蚁垤《罗摩衍那》 · 篇 4.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.43.1
ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्।
वीरं शतबलिं नाम वानरं वानरेश्वरः ॥ ४.४३.१ ॥
于是猴王须羯利维发出指令,派遣他的岳父、勇猛的猴子百力向西方前往。
4.43.2
उवाच राजा सर्वज्ञः सर्ववानरसत्तमः।
वाक्यमात्महितं चैव रामस्य च हितं तदा ॥ ४.४३.२ ॥
这位无所不知、猴子中最优秀的国王,当时说出了对自己和罗摩都有益的话。
4.43.3
वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्।
वैवस्वतसुतैः सार्धं प्रविष्टः सर्वमन्त्रिभिः ॥ ४.४३.३ ॥
他被十万像你一样的林中猴子簇拥着,与伟大的毗婆娑之子们及所有大臣一同进入。
4.43.4
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसिकाम्।
सर्वतः परिमार्गध्वं रामपत्नीं यशस्विनीम् ॥ ४.४३.४ ॥
在那雄壮的北方、以喜马拉雅雪峰为冠的地方,到处搜寻罗摩那光荣的妻子。
4.43.5
अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ ४.४३.५ ॥
此事若能完成,使十车王之子所爱之事得成,我们便将脱离债务;你们是通晓义理者中最优秀的。
4.43.6
कृतं हि प्रियमस्माकं राघवेण महात्मना।
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ ४.४३.६ ॥
伟大的罗怙后裔为我们做了好事。若能报答他,我们的生命便有了意义。
4.43.7
अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत्।
तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥ ४.४३.७ ॥
若有人为求助者成就其事,即使对方未曾自行作为,此人之生便成就了;更何况是先前已经出力之人呢!
4.43.8
एतां बुद्धिं समास्थाय दृश्यते जानकी यथा।
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ४.४३.८ ॥
以此决心行事,使悦姑得以寻获,你们这些愿我们喜乐与福祉的人,应当如此去做。
4.43.9
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः।
अस्मासु च गतः प्रीतिं रामः परपुरंजयः ॥ ४.४३.९ ॥
这位人中之杰,罗摩,攻克敌城者,为一切众生所尊敬,并且对我们怀有深厚的情谊。
4.43.10
इमानि बहुदुर्गाणि नद्यः शैलान्तराणि च।
भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ ४.४३.१० ॥
请你们凭借智慧与勇武的财富,仔细搜寻这些险要之地、江河与山谷。
4.43.11
तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च।
प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ ४.४३.११ ॥
在那里,于蛮夷、普林达人、舒罗森人、普拉斯塔拉人、婆罗多人、俱卢人之间,并与摩陀迦人一同搜寻。
4.43.12
काम्बोजयवनांश्चैव शकानां पत्तनानि च।
अन्वीक्ष्य दरदांश्चैव हिमवन्तं विचिन्वथ ॥ ४.४३.१२ ॥
察看了劫波人、耶婆那人、塞人的城邑,也察看了达罗陀人,然后仔细搜寻喜马拉雅。
4.43.13
लोध्रपद्मकषण्डेषु देवदारुवनेषु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४.४३.१३ ॥
在罗陀树与莲花丛中,以及雪松林里,应到处寻找与韦提希在一起的罗婆那。
4.43.14
ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्।
कालं नाम महासानुं पर्वतं तं गमिष्यथ ॥ ४.४३.१४ ॥
然后,你们到达为诸天与乾达婆所常至的月神精舍,再前往名为迦罗的那座大峰之山。
4.43.15
महत्सु तस्य शैलेषु पर्वतेषु गुहासु च।
विचिन्वत महाभागां रामपत्नीमनिन्दिताम् ॥ ४.४३.१५ ॥
在它的巨石、群山与洞穴之中,寻找那位大福的、无可指摘的罗摩之妻。
4.43.16
तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम्।
ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ ॥ ४.४३.१६ ॥
越过那座山中之王、内藏金光的大山之后,你们应当前往名叫苏达尔沙那的山。
4.43.17
ततो देवसखो नाम पर्वतः पतगालयः।
नानापक्षिसमाकीर्णो विविधद्रुमभूषितः ॥ ४.४३.१७ ॥
然后是名叫提婆萨卡的山,那是鸟类的栖居之地,满是各种各样的飞鸟,装饰着种种树木。
4.43.18
तस्य काननषण्डेषु निर्झरेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४.४३.१८ ॥
在它的林丛、瀑布与洞穴之中,应到处寻找与韦提希在一起的罗婆那。
4.43.19
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्।
अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ ४.४३.१९ ॥
穿越那片四面延伸百由旬的天空,那里没有山岳、河流和树木,也没有一切生灵。
4.43.20
तत्तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्।
कैलासं पाण्डुरं प्राप्य हृष्टा यूयं भविष्यथ ॥ ४.४३.२० ॥
迅速穿越那令人毛骨悚然的荒野,抵达洁白的凯拉萨山,你们将会欢喜。
4.43.21
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्।
कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा ॥ ४.४३.२१ ॥
那里有俱毗罗(Kubera)美丽的居所,如白云般,以黄金装饰,由毗首羯磨所造。
4.43.22
विशाला नलिनी यत्र प्रभूतकमलोत्पला।
