般高耸的多层宫殿,以及清澈的山间河流。
4.33.9
अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च।
गवयस्य गवाक्षस्य गजस्य शरभस्य च ॥ ४.३३.९ ॥
还有安伽达可爱的住所,以及曼达、德维维达、迦瓦耶、迦瓦叉、迦阇与舍罗婆的住所。
4.33.10
विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः।
वीरबाहोः सुबाहोश्च नलस्य च महात्मनः ॥ ४.३३.१० ॥
还有毗迭牟摩利、桑巴提、苏梨耶叉、哈奴曼、毗罗巴忽、苏巴忽以及大心的那罗之家。
4.33.11
कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा।
दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ ४.३३.११ ॥
还有俱穆陀与苏舍那、多罗与熊罴王、达提缚刹、青色,以及苏跋吒罗与苏那特罗的住所。
4.33.12
एतेषां कपिमुख्यानां राजमार्गे महात्मनाम्।
ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥ ४.३३.१२ ॥
在王道上,罗什曼那看见了这些大心的猴族首领的主要宅第,它们坚固而宏大。
4.33.13
पाण्डुराभ्रप्रकाशानि गन्धमाल्ययुतानि च।
प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च ॥ ४.३३.१३ ॥
那些房屋如白云般明亮,充满香气与花环,富饶丰足,以女中珍宝为装饰。
4.33.14
पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम्।
वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम् ॥ ४.३३.१४ ॥
猴王那座可爱的宫殿,被白色的山峰环绕,难以接近,如同因陀罗的居所。
4.33.15
शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम् ॥ ४.३३.१५ ॥
那座宫殿以如同凯拉萨山峰的白色楼阁为顶,并以开花的树木装饰,这些树结出满足一切愿望的果实。
4.33.16
महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः।
दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः ॥ ४.३३.१६ ॥
这些由因陀罗所赐的壮美树木,形如乌云,结出神圣的花与果,树荫清凉,令人心旷神怡。
4.33.17
हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः।
दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ॥ ४.३३.१७ ॥
其门由手持兵器的强壮猴众守卫;覆以神圣的花环,明亮耀眼,门楣为精炼的金饰。
4.33.18
सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः।
अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः ॥ ४.३३.१८ ॥
大力的罗什曼那进入苏格利瓦那座可爱的宫殿,无人阻拦,如同太阳穿过大云。
4.33.19
स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः।
ददर्श सुमहद्गुप्तं ददर्शान्तःपुरं महत् ॥ ४.३३.१९ ॥
德行高尚者看见七间装满车辆与座椅的厢房,又看见了戒备森严的宏大内宫。
4.33.20
हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः।
महार्हास्तरणोपेतैस्तत्र तत्र समावृतम् ॥ ४.३३.२० ॥
处处摆满金银卧榻、许多上好的座椅与贵重的锦褥。
4.33.21
प्रविशन्नेव सततं शुश्राव मधुरस्वनम्।
तन्त्रीगीतसमाकीर्णं समतालपदाक्षरम् ॥ ४.३३.२१ ॥
一进入,他便不断听到甜美的声音,充满伴着弦乐的歌唱,其词句与节拍整齐和谐。
4.33.22
बह्वीश्च विविधाकारा रूपयौवनगर्विताः।
स्त्रियः सुग्रीवभवने ददर्श स महाबलः ॥ ४.३३.२२ ॥
在须羯哩婆的宫中,这位大力者看见许多形貌各异、因美貌与青春而自负的女子。
4.33.23
दृष्ट्वाभिजनसम्पन्नास्तत्र माल्यकृतस्रजः।
वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥ ४.३३.२३ ॥
他看见那里出身高贵的女子,正在编织花环,忙于制作精美的花鬘,并以上等首饰装饰自身。
4.33.24
नातृप्तान् नाति चाव्यग्रान् नानुदात्तपरिच्छदान्।
सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ ४.३३.२४ ॥
罗什曼那注意到须羯哩婆的侍从:他们既不懈怠,也不过分慌乱,衣着也不寒酸。
4.33.25
कूजितं नूपुराणां च काञ्चीनां निःस्वनं तथा।
स निशम्य ततः श्रीमान् सौमित्रिर्लज्जितोऽभवत् ॥ ४.३३.२५ ॥
听到足环的叮当声和腰带的响声,光荣的罗什曼那感到羞愧。
