Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.53.1

ततस्ते ददृशुर्घोरं सागरं वरुणालयम्।
अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम् ॥ ४.५३.१ ॥

于是他们看见了可怖的大海——水神伐楼那的居所,广阔无边,咆哮翻滚,被骇人的巨浪搅动。

4.53.2

मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम्।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ ४.५३.२ ॥

他们在寻找由摩耶的幻术所造的山中堡垒,而国王所定的那一个月期限已经过去。

4.53.3

विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे।
उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥ ४.५३.३ ॥

于是,这些大德之人坐在毗陀耶山脚下,那里的树木繁花盛开,他们陷入了忧虑。

4.53.4

ततः पुष्पातिभाराग्राँल्लताशतसमावृतान्।
द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः ॥ ४.५३.४ ॥

然后,他们看见春天的树木,树梢因花朵的重量而低垂,被数百条藤蔓缠绕,于是心中惊惧不安。

4.53.5

ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम्।
नष्टसंदेशकालार्था निपेतुर्धरणीतले ॥ ४.५३.५ ॥

他们彼此宣告春天已经到来,却已失去了使命、时限与目标,于是倒在地上。

4.53.6

ततस्तान् कपिवृद्धांश्च शिष्टांश्चैव वनौकसः।
वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च ॥ ४.५३.६ ॥

于是那些林中居民,以甜美的言辞恰当地招呼年长的猴子和智者,并向他们致敬,

4.53.7

स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः।
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥ ४.५३.७ ॥

那只肩如狮牛、双臂粗长的猴子,太子、大智慧的安伽陀说了这些话。

4.53.8

शासनात् कपिराजस्य वयं सर्वे विनिर्गताः।
मासः पूर्णो बिलस्थानां हरयः किं न बुध्यत ॥ ४.५३.८ ॥

奉猴王之命,我们都出发了。洞中之人的期限已满,诸位猴子,你们难道不明白吗?

4.53.9

वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः।
प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥ ४.५३.९ ॥

我们在阿输陀月,依时间计算所定之期出发;那个月也已过去。接下来该做什么呢?

4.53.10

भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः।
हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु ॥ ४.५३.१० ॥

诸位皆精通政略、值得信赖,专心于主君的利益,被派遣执行一切事务。

4.53.11

कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः।
मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥ ४.५३.११ ॥

诸位皆在作为上无与伦比,四方以勇武闻名,以我为首出发,受黄眼者(须羯哩婆)驱使。

4.53.12

इदानीमकृतार्थानां मर्तव्यं नात्र संशयः।
हरिराजस्य संदेशमकृत्वा कः सुखी भवेत् ॥ ४.५३.१२ ॥

如今未能成事者,必死无疑。未完成猴王之命,谁又能安乐呢?

4.53.13

अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ ४.५३.१३ ॥

此时过去之后,由须羯利婆亲自所行的绝食至死,对所有林中居民而言都是恰当的。

4.53.14

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः।
न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥ ४.५३.१४ ॥

须羯利婆天性暴烈,如今已确立为君主,不会宽恕我们这些作为有罪之人离去的人。

4.53.15

अप्रवृत्तौ च सीतायाः पापमेव करिष्यति।
तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम् ॥ ४.५३.१५ ॥

既然没有悉多的消息,他必定会作恶。因此今天就在此处行绝食至死,才是适宜的。

4.53.16

त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च।
ध्रुवं नो हिंसते राजा सर्वान् प्रतिगतानितः ॥ ४.५३.१६ ॥

即便舍弃了儿子、妻子、财物和房屋,国王必定仍会加害我们所有从此处返回的人。

4.53.17

वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः।
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ॥ ४.५३.१७ ॥

在此处死去,对我们而言胜过不体面的诛杀。况且,我并未被须羯利婆册立为太子。

4.53.18

नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा।
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम् ॥ ४.५३.१८ ॥

我已被不费力行事的人主罗摩所册封。那位从前与我结怨的君王,见到我的过失之后——

4.53.19

घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः।
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे।
इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ ४.५३.१९ ॥

他已决意以严厉的刑罚将我处死。在生命的中途,当着朋友们的面目睹这场灾祸,于我有何益处?我就在这神圣的海岸上,绝食待死。

4.53.20

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्।
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ ४.५३.२० ॥

诸猴中的诸位上首听了太子所说的这番话,都说出了悲悯的话语。

4.53.21

तीक्ष्णः प्रकृत्या सुग्रीवः प्रियारक्तश्च राघवः।
समीक्ष्याकृतकार्यांस्तु तस्मिंश्च समये गते ॥ ४.५३.२१ ॥

须羯哩婆天性严厉,罗怙后裔则眷恋所爱。见事业未成,而那约定的期限已过。

4.53.22

अदृष्टायां च वैदेह्यां दृष्ट्वा चैव समागतान्।
राघवप्रियकामाय घातयिष्यत्यसंशयम् ॥ ४.५३.२२ ॥

因为未见到毗提诃公主,又见我们都聚集在此,他为了讨好罗怙后裔,必定会处死我们,毫无疑问。

4.53.23

न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः।
प्रधानभूताश्च वयं सुग्रीवस्य समागताः ॥ ४.५३.२३ ॥

有罪之人前往主人身边,是不恰当的;而我们作为须羯哩婆的主要臣仆,已经聚集到了这里。

4.53.24

इहैव सीतामन्वीक्ष्य प्रवृत्तिमुपलभ्य वा।
नो चेद् गच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥ ४.५३.२४ ॥

若在此处寻见悉多,或得到她的消息;若不然,我们便去见那位英雄,前往阎摩的居所。

4.53.25

प्लवङ्गमानां तु भयार्दितानां
श्रुत्वा वचस्तार इदं बभाषे।
अलं विषादेन बिलं प्रविश्य
वसाम सर्वे यदि रोचते वः ॥ ४.५३.२५ ॥

猴众因恐惧而痛苦,听了他们的话,多罗说道:不要再沮丧了。若你们愿意,我们都进入这个洞穴居住吧。

4.53.26

इदं हि मायाविहितं सुदुर्गमं
प्रभूतपुष्पोदकभोज्यपेयम्।
इहास्ति नो नैव भयं पुरंदरा-
न्न राघवाद् वानरराजतोऽपि वा ॥ ४.५३.२६ ॥

此洞由幻术所造,极难进入,遍布花朵、清水、饮食。在这里,我们不怕因陀罗,不怕罗怙后裔,甚至不怕猴王。

4.53.27

श्रुत्वाङ्गदस्यापि वचोऽनुकूल-
मूचुश्च सर्वे हरयः प्रतीताः।
यथा न हन्येम तथा विधान-
मसक्तमद्यैव विधीयतां नः ॥ ४.५३.२७ ॥

众猴听闻安伽陀的话也令人满意,便安心地说:请设法使我们不被杀害;请今日就毫不迟延地为我们作好安排。