蚁垤《罗摩衍那》 · 篇 4.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.39.1
बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ ४.३९.१ ॥
Rāma双臂紧紧拥抱他,回答了合掌而立的Sugrīva。
4.39.2
यदिन्द्रो वर्षते वर्षं न तच्चित्रं भविष्यति।
आदित्योऽसौ सहस्रांशुः कुर्याद् वितिमिरं नभः ॥ ४.३९.२ ॥
若因陀罗降雨,并非奇事;那千光之日也使天空驱散黑暗。
4.39.3
चन्द्रमा रजनीं कुर्यात् प्रभया सौम्य निर्मलाम्।
त्वद्विधो वापि मित्राणां प्रीतिं कुर्यात् परंतप ॥ ४.३९.३ ॥
月亮以光辉使夜晚清净,善良的人啊;焚毁敌人者啊,像你这样的人也能使朋友欢喜。
4.39.4
एवं त्वयि न तच्चित्रं भवेद् यत् सौम्य शोभनम्।
जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥ ४.३९.४ ॥
你身上有如此美好的品行并不奇怪,善良的人啊;我知道你,须羯哩婆,总是说好听的话。
4.39.5
त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन्।
त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ॥ ४.३९.५ ॥
有你相助,朋友,我将在战场上战胜所有敌人。你才是我的益友和挚友,你应当助我一臂之力。
4.39.6
जहारात्मविनाशाय मैथिलीं राक्षसाधमः।
वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ॥ ४.३९.६ ॥
罗刹中最卑劣的人为自己的毁灭而劫走了摩提利(悉多),正如阿奴呼罗德欺骗保罗米而劫走舍质一样。
4.39.7
नचिरात् तं वधिष्यामि रावणं निशितैः शरैः।
पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा ॥ ४.३९.७ ॥
不久我将以利箭射杀罗波那,正如消灭敌人的百祭主(因陀罗)杀死了宝罗摩的骄傲之父。
4.39.8
एतस्मिन्नन्तरे चैव रजः समभिवर्तत।
उष्णतीव्रां सहस्रांशोश्छादयद् गगने प्रभाम् ॥ ४.३९.८ ॥
此时尘土升起,遮蔽了天空中千光之日炽热猛烈的光辉。
4.39.9
दिशः पर्याकुलाश्चासंस्तमसा तेन दूषिताः।
चचाल च मही सर्वा सशैलवनकानना ॥ ४.३९.९ ॥
四方因那黑暗而混乱昏暗,整个大地连同山峦、树林与林莽都震动了。
4.39.10
ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः।
कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः ॥ ४.३९.१० ॥
于是整个大地被数不清的猴子所覆盖,它们如山岳一般,獠牙锐利,力量强大。
4.39.11
निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः।
कोटीशतपरीवारैर्वानरैर्हरियूथपैः ॥ ४.३९.११ ॥
转瞬之间,那些猴群首领、率领亿万随从的猴子,以及猴群首领们(充满了大地)。
4.39.12
नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः।
हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनवासिभिः ॥ ४.३९.१२ ॥
来自河流、山岳与海滨的大力猴群,如雷云般咆哮的猴子,以及其他居于林中的猴子(充满了大地)。
4.39.13
तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः।
पद्मकेसरवर्णैश्च श्वेतैर्हेमकृतालयैः ॥ ४.३९.१३ ॥
与那些颜色如初升太阳、白如月亮、颜色如莲花花蕊、白色且居于金制居所的猴众同行。
4.39.14
कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा।
वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत ॥ ४.३९.१४ ॥
被千万亿只猴众所围绕的威严英雄,名叫舍塔巴利的猴王,此时出现了。
4.39.15
ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता।
अनेकैर्बहुसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ ४.३९.१५ ॥
随后,如金山般光辉的、具有威力的塔拉之父出现了,身边有许多千万亿只猴众。
4.39.16
तथापरेण कोटीनां सहस्रेण समन्वितः।
पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः ॥ ४.३९.१६ ॥
同样,从另一侧来到了鲁玛之父、须羯哩婆的岳父,这位强大者,与千万亿只猴众同来。
4.39.17
पद्मकेसरसंकाशस्तरुणार्कनिभाननः।
बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ॥ ४.३९.१७ ॥
光辉如莲花花蕊,面容如初升的太阳,有智慧,是猴众中的最优者,是所有猴众中最尊贵的。
4.39.18
अनेकैर्बहुसाहस्त्रैर्वानराणां समन्वितः।
पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥ ४.३९.१८ ॥
与许多千名猴众同来,哈努曼威严的父亲羯萨利出现了。
4.39.19
गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः।
वृतः कोटिसहस्रेण वानराणामदृश्यत ॥ ४.३९.१९ ॥
大王戈瓦克沙属猴尾族,勇猛可怖,被千亿(十亿)猴众环绕而现身。
4.39.20
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः।
वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ ४.३९.२० ॥
熊族中速度可怖的歼敌者达摩罗,被两千亿猴众环绕而来。
4.39.21
महाचलनिभैर्घोरैः पनसो नाम यूथपः।
आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ ४.३९.२१ ॥
首领波那萨,形如巨山、令人畏惧,大勇猛,被三亿猴众环绕而来。
4.39.22
नीलाञ्जनचयाकारो नीलो नामैष यूथपः।
अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥ ४.३९.२२ ॥
首领尼罗,形如一堆蓝色眼膏,身躯巨大,被十亿猴众环绕而现身。
4.39.23