4.33.26
रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम्।
चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन् ॥ ४.३३.२६ ॥
听到饰物的声音,怒火中烧的英雄拨响弓弦,声音充满了四方。
4.33.27
चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः।
तस्थावेकान्तमाश्रित्य रामकोपसमन्वितः ॥ ४.३३.२७ ॥
臂力强大的罗什曼那以其品行克制自己,怀着罗摩的怒火,退到一旁独自站立。
4.33.28
तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः।
विज्ञायागमनं त्रस्तः स चचाल वरासनात् ॥ ४.३३.२८ ॥
从那弓弦的声音中,猴王须羯梨婆知道罗什曼那来了;他惊恐不已,从他尊贵的座位上颤抖着站起。
4.33.29
अङ्गदेन यथा मह्यं पुरस्तात् प्रतिवेदितम्।
सुव्यक्तमेष सम्प्राप्तः सौमित्रिर्भ्रातृवत्सलः ॥ ४.३३.२९ ॥
正如安伽达先前向我报告的那样,现在明白了,爱护兄长的罗什曼那已经到来。
4.33.30
अङ्गदेन समाख्यातो ज्यास्वनेन च वानरः।
बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ॥ ४.३३.३० ॥
经安伽达告知,又听到弓弦之声,这只猴子知道罗什曼那已经到来,脸色因此变得苍白干枯。
4.33.31
ततस्तारां हरिश्रेष्ठः सुग्रीवः प्रियदर्शनाम्।
उवाच हितमव्यग्रस्त्राससम्भ्रान्तमानसः ॥ ४.३३.३१ ॥
于是,猴中之最的须羯利婆以不为恐惧所扰的心,对容颜可爱的多罗说了有益的话。
4.33.32
किं नु रुट्कारणं सुभ्रु प्रकृत्या मृदुमानसः।
सरोष इव सम्प्राप्तो येनायं राघवानुजः ॥ ४.३३.३२ ॥
美眉的人啊,罗迦婆的幼弟本性温和,却仿佛怀着愤怒而来,这愤怒的原因是什么?
4.33.33
किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते।
न खल्वकारणे कोपमाहरेन्नरपुङ्गवः ॥ ४.३३.३३ ॥
无瑕的人啊,你可看见王子发怒的缘由?实在说,人中之尊不会无故动怒。
4.33.34
यद्यस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम्।
तद्बुद्ध्या सम्प्रधार्याशु क्षिप्रमेवाभिधीयताम् ॥ ४.३३.३४ ॥
若你察觉我们对他做了什么不悦之事,就以智慧思量,快点说出来。
4.33.35
अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि।
वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि ॥ ४.३३.३५ ॥
或者,光彩照人的女子啊,你自己应当去见他,并以安慰的言语使他欢喜。
4.33.36
त्वद्दर्शने विशुद्धात्मा न स्म कोपं करिष्यति।
नहि स्त्रीषु महात्मानः क्वचित् कुर्वन्ति दारुणम् ॥ ४.३३.३६ ॥
见到你,那位心地纯洁的人不会发怒。大德之人从不对女子做出残忍之事。
4.33.37
त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रियमानसम्।
ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिंदमम् ॥ ४.३३.३७ ॥
待你以安慰之言使他的感官与心意平静之后,我便能见到那莲花瓣般眼睛的、降伏敌人的人。
4.33.38
सा प्रस्खलन्ती मदविह्वलाक्षी
प्रलम्बकाञ्चीगुणहेमसूत्रा।
सलक्षणा लक्ष्मणसंनिधानं
जगाम तारा नमिताङ्गयष्टिः ॥ ४.३३.३८ ॥
踉跄而行,醉意迷离的双眼,佩着长长的金腰带,仪态优雅而具吉相,身躯低垂,塔拉走到了罗什曼那的身边。
4.33.39
स तां समीक्ष्यैव हरीशपत्नीं
तस्थावुदासीनतया महात्मा।
अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः
स्त्रीसंनिकर्षाद् विनिवृत्तकोपः ॥ ४.३३.३९ ॥
他看见猴王之妻,那位高尚的人以冷漠之态伫立;人王之子低下了头,因女子的靠近,他的怒气消散了。
4.33.40
सा पानयोगाच्च निवृत्तलज्जा
दृष्टिप्रसादाच्च नरेन्द्रसूनोः।
उवाच तारा प्रणयप्रगल्भं
वाक्यं महार्थं परिसान्त्वरूपम् ॥ ४.३३.४० ॥
因饮酒的影响和王子和悦的目光,塔拉羞怯尽去,带着深情与勇气,说出了意义重大、安慰人心的话语。
4.33.41
किं कोपमूलं मनुजेन्द्रपुत्र
कस्ते न संतिष्ठति वाङ्निदेशे।
कः शुष्कवृक्षं वनमापतन्तं
दावाग्निमासीदति निर्विशङ्कः ॥ ४.३३.४१ ॥
人王之子啊,你的怒气根源是什么?谁不遵从你口中的命令?谁会毫无畏惧地靠近落在枯木林上的林火?
