蚁垤《罗摩衍那》 · 篇 4.47
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.47.1
दर्शनार्थं तु वैदेह्याः सर्वतः कपिकुञ्जराः।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥ ४.४७.१ ॥
为了寻见毗提诃公主,猿中象王们被派往四方。遵从猴王的命令,他们依所说立即出发。
4.47.2
ते सरांसि सरित्कक्षानाकाशं नगराणि च।
नदीदुर्गांस्तथा देशान् विचिन्वन्ति समन्ततः ॥ ४.४७.२ ॥
他们四面搜寻:湖泊、河岸林丛、天空之下的旷野、城市、河川险要之地以及其他地方。
4.47.3
सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः।
तत्र देशान् विचिन्वन्ति सशैलवनकाननान् ॥ ४.४७.३ ॥
诸位猿群首领受须羯里婆指示,在那些有山岳、林丛和森林的地方搜寻。
4.47.4
विचित्य दिवसं सर्वे सीताधिगमने धृताः।
समायान्ति स्म मेदिन्यां निशाकालेषु वानराः ॥ ४.४७.४ ॥
所有为寻找悉多而尽心的猿猴,白天搜寻,到了夜晚便又在大地上聚集。
4.47.5
सर्वर्तुकांश्च देशेषु वानराः सफलद्रुमान्।
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते ॥ ४.४७.५ ॥
猿猴们到达那些地方四季结果的树木之下,每天便在那里铺设夜间的卧床。
4.47.6
तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः।
कपिराजेन संगम्य निराशाः कपिकुञ्जराः ॥ ४.४७.६ ॥
以那天为第一天,一个月内他们前往普拉斯拉瓦那山;与猴王相会后,猿中象王们怀着失望返回。
4.47.7
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह।
अदृष्ट्वा विनतः सीतामाजगाम महाबलः ॥ ४.४७.७ ॥
与大臣们依命搜寻东方,未见悉多,那位大力者谦卑地返回了。
4.47.8
दिशमप्युत्तरां सर्वां विविच्य स महाकपिः।
आगतः सह सैन्येन भीतः शतबलिस्तदा ॥ ४.४७.८ ॥
搜遍整个北方,那位大猴首领舍塔巴利便率军恐惧地返回了。
4.47.9
सुषेणः पश्चिमामाशां विविच्य सह वानरैः।
समेत्य मासे पूर्णे तु सुग्रीवमुपचक्रमे ॥ ४.४७.९ ॥
苏舍那与众猴搜遍西方,会合后,在满月时前往苏羯梨婆那里。
4.47.10
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च।
आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥ ४.४७.१० ॥
他们走近立于普罗斯罗婆那山背上的他,恭敬行礼后,对与罗摩同坐的苏羯梨婆说了这些话。
4.47.11
विचिताः पर्वताः सर्वे वनानि गहनानि च।
निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये ॥ ४.४७.११ ॥
所有山岭、茂密森林、流向大海的河流以及所有有人居住的地方都已搜遍。
4.47.12
गुहाश्च विचिताः सर्वा याश्च ते परिकीर्तिताः।
विचिताश्च महागुल्मा लताविततसंतताः ॥ ४.४७.१२ ॥
你所提到的所有山洞都已搜遍,那些被藤蔓覆盖缠绕的大片灌木丛也已搜遍。
4.47.13
गहनेषु च देशेषु दुर्गेषु विषमेषु च।
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च।
ये चैव गहना देशा विचितास्ते पुनः पुनः ॥ ४.४७.१३ ॥
在茂密之处、险要难行和崎岖之地,他们都进行搜寻;巨大的生灵被找到并杀死。那些被提及的茂密之地,一再地被搜寻。
4.47.14
उदारसत्त्वाभिजनो हनूमान्
स मैथिलीं ज्ञास्यति वानरेन्द्र।
दिशं तु यामेव गता तु सीता
तामास्थितो वायुसुतो हनूमान् ॥ ४.४७.१४ ॥
高尚品性与出身的哈努曼,啊,猴众之王,必定会找到摩ithila(悉多)。紧随悉多所去的那个方向,风之子哈努曼(将前行)。