हंसकारण्डवाकीर्णा अप्सरोगणसेविता ॥ ४.४३.२२ ॥
那里有一片广阔的莲池,盛开着无数莲花与青莲,布满天鹅与野鸭,有群群阿普萨拉侍奉。
4.43.23
तत्र वैश्रवणो राजा सर्वलोकनमस्कृतः।
धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ ४.४३.२३ ॥
那里,受一切世界敬礼、施予财富的光辉之王毗沙门(Vaiśravaṇa),药叉之主,与隐藏者(guhyaka)们同乐。
4.43.24
तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४.४३.२४ ॥
在他那如月光般明亮的山峦和洞穴中,应当四处寻找与毗提诃(Vaidehī)同在的罗婆那。
4.43.25
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम् ॥ ४.४३.२५ ॥
到达克劳泽山后,应当小心谨慎地进入那极难通行的洞穴,因为据说那里难以进入。
4.43.26
वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः।
देवैरभ्यर्थिताः सम्यग् देवरूपा महर्षयः ॥ ४.४३.२६ ॥
那里住着光辉如太阳的大仙大圣,即大仙人(摩诃利史),他们受到诸神恰当的恳请,形貌如神。
4.43.27
क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च।
निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ ४.४३.२७ ॥
克劳泽山的其他洞穴、山峰、山坡、峡谷与山腰,都应四处搜寻。
4.43.28
अवृक्षं कामशैलं च मानसं विहगालयम्।
न गतिस्तत्र भूतानां देवानां न च रक्षसाम् ॥ ४.४३.२८ ॥
无树的欲山(迦摩舍罗)与飞鸟之居的摩那娑湖,那里对众生、诸神及罗刹都无路可通。
4.43.29
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः।
क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ॥ ४.४३.२९ ॥
这座山连同其山坡与高原,应由所有人搜寻;越过克劳泽山,便是名为摩那迦(Mainaka)的山。
4.43.30
मयस्य भवनं तत्र दानवस्य स्वयंकृतम्।
मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ॥ ४.४३.३० ॥
那里有檀那婆(Dānava)摩耶(Maya)亲手建造的宫殿;摩那迦山应连同其山坡、高原与洞穴一并搜寻。
4.43.31
स्त्रीणामश्वमुखीनां तु निकेतस्तत्र तत्र तु।
तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ॥ ४.४३.३१ ॥
这里那里有马面女子的居所。越过那片地域,抵达悉陀所常往的修行林。
4.43.32
सिद्धा वैखानसा यत्र वालखिल्याश्च तापसाः।
वन्दितव्यास्ततः सिद्धास्तपसा वीतकल्मषाः ॥ ४.४३.३२ ॥
悉陀、吠伽那萨、伐罗基利耶以及苦行者所在之处,应当礼敬悉陀;他们因苦行而离垢。
4.43.33
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः।
हेमपुष्करसंछन्नं तत्र वैखानसं सरः ॥ ४.४३.३३ ॥
应当谦恭地在那里打听悉多的消息。那里有被金莲覆盖的吠伽那萨湖。
4.43.34
तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः।
औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ॥ ४.४३.३४ ॥
那湖为光彩如初升太阳的美丽天鹅所游荡。俱毗罗的坐骑大象以“萨尔瓦波摩”之名被传述。
4.43.35
गजः पर्येति तं देशं सदा सह करेणुभिः।
तत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरम्।
अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ ४.४३.३५ ॥
那象常与母象在那地方游荡。越过那湖,便是日月隐没、无星群、无云、无声的天空。
4.43.36
गभस्तिभिरिवार्कस्य स तु देशः प्रकाश्यते।
विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः ॥ ४.४३.३६ ॥
那地方仿佛被日光照耀,因为那些安歇的悉陀——以苦行成就、如天神一般、自身发光——。
4.43.37
तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा।
उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥ ४.४३.३७ ॥
越过那片地区,有一条名叫舍洛陀的河流。河两岸生长着名为“钵车迦”的竹子。
4.43.38
ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च।
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४.४३.३८ ॥
它们将悉陀们送往彼岸,也将他们接回。那里居住着北俱卢人,那是积有善业者的居所。
4.43.39
ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः।
नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः ॥ ४.४३.३९ ॥
接着,那里有成千上万条河流,河水来自长着金莲的莲池,河中满布蓝色琉璃的叶片。
4.43.40
रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः।
तरुणादित्यसंकाशा भान्ति तत्र जलाशयाः ॥ ४.४३.४० ॥
这里的水池装饰着红莲丛林与金色饰物,闪耀如初升的朝阳。
4.43.41
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः।
नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४.४३.४१ ॥
那片地区四面环绕着奇妙的青莲丛林,花瓣由珍宝制成,花蕊闪耀着金光。
4.43.42
निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः।
उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४.४३.४२ ॥
那里河流的沙洲被波浪翻起,满布无与伦比的珍珠、宝石与大量黄金。