4.33.42
स तस्या वचनं श्रुत्वा सान्त्वपूर्वमशङ्कितः।
भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत् ॥ ४.३३.४२ ॥
罗什曼那听了她的话,毫不畏惧,先加以安慰,顾念须羯哩婆的情谊,又说了这番话。
4.33.43
किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः।
भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे ॥ ४.३३.४३ ॥
你的丈夫是否因欲望而行事,失去了法与利的积累?他本应专心于主人的福祉,你却没有察觉他。
4.33.44
न चिन्तयति राज्यार्थं सोऽस्मान् शोकपरायणान्।
सामात्यपरिषत् तारे काममेवोपसेवते ॥ ४.३३.४४ ॥
他不考虑国事,也不顾念我们这些沉浸于悲伤的人。塔拉啊,他虽有大臣和议会相伴,却只沉溺于享乐。
4.33.45
स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः।
व्यतीतांस्तान् मदोदग्रो विहरन् नावबुध्यते ॥ ४.३३.४५ ॥
那猴王定下四个月为期,然而他因醉意而骄矜,嬉戏游乐,竟未察觉那些月份已经过去了。
4.33.46
नहि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते।
पानादर्थश्च कामश्च धर्मश्च परिहीयते ॥ ४.३३.४६ ॥
实际上,这样饮酒并不为成就法与利所称赞。因饮酒,利、欲与法都会衰减。
4.33.47
धर्मलोपो महांस्तावत् कृते ह्यप्रतिकुर्वतः।
अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥ ४.३३.४७ ॥
对于不报答所受恩德的人,法的丧失确实很大;而当有德之友毁灭时,利的丧失也很大。
4.33.48
मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम्।
तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम् ॥ ४.३३.४८ ॥
这位在财利与德行上卓越、专注于真理与法的朋友——那两者(财利与德行)已被抛弃,然而他并未安立于法之中。
4.33.49
तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम्।
तत् कार्यं कार्यतत्त्वज्ञे त्वमुदाहर्तुमर्हसि ॥ ४.३३.४९ ॥
事情既已如此陈述,我们接下来的职责是这个;你通晓职责的本质,应当宣示这项职责。
4.33.50
सा तस्य धर्मार्थसमाधियुक्तं
निशम्य वाक्यं मधुरस्वभावम्।
तारा गतार्थे मनुजेन्द्रकार्ये
विश्वासयुक्तं तमुवाच भूयः ॥ ४.३३.५० ॥
闻其言语,合于法与利,性情温和,塔拉对人主(须羯哩婆)之事的成就充满信心,又对他说道。
4.33.51
न कोपकालः क्षितिपालपुत्र
न चापि कोपः स्वजने विधेयः।
त्वदर्थकामस्य जनस्य तस्य
प्रमादमप्यर्हसि वीर सोढुम् ॥ ४.३३.५१ ॥
王者之子啊,此时不是发怒的时候,也不应对自己人发怒。那个希望成就你之事的人的过失,英雄啊,你也应当忍受。
4.33.52
कोपं कथं नाम गुणप्रकृष्टः
कुमार कुर्यादपकृष्टसत्त्वे।
कस्त्वद्विधः कोपवशं हि गच्छेत्
सत्त्वावरुद्धस्तपसः प्रसूतिः ॥ ४.३३.५२ ॥
王子啊,德行卓越的人怎会对品性低劣者发怒?像你这样以纯善之性自持、又是苦行之源的人,谁会沦为愤怒的奴隶呢?