ततः काञ्चनशैलाभो गवयो नाम यूथपः।
आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः ॥ ४.३९.२३ ॥
接着,群首戈瓦耶如金山般光辉,大勇猛,被五亿猴众环绕而来。
4.39.24
दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा।
वृतः कोटिसहस्रेण सुग्रीवं समवस्थितः ॥ ४.३९.२४ ॥
力大的群首达瑞穆卡此时被千亿猴众环绕而来,立于须羯里婆身旁。
4.39.25
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ।
कोटिकोटिसहस्रेण वानराणामदृश्यताम् ॥ ४.३९.२५ ॥
阿湿婆双神的两位大力之子曼陀与双毗陀出现了,随行的猴众以千万亿计。
4.39.26
गजश्च बलवान् वीरस्तिसृभिः कोटिभिर्वृतः।
आजगाम महातेजाः सुग्रीवस्य समीपतः ॥ ४.३९.२६ ॥
勇猛的英雄伽阇,光辉赫赫,被三千万猴众环绕,来到了须羯里婆身边。
4.39.27
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः।
कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः ॥ ४.३९.२७ ॥
熊王耆婆槃,光辉赫赫,率领千万之众,立于须羯里婆的麾下。
4.39.28
रुमणो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः।
आगतो बलवांस्तूर्णं कोटीशतसमावृतः ॥ ४.३९.२८ ॥
名为鲁摩那的光辉勇士,被勇猛的猴众环绕,以百亿之众迅速赶来。
4.39.29
ततः कोटिसहस्राणां सहस्रेण शतेन च।
पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ ४.३९.२९ ॥
接着,乾陀摩陀那率众到来,其后跟随着千亿之众、一千与一百的猴子。
4.39.30
ततः पद्मसहस्रेण वृतः शङ्कुशतेन च।
युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः ॥ ४.३९.३० ॥
接着,太子安伽陀到来,身边环绕着千个“莲”与百个“贝”之众,勇武与其父相当。
4.39.31
ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः।
पञ्चभिर्हरिकोटीभिर्दूरतः पर्यदृश्यत ॥ ४.३९.३१ ॥
随后,光彩如多罗的多罗,率领五千万可怕勇猛的猴子,从远处出现。
4.39.32
इन्द्रजानुः कविर्वीरो यूथपः प्रत्यदृश्यत।
एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ॥ ४.३९.३२ ॥
英雄因陀罗遮努,即领队猴王迦vi,出现了,他是一千一百万猴子的主宰,被它们环绕。
4.39.33
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः।
अयुतेन वृतश्चैव सहस्रेण शतेन च ॥ ४.३९.३३ ॥
随后罗婆如初升的太阳到来,被一万、一千和一百只猴子环绕。
4.39.34
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः।
प्रत्यदृश्यत कोटीभ्यां द्वाभ्यां परिवृतो बली ॥ ४.३९.३४ ॥
随后,英雄杜尔穆卡,猴群领袖,力大无比,被两千万猴子环绕,出现了。
4.39.35
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः।
वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत ॥ ४.३९.३५ ॥
哈奴曼出现了,被一千万千只猴子环绕;这些猴子身形如凯拉萨山峰,勇猛可怕。
4.39.36
नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः।
कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च ॥ ४.३९.३६ ॥
大力的那罗也到来了,被居住在树上的猴子环绕:一亿、一千和一百只。
4.39.37
ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः।
सम्प्राप्तोऽभिनदंस्तस्य सुग्रीवस्य महात्मनः ॥ ४.३९.३७ ॥
此时光辉的达陀目可,被千万计的十群猴众簇拥着而来,在大德须羯梨婆面前吼叫着抵达。
4.39.38
शरभः कुमुदो वह्निर्वानरो रंह एव च।
एते चान्ये च बहवो वानराः कामरूपिणः ॥ ४.३९.३८ ॥
舍罗婆、拘牟陀、伐呼尼、猴王罗摩诃,以及这些和其他许多能随意变化形体的猴众。
4.39.39
आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च।
यूथपाः समनुप्राप्ता येषां संख्या न विद्यते ॥ ४.३९.३९ ॥
遍布整个大地、山峦与森林,统领众队陆续抵达,其数目无法计算。
4.39.40
आगताश्च निविष्टाश्च पृथिव्यां सर्ववानराः।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः।
अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥ ४.३९.४० ॥
所有猴众都来了,在大地上扎营;跳跃、腾跃、吼叫着,那些善跳的猿猴朝须羯梨婆涌来,如同云团飘向太阳。
4.39.41
कुर्वाणा बहुशब्दांश्च प्रकृष्टा बाहुशालिनः।
शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥ ४.३९.४१ ॥
众多猴众发出阵阵喧声,那些英勇有力的猿猴低头向猴王须羯梨婆禀报他们的到来。
4.39.42
अपरे वानरश्रेष्ठाः संगम्य च यथोचितम्।
सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥ ४.३९.४२ ॥
其他的猴中英杰依礼走近,与须羯梨婆相见,随即合掌恭立。
4.39.43
सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान्।
निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥ ४.३९.४३ ॥
知法的须羯哩婆急忙将那些猴子首领一一介绍给罗摩,然后合掌站立,开口说道。
4.39.44
यथासुखं पर्वतनिर्झरेषु
वनेषु सर्वेषु च वानरेन्द्राः।
निवेशयित्वा विधिवद् बलानि
बलं बलज्ञः प्रतिपत्तुमीष्टे ॥ ४.३९.४४ ॥
将猴王们安适地安置在山间溪泉与各处林中,并依法布置好军队之后,知晓力量的人便能够掌握这股力量。