Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.55

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.55.1

श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्।
स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ ४.५५.१ ॥

阿尊陀听了哈奴曼谦逊、合于法义、充满对主君敬意的话,便说道:

4.55.2

स्थैर्यमात्ममनःशौचमानृशंस्यमथार्जवम्।
विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ ४.५५.२ ॥

坚定、身心清净、不残忍、正直、勇武与坚韧,这些在须羯里婆身上都不具备。

4.55.3

भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम्।
धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥ ४.५५.३ ॥

若有人在世的兄长所爱的正妃,他借法之名视她为母而接纳,此人可鄙。

4.55.4

कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना।
युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ ४.५५.४ ॥

那个心术邪恶的兄长,被派去作战时却封住了洞口,他如何懂得法?

4.55.5

सत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः।
विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् ॥ ४.५५.५ ॥

忘记了以真实之名迎娶、功业卓著、享有盛名的罗怙之子,他又会记得谁的恩德呢?

4.55.6

लक्ष्मणस्य भयेनेह नाधर्मभयभीरुणा।
आदिष्टा मार्गितुं सीता धर्मस्तस्मिन् कथं भवेत् ॥ ४.५५.६ ॥

他因畏惧罗什曼那,又怕非法之罪,便没有在此下令寻找悉多。那他身上怎会有法呢?

4.55.7

तस्मिन् पापे कृतघ्ने तु स्मृतिभिन्ने चलात्मनि।
आर्यः को विश्वसेज्जातु तत्कुलीनो विशेषतः ॥ ४.५५.७ ॥

高尚之人怎会信任出身于那罪孽深重、忘恩负义、违背法度、心性善变之人的家族者,尤其是这样的人?

4.55.8

राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा।
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ ४.५५.८ ॥

在王国中应立儿子为嗣,无论他有德还是无德。那么,苏格利婆怎会让我这出身敌对家族的人活下去?

4.55.9

भिन्नमन्त्रोऽपराद्धश्च भिन्नशक्तिः कथं ह्यहम्।
किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ ४.५५.९ ॥

我谋略已破、过失在身、力量已折,到了黔舍衍那(Kiṣkindhā)后,如同无依无靠的弱者,我怎能活下去?

4.55.10

उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्।
शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ ४.५५.१० ॥

苏格利婆将以暗中的刑罚和桎梏使我走向死亡。这狡诈、残酷、无情的苏格利婆,为了王位会这样做。

4.55.11

बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम्।
अनुजानन्तु मां सर्वे गृहं गच्छन्तु वानराः ॥ ४.५५.११ ॥

比起被缚与绝望,我最好是坐于绝食至死的断食之中。愿众猴都允许我,并各自回家去吧。

4.55.12

अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम्।
इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ ४.५५.१२ ॥

我向你们立誓:我不会回到城中。我就在这里坐于绝食之中;对我而言,死亡才是更好的归宿。

4.55.13

अभिवादनपूर्वं तु राजा कुशलमेव च।
अभिवादनपूर्वं तु राघवौ बलशालिनौ ॥ ४.५५.१३ ॥

先向国王致礼,并问候他的安康。还要先向那两位强大的罗怙后裔致礼。

4.55.14

वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः।
आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ॥ ४.५५.१४ ॥

请告诉我父亲的弟弟、猴族之主须羯哩婆,先问候他的健康与安康。也请告诉我的母亲鲁摩我的平安。

4.55.15

मातरं चैव मे तारामाश्वासयितुमर्हथ।
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ॥ ४.५५.१५ ॥

你们也应当安慰我的母亲塔拉。她天性爱护心爱的儿子,她富有慈悲,是一位苦行的女子。

4.55.16

विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम्।
एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ॥ ४.५५.१६ ॥

她听说我在此丧命,必定会舍弃生命。”说完这些话并向那些长者致礼后——

4.55.17

विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः।
तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ॥ ४.५५.१७ ॥

安伽达心中悲伤,哭泣着坐在地上的吉祥草上。他一坐下,猴族中的英杰们也都哭了起来。

4.55.18

नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः।
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ॥ ४.५५.१८ ॥

他们悲痛不已,眼中流下滚烫的泪水,一边责备须羯哩婆,一边赞美婆利。

4.55.19

परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम्।
तद् वाक्यं वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ॥ ४.५५.१९ ॥

众猴之雄环绕安伽达,领会了波利之子的话语,决意坐下绝食至死。

4.55.20

उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन्।
दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ॥ ४.५५.२० ॥

众人以水漱口后,面向东方坐下,依凭于北岸南端朝向的吉祥草之上。

4.55.21

मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह।
रामस्य वनवासं च क्षयं दशरथस्य च ॥ ४.५५.२१ ॥

众猴之雄求死,说:"这确实恰当。"罗摩的林中流放,十车王的覆灭,

4.55.22

जनस्थानवधं चैव वधं चैव जटायुषः।
हरणं चैव वैदेह्या वालिनश्च वधं तथा।
रामकोपं च वदतां हरीणां भयमागतम् ॥ ४.५५.२२ ॥

当众猴谈论着jan斯坦纳的覆灭、Jaṭāyu的被杀、Vaidehī的被劫、Vāli的被杀以及罗摩的愤怒时,恐惧降临了。

4.55.23

स संविशद्भिर्बहुभिर्महीधरो
महाद्रिकूटप्रतिमैः प्लवंगमैः।
बभूव संनादितनिर्दरान्तरो
भृशं नदद्भिर्जलदैरिवाम्बