ヴァールミーキのラーマーヤナ · サルガ 4.37
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.37.1
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना।
हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत् ॥ ४.३७.१ ॥
高潔なラクシュマナにこう言われたスグリーヴァは、傍らに立つハヌマーンにこの言葉を告げた。
4.37.2
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च।
मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ ४.३७.२ ॥
マヘーンドラ、ヒマヴァット、ヴィンディヤ、カイラーサの峰々、マンダラ、パーンドゥ峰、そして五つの山に住む者たち——
4.37.3
तरुणादित्यवर्णेषु भ्राजमानेषु नित्यशः।
पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि ॥ ४.३७.३ ॥
若き太陽の色に常に輝く山々に、海の果てに、西の方角にいる者たち——
4.37.4
आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे।
पद्माचलवनं भीमाः संश्रिता हरिपुंगवाः ॥ ४.३७.४ ॥
太陽の館、夕暮れの雲に似た山、そしてパドマーチャラの森に身を寄せる恐ろしい猿の中の雄たち——
4.37.5
अञ्जनाम्बुदसंकाशाः कुञ्जरेन्द्रमहौजसः।
अञ्जने पर्वते चैव ये वसन्ति प्लवंगमाः ॥ ४.३७.५ ॥
黒い墨と雨雲の色をし、象王のように大いなる力を持つ者たち、そしてアンジャナ山に住む跳ね回る猿たち——
4.37.6
महाशैलगुहावासा वानराः कनकप्रभाः।
मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः ॥ ४.३७.६ ॥
大山の洞窟に住む金色の猿たち、メール山の傍らにいる者たち、そしてダーマギリに身を寄せた者たち——
4.37.7
तरुणादित्यवर्णाश्च पर्वते ये महारुणे।
पिबन्तो मधु मैरेयं भीमवेगाः प्लवंगमाः ॥ ४.३७.७ ॥
若き太陽の色をし、恐ろしい速さの跳躍する猿たちは、大赤山の上で蜂蜜とマイレーヤ酒を飲んでいる。
4.37.8
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च।
तापसाश्रमरम्येषु वनान्तेषु समन्ततः ॥ ४.३७.८ ॥
美しく芳しい大きな森、そして苦行者の庵によって麗しい森の端々に、あらゆる方向に。
4.37.9
तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान्।
सामदानादिभिः कल्पैर्वानरैर्वेगवत्तरैः ॥ ४.३७.९ ॥
地上にいるあの猿たちを、すぐに全員連れて来い。和睦や贈り物などの手段で、より速い猿たちを使って。
4.37.10
प्रेषिताः प्रथमं ये च मयाऽऽज्ञाता महाजवाः।
त्वरणार्थं तु भूयस्त्वं सम्प्रेषय हरीश्वरान् ॥ ४.३७.१० ॥
先に派遣され、私が命じた大いに速い猿たち。だが急がせるため、あの猿の王たちをもう一度送れ。
4.37.11
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः।
इहानयस्व तान् शीघ्रं सर्वानेव कपीश्वरान् ॥ ४.३७.११ ॥
快楽にふけり、ぐずぐずしている猿の王たちを、すべてすぐにここへ連れて来い。
4.37.12
अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया।
हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ ४.३७.१२ ॥
十日のうちに私の命令どおり来ない者、その邪悪な王命違反者たちは、殺されるべきである。
4.37.13
शतान्यथ सहस्राणि कोट्यश्च मम शासनात्।
प्रयान्तु कपिसिंहानां निदेशे मम ये स्थिताः ॥ ४.३७.१३ ॥
我が命により、我が指示のもとに控える猿の獅子たちが、百、千、そして千万の数で出発せよ。
4.37.14
मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम्।
घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ ४.३७.१४ ॥
雲の山のように、空を覆うかのように、恐ろしい姿の猿の最勝者たちは、我が命により、ここから出発せよ。
4.37.15
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः।
आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ॥ ४.३७.१५ ॥
道を知る彼ら猿たちは、大地を巡ったのち、我が命により速やかにすべての猿を連れてこい。
4.37.16
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः।
दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥ ४.३७.१६ ॥
猿王のその言葉を聞いて、風神の子は勇猛な猿たちをあらゆる方角へ送り出した。
4.37.17
ते पदं विष्णुविक्रान्तं पतत्त्रिज्योतिरध्वगाः।
प्रयाताः प्रहिता राज्ञा हरयस्तु क्षणेन वै ॥ ४.३७.१७ ॥
王に遣わされた猿たちは、ヴィシュヌの歩幅のような、鳥と星々の道を進み、瞬く間に出発した。
4.37.18
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च।
वानरा वानरान् सर्वान् रामहेतोरचोदयन् ॥ ४.३७.१८ ॥
海、山、森、湖のあらゆるところで、彼らはラーマのためにすべての猿を駆り立てた。
4.37.19
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः।
सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयशङ्किताः ॥ ४.३७.१९ ॥
死の時のようなる王の中の王スグリーヴァの命令を聞き、スグリーヴァの怒りを恐れた猿たちが来た。
4.37.20
ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाबलाः।
तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः ॥ ४.३७.२० ॥
そこでアンジャナのように黒い、あの大力の猿たち、三コーティの跳躍者が、そのラーガヴァのいる所へと山から出発した。
4.37.21
अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः।
संतप्तहेमवर्णाभास्तस्मात् कोट्यो दश च्युताः ॥ ४.३७.२१ ॥
太陽が沈むその最上の山で楽しんでいた、熱した黄金の色の十コーティの猿たちが、そこから出発した。
4.37.22
कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम्।
ततः कोटिसहस्राणि वानराणां समागमन् ॥ ४.३७.२२ ॥
カイラーサの峰々から、獅子のたてがみのような輝きの猿たちが。そして数千コーティの猿たちが集まった。
4.37.23
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः।
तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ ४.३७.२३ ॥
果実と根を食べて生き、ヒマラヤに身を寄せていたその数千コーティの猿たちのうち、さらに千匹が集まった。
4.37.24
अङ्गारकसमानानां भीमानां भीमकर्मणाम्।
विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम् ॥ ४.३७.२४ ॥
炭火のように赤く、恐ろしい行いをする、恐るべき猿たちの数千コーティが、ヴィンディヤ山から急いで降りてきた。
4.37.25
क्षीरोदवेलानिलयास्तमालवनवासिनः।
नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ॥ ४.३७.२५ ॥
乳海の岸辺に住み、タマーラの林に暮らし、ココナッツを食べる者たち——その数は知られていない。
4.37.26
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाबलाः।
आगच्छद् वानरी सेना पिबन्तीव दिवाकरम् ॥ ४.३७.२६ ॥
森から、洞窟から、川から、大力の猿の軍勢が進んでくる。まるで太陽を飲み干そうとするかのように。
4.37.27
ये तु त्वरयितुं याता वानराः सर्ववानरान्।
ते वीरा हिमवच्छैले ददृशुस्तं महाद्रुमम् ॥ ४.३७.२७ ॥
ほかの猿たちを急がせに行ったあの勇士の猿たちは、ヒマーラヤの山で、その大樹を見た。
4.37.28
तस्मिन् गिरिवरे पुण्ये यज्ञो माहेश्वरः पुरा।
सर्वदेवमनस्तोषो बभूव सुमनोरमः ॥ ४.३७.२८ ॥
その聖なる優れた山で、昔、マーヘーシュヴァラの祭祀が行われた。それは諸神の心を喜ばせ、非常に心地よいものであった。
4.37.29
अन्ननिस्यन्दजातानि मूलानि च फलानि च।
अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः ॥ ४.३७.२९ ॥
そこで猿たちは、食物の流れから生じた、甘露のように美味な根と果実を見た。
4.37.30
तदन्नसम्भवं दिव्यं फलमूलं मनोहरम्।
यः कश्चित् सकृदश्नाति मासं भवति तर्पितः ॥ ४.३७.३० ॥
その食物から生じた神々しく麗しい果実と根を、一度でも食べた者は、一か月の間満ち足りている。
4.37.31
तानि मूलानि दिव्यानि फलानि च फलाशनाः।
औषधानि च दिव्यानि जगृहुर्हरिपुंगवाः ॥ ४.३७.३१ ॥
果実を食べる猴の勇者たちは、その神々しい根と果実、そして神の薬草を取った。
4.37.32
तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च।
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ ४.३७.३२ ॥
その祭祀の場から猴たちは出かけ、スグリーヴァを喜ばせるために芳しい花々を持ち帰った。
4.37.33
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्।
संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः ॥ ४.३७.३३ ॥
そのすぐれた猴たちはみな、地上のすべての猴を急がせ、群れの先頭に立って進んだ。
4.37.34
ते तु तेन मुहूर्तेन कपयः शीघ्रचारिणः।
किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ ४.३७.३४ ॥
その俊足の猴たちは、その瞬間に急ぎキシュキンダーに着いた。そこには猴王スグリーヴァがいた。
4.37.35
ते गृहीत्वौषधीः सर्वाः फलमूलं च वानराः।
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ ४.३७.३५ ॥
猴たちはすべての薬草と果実と根を取り、彼にそれを受け取らせて、次の言葉を告げた。
4.37.36
सर्वे परिसृताः शैलाः सरितश्च वनानि च।
पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ ४.३७.३६ ॥
山々も川も森もすべて探された。地上のすべての猴が、あなたの命令によって戻ってきている。
4.37.37
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः।
प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् ॥ ४.३७.३७ ॥
これを聞いて喜んだ猿王スグリーヴァは、彼らの贈り物をすべて喜んで受け取った。