蚁垤《罗摩衍那》 · 篇 4.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.35.1
तथा ब्रूवाणं सौमित्रिं प्रदीप्तमिव तेजसा।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥ ४.३५.१ ॥
当萨乌米特里如光焰燃烧般如此说话时,面如星主(月)的达罗对罗什曼那说道。
4.35.2
नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति।
हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः ॥ ४.३५.२ ॥
罗什曼那,不应这样说。猴王不配听见严厉的话,更何况是出自你口中。
4.35.3
नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः।
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥ ४.३५.३ ॥
英雄啊,须羯哩婆既不忘恩,也不狡诈,亦不残忍;这位猴王不说谎,也不奸邪。
4.35.4
उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ ४.३५.४ ॥
英雄啊,这只猴子没有忘记罗摩所施的恩惠。英雄啊,须羯哩婆借罗摩之力获得了在战场上他人难以做到的事。
4.35.5
रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम्।
प्राप्तवानिह सुग्रीवो रुमां मां च परंतप ॥ ४.३५.५ ॥
借罗摩的恩典,须羯哩婆在此获得了荣誉、猴族永恒的王国,以及罗摩和我,哦,焚敌者。
4.35.6
सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम्।
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ ४.३५.६ ॥
须羯哩婆以前长期陷于极大的痛苦,如今得到这至高的快乐,却不知晓适当的时机,正如仙人毗首弥多罗所不知。
4.35.7
घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ ४.३५.७ ॥
罗什曼那啊,正直的大仙人毗舍弥多罗与天女尼陀奇相恋了十年,他却以为只是很短的时间。
4.35.8
स हि प्राप्तं न जानीते कालं कालविदां वरः।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ ४.३५.८ ॥
即便是知晓时间者中最优秀、大光辉的毗舍弥多罗,也不知道已经到来的时间;何况是普通人呢?
4.35.9
देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण।
अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति ॥ ४.३५.९ ॥
罗什曼那啊,对于此人——沉溺于身体的欲乐、疲惫而在欲望中不知满足——罗摩在此应当宽恕。
4.35.10
न च रोषवशं तात गन्तुमर्हसि लक्ष्मण।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ ४.३५.१० ॥
亲爱的罗什曼那,你不应被愤怒所左右;不明真相便仓促行事,如同凡人一般,这是不应该的。
4.35.11
सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ ४.३५.११ ॥
人中雄牛啊,像你这样具有善德的人,不经思考便不会突然被愤怒所左右。
4.35.12
प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता।
महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ॥ ४.३५.१२ ॥
精通法义者啊,我怀着专一的心为了须羯哩婆而恳请你:请舍弃这由愤怒所生的巨大怒火。
4.35.13
रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च।
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ ४.३५.१३ ॥
鲁摩、我、安伽达、王国,以及财富、谷物和牲畜——我认为,为了取悦罗摩,须契哩婆应舍弃这一切。
4.35.14
समानेष्यति सुग्रीवः सीतया सह राघवम्।
शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम् ॥ ४.३५.१४ ॥
杀死那最卑劣的罗刹之后,须契哩婆将使罗ghava与悉多重聚,如月亮与罗希尼相会。
4.35.15
शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्।
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ ४.३५.१५ ॥
楞伽城中确实有一亿及数千的罗刹,数万,三万六千,以及数百。
4.35.16
अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः।
न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ ४.३५.१६ ॥
若不杀死那些难以抵挡、随意变化形体的罗刹,便无法杀死劫走了摩pathili的罗波那。
4.35.17
ते न शक्या रणे हन्तुमसहायेन लक्ष्मण।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ ४.३५.१७ ॥
啊,罗什曼那!无援之人在战场上无法杀死他们;行事残忍的罗波那也无法被杀,尤其是没有须契哩婆的时候。
4.35.18
एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः।
आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम् ॥ ४.३५.१८ ॥
这是波利所说,他是有见识的猴王;但其来源我并不清楚,我只是转述从他那里听到的。
4.35.19
त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः।
आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान् ॥ ४.३५.१९ ॥
实际上,最优秀的猴子已被派来协助你,去召集许多优秀的猴子参加战斗。
4.35.20
तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्।
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥ ४.३५.२० ॥
这位猴王仍在等待那些勇猛而极其强大的猴子,尚未出发去完成罗ghava的使命。
4.35.21
कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा।
अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ॥ ४.३५.२१ ॥
啊,苏弥陀罗之子,正如须羯里婆先前所作的坚定安排,今日那些强大的猴子都必须到达此地。
4.35.22
ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च।
अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम।
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ ४.३५.२२ ॥
数以千万计的熊和数百只猴群将于今日前来投奔你。啊,征服敌人者,请息怒。啊,迦古特斯塔,光芒灿烂的猴子亿万之众也将到来。
4.35.23
तव हि मुखमिदं निरीक्ष्य कोपात्
क्षतजसमे नयने निरीक्षमाणाः।
हरिवरवनिता न यान्ति शान्तिं
प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥ ४.३५.२३ ॥
看到你满脸怒容、双目因愤怒红如鲜血,那些最优秀猴子的妻子无法安心;我们所有人本已因最初的恐惧而惶恐不安。