4.43.43
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः।
जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४.४३.४३ ॥
此地布满了由各种宝石构成的、绚丽的殊胜山岳,还有闪耀如火光的金色山岳。
4.43.44
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः।
दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ॥ ४.४३.४४ ॥
那里的树木常开花结果,群鸟飞集;其香气、滋味与触感皆为天界之妙,且能满足一切所愿。
4.43.45
नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः।
मुक्तावैदूर्यचित्राणि भूषणानि तथैव च।
स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च ॥ ४.४३.४५ ॥
另有殊胜的树木结出各式各样的衣裳;珍珠与琉璃所饰的绚丽饰物也是如此,凡适于女子与男子的也都如此。
4.43.46
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः।
महार्हमणिचित्राणि फलन्त्यन्ये नगोत्तमाः ॥ ४.४३.४६ ॥
另有殊胜的树木结出四季皆可享用的佳果;另有殊胜的树木结出以贵重宝石装饰的奇妙之物。
4.43.47
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च।
मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ॥ ४.४३.४७ ॥
此处另有树木生出绚丽锦褥的床榻,以及令人心悦的花环。
4.43.48
पानानि च महार्हाणि भक्ष्याणि विविधानि च।
स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः ॥ ४.४३.४८ ॥
有珍贵的饮品和种种美食;还有品德兼备、容貌与青春俱佳的女子。
4.43.49
गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा।
रमन्ते सततं तत्र नारीभिर्भास्वरप्रभाः ॥ ४.४३.४९ ॥
乾闼婆、紧那罗、悉陀、龙和持明者在那里不断与光彩照人的女子嬉戏。
4.43.50
सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः।
सर्वे कामार्थसहिता वसन्ति सह योषितः ॥ ४.४३.५० ॥
他们都行过善业,都专注于享乐,并拥有欲望与财富,与女子们共同居住。
4.43.51
गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः।
श्रूयते सततं तत्र सर्वभूतमनोरमः ॥ ४.४३.५१ ॥
那里不断传来歌声、乐器之声与高声的笑声,令一切众生心悦。
4.43.52
तत्र नामुदितः कश्चिन्नात्र कश्चिदसत्प्रियः।
अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ ४.४३.५२ ॥
那里无人不悦,此处无人喜好恶事;那里令人愉悦的美德日日增长。
4.43.53
समतिक्रम्य तं देशमुत्तरः पयसां निधिः।
तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ॥ ४.४३.५३ ॥
越过那片地域,在大海之北,中央矗立着一座名为苏摩山的巨大金山。
4.43.54
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये।
देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ ४.४३.५४ ॥
那些前往因陀罗界与梵天界的天神,到达天界后,都仰望这座山中之王。
4.43.55
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते।
सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता ॥ ४.४३.५५ ॥
那片地方虽无太阳,却借其光芒而明亮,仿佛可由炽热的毗婆娑(太阳)之光辉辨识。
4.43.56
भगवांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः।
ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ ४.४३.५६ ॥
彼处居住着世界之我、具十一种形相的世尊湿婆;诸神之主梵天则被梵仙们环绕而居。
4.43.57
न कथंचन गन्तव्यं कुरूणामुत्तरेण वः।
अन्येषामपि भूतानां नानुक्रामति वै गतिः ॥ ४.४३.५७ ॥
你们无论如何都不可向俱卢国之北而去;其他众生的行程也不能到达那里。
4.43.58
स हि सोमगिरिर्नाम देवानामपि दुर्गमः।
तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥ ४.४३.५८ ॥
那座名为索摩山的山,即使诸神也难以抵达;你们望见它之后,应当迅速返回。
4.43.59
एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ ४.४३.५९ ॥
诸位猿中之雄,猿众只能到达此处;再往前,那无日光、无边界之地,我们并不知晓。
4.43.60
सर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम्।
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ ४.४३.६० ॥
我所说的一切,都应当仔细思量;对于我未曾说到的,也请运用你们自己的判断。
4.43.61
ततः कृतं दाशरथेर्महत्प्रियं
महत्प्रियं चापि ततो मम प्रियम्।
कृतं भविष्यत्यनिलानलोपमा
विदेहजादर्शनजेन कर्मणा ॥ ४.४३.६१ ॥
于是为十车王之子完成了大的爱戴之事,此后我也得到了大的喜悦。这件如风似火的事业,因见到毗提诃之女而得以成就。
4.43.62
ततः कृतार्थाः सहिताः सबान्धवा
मयार्चिताः सर्वगुणैर्मनोरमैः।
चरिष्यथोर्वीं प्रति शान्तशत्रवः
सहप्रिया भूतधराः प्लवंगमाः ॥ ४.४३.६२ ॥
于是,你们达成了目的,与亲族同在,受我以各种美好的德行所尊敬,敌人已平息,与所爱之人一起,你们将在大地上漫游,啊,承载大地的跳跃猴群。