4.33.53
जानामि कोपं हरिवीरबन्धो-
र्जानामि कार्यस्य च कालसङ्गम्।
जानामि कार्यं त्वयि यत्कृतं न-
स्तच्चापि जानामि यदत्र कार्यम् ॥ ४.३३.५३ ॥
我知道猴族英雄之亲属须羯哩婆的愤怒,也知道此事及其适当的时机。我知道我们对你所尽的职责,也知道此地应当做的事。
4.33.54
तच्चापि जानामि तथाविषह्यं
बलं नरश्रेष्ठ शरीरजस्य।
जानामि यस्मिंश्च जनेऽवबद्धं
कामेन सुग्रीवमसक्तमद्य ॥ ४.३३.५४ ॥
人中之雄啊,我也知道那由身体所生的欲望之不可忍受的力量。我知道今日为欲所缚者是谁,也知道今日未被牵绊的须羯哩婆是谁。
4.33.55
न कामतन्त्रे तव बुद्धिरस्ति
त्वं वै यथा मन्युवशं प्रपन्नः।
न देशकालौ हि यथार्थधर्मा-
ववेक्षते कामरतिर्मनुष्यः ॥ ४.३३.५५ ॥
你的心智并不受欲望支配,而是陷入了愤怒的掌控。沉溺于欲望的人,不会顾及真正法义所应有的地点与时机。
4.33.56
तं कामवृत्तं मम संनिकृष्टं
कामाभियोगाच्च विमुक्तलज्जम्।
क्षमस्व तावत् परवीरहन्त-
स्त्वद्भ्रातरं वानरवंशनाथम् ॥ ४.३३.५६ ॥
灭敌之英雄啊,请暂且宽恕那位因欲望而行事、与我亲近、为欲望所侵而弃却羞耻的人——你的兄弟须羯哩婆,猴族之主。
4.33.57
महर्षयो धर्मतपोऽभिरामाः
कामानुकामाः प्रतिबद्धमोहाः।
अयं प्रकृत्या चपलः कपिस्तु
कथं न सज्जेत सुखेषु राजा ॥ ४.३३.५७ ॥
以法与苦行为乐的大仙,也因追随一个又一个欲望而被迷惑所缚。这只猴子天性轻浮,国王又怎会不执着于享乐呢?
4.33.58
इत्येवमुक्त्वा वचनं महार्थं
सा वानरी लक्ष्मणमप्रमेयम्।
पुनः सखेदं मदविह्वलाक्षी
भर्तुर्हितं वाक्यमिदं बभाषे ॥ ४.३३.५८ ॥
这位猴妇说完这些意义重大的话后,双眼因醉意而迷离,怀着哀伤再次对无量的罗什曼那说出了这些有利于丈夫的话。
4.33.59
उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम।
कामस्यापि विधेयेन तवार्थप्रतिसाधने ॥ ४.३३.५९ ॥
最优秀的人啊,为完成你的事业而作的努力,早已由须羯哩婆下令,也由那受欲望驱使的他去执行。
4.33.60
आगता हि महावीर्या हरयः कामरूपिणः।
कोटीः शतसहस्राणि नानानगनिवासिनः ॥ ४.३३.६० ॥
勇猛非凡、能随意变化形体、住在各座山中的猴群,确已来到,数以千万计和数十万计。
4.33.61
तदागच्छ महाबाहो चारित्रं रक्षितं त्वया।
अच्छलं मित्रभावेन सतां दारावलोकनम् ॥ ४.३३.६१ ॥
因此,大臂者啊,请来吧。你的品行是你亲自守护的。以友谊之心、不带欺骗地,善人看望妻子是合宜的。
4.33.62
तारया चाभ्यनुज्ञातस्त्वरया वापि चोदितः।
प्रविवेश महाबाहुरभ्यन्तरमरिंदमः ॥ ४.३३.६२ ॥
在塔拉的许可下,又被催促得急切,大臂的降敌者走入了内室。
4.33.63
ततः सुग्रीवमासीनं काञ्चने परमासने।
महार्हास्तरणोपेते ददर्शादित्यसंनिभम् ॥ ४.३३.६३ ॥
随后他看见须羯哩婆坐在金色的至尊宝座上,那宝座铺着极其贵重的垫子,光辉如太阳。
4.33.64
दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम्।
दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम् ॥ ४.३३.६४ ॥
身披奇妙的天界饰物,形貌神圣而名声显赫,佩戴天界花环与衣袍,如因陀罗一般不可战胜。
4.33.65
दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम्।
संरब्धतररक्ताक्षो बभूवान्तकसंनिभः ॥ ४.३३.६५ ॥
被身披天界饰物与花环的女子环绕,因愤怒而双目通红,他竟如死神一般。
4.33.66
रुमां तु वीरः परिरभ्य गाढं
वरासनस्थो वरहेमवर्णः।
ददर्श सौमित्रिमदीनसत्त्वं
विशालनेत्रः स विशालनेत्रम् ॥ ४.३३.६६ ॥
英雄紧紧拥抱罗摩,端坐于尊贵的宝座之上,金色容光焕发,他看见了心志坚定、双目宽大的苏弥多罗之子。