Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.52.1

अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान्।
इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ ४.५२.१ ॥

于是修行正法的苦行女以专注的心对所有正在休息的猴群首领说了这番话。

4.52.2

वानरा यदि वः खेदः प्रणष्टः फलभक्षणात्।
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि तां कथाम् ॥ ४.५२.२ ॥

诸位猴子,如果你们吃了果子,疲劳已经消除,而且此事我可以听闻,我愿意听那个故事。

4.52.3

तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः।
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४.५२.३ ॥

听了她的话,风之子哈努曼以坦诚的态度,照实讲述起来。

4.52.4

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ ४.५२.४ ॥

十车王之子、光辉的诸界之王、如因陀罗与伐楼那一般的罗摩,进入了檀陀迦林。

4.52.5

लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया।
तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ॥ ४.५२.५ ॥

与弟弟罗什曼那及妻子维德嘿同行时,他的妻子被罗波那从人居地强行劫走。

4.52.6

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ ४.५२.६ ॥

那位国王的英勇挚友、猴族诸首领之王名叫苏耆利婆的猴子,正是他派遣了我们。

4.52.7

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम्।
सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् ॥ ४.५२.७ ॥

我们与以安伽达为首的诸位猴王一同前往那被阿伽斯蒂亚所游历、被阎摩守护的南方。

4.52.8

रावणं सहिताः सर्वे राक्षसं कामरूपिणम्।
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ ४.५२.८ ॥

在"去寻找能随意变形的罗刹罗波那,以及毗提诃公主悉多"的命令下,我们全体启程。

4.52.9

विचित्य तु वनं सर्वं समुद्रं दक्षिणां दिशम्।
वयं बुभुक्षिताः सर्वे वृक्षमूलमुपाश्रिताः ॥ ४.५२.९ ॥

搜遍了整片森林、大海与南方之后,我们全都饥饿地坐在一棵树的根下。

4.52.10

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः।
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥ ४.५२.१० ॥

我们每个人脸色苍白,都陷入沉思;沉没在忧虑的大海之中,找不到彼岸。

4.52.11

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम्।
लतापादपसंछन्नं तिमिरेण समावृतम् ॥ ४.५२.११ ॥

我们四处游荡,看到一个巨大的洞穴,被藤蔓和树木遮盖,笼罩在黑暗之中。

4.52.12

अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः।
कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः ॥ ४.५२.१२ ॥

从里面飞出浸湿了水的天鹅、鹗和鹤——都是飞鸟,它们的翅膀上沾满水汽。

4.52.13

साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः।
तेषामपि हि सर्वेषामनुमानमुपागतम् ॥ ४.५२.१३ ॥

我说:"好,我们就进去吧。"那些猴子也都表示同意。

4.52.14

अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः।
ततो गाढं निपतिता गृह्य हस्तैः परस्परम् ॥ ४.५२.१४ ॥

他们个个急于完成任务,纷纷跳了进去;随后彼此紧紧握住对方的手,向前行进。

4.52.15

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्।
एतन्नः कार्यमेतेन कृत्येन वयमागताः ॥ ४.५२.१५ ॥

我们突然进入了这座被黑暗笼罩的洞穴;这就是我们的任务,我们正是为此而来。

4.52.16

त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः।
आतिथ्यधर्मदत्तानि मूलानि च फलानि च ॥ ४.५२.१६ ॥

我们都疲惫饥饿地来到你这里;你依照待客之道,把根茎和果实给了我们。

4.52.17

अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः।
यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥ ४.५२.१७ ॥

我们饥饿难耐,便吃了它们;你救了我们所有人,我们都快要饿死了。

4.52.18

ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः।
एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा ॥ ४.५२.१८ ॥

"请告诉我们,我们这些猴子该为您做些什么以作回报。"那些猴子这样问道,全知的斯瓦扬普拉巴便[回答]。

4.52.19

प्रत्युवाच ततः सर्वानिदं वानरयूथपान्।
सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् ॥ ४.५२.१९ ॥

于是自生光对所有猴群首领说道:“我对你们这些迅捷而有力的猴子都很满意。”

4.52.20

चरन्त्या मम धर्मेण न कार्यमिह केनचित्।
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ॥ ४.५२.२० ॥

“我在此依法修行苦行,无需任何人为我做什么。”那位苦行女如此回应,说出了这些充满法度的吉祥之言。

4.52.21

उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम्।
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम् ॥ ४.५२.२१ ॥

哈奴曼对那双目无瑕的女子说道:“行法的女子啊,我们都已投奔你的庇护。”

4.52.22

यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना।
स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥ ४.५२.२२ ॥

伟大的须羯哩婆为我们所定的期限已经过去,而我们仍在这山洞中徘徊。

4.52.23

सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि।
तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः ॥ ४.५२.२३ ॥

你应当把我们从这山洞中救出,因为违背了须羯哩婆的命令,我们几乎等同于死人。

4.52.24

त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान्।
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ॥ ४.५२.२४ ॥

你应当拯救我们所有人,我们都畏惧须羯哩婆的愤怒。行法的女子啊,我们还有一件重大的使命要完成。

4.52.25

तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः।
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ॥ ४.५२.२५ ॥

我们居住于此的人也还未完成那件事。哈奴曼如此说后,那位苦行女说了这些话。

4.52.26

जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्।
तपसः सुप्रभावेण नियमोपार्जितेन च ॥ ४.५२.२६ ॥

我认为进入此处的活人很难返回,但这是靠苦行的伟大力量和通过戒律积累的力量才得以实现的。

4.52.27

सर्वानेव बिलादस्मात् तारयिष्यामि वानरान्।
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः ॥ ४.५२.२७ ॥

我必定会把所有猴子从这个洞穴中带出去。诸位猴子中的俊杰们,请你们都闭上眼睛。

4.52.28

नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः।
ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ॥ ४.५२.२८ ॥

睁着眼睛的人无法出去。于是大家都用手指纤柔的双手闭上了眼睛。

4.52.29

सहसा पिदधुर्दृष्टिं हृष्टा गमनकांक्षया।
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ॥ ४.५२.२९ ॥

他们因渴望离开而欢喜,立刻遮住了双眼;那时,心胸高尚的猴子们也用手遮住了脸。

4.52.30

निमेषान्तरमात्रेण बिलादुत्तारितास्तया।
उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी ॥ ४.५२.३० ॥

在一瞬之间,她便把他们带出了洞穴。随后,遵循法度的那位苦行女对在场的所有人说道。

4.52.31

निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत्।
एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः ॥ ४.५२.३१ ॥

她安慰了那些从危险洞穴中走出的人们,然后说道:这是光荣的温底耶山,遍布各种树木和藤蔓。

4.52.32

एष प्रस्रवणः शैलः सागरोऽयं महोदधिः।
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः।
इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा ॥ ४.५२.३२ ॥

这是普拉斯拉瓦那山,这便是大海。愿你们平安,诸位猴族中的翘楚;我将回我的居所。说完这些,自在光便走进了那座光辉的洞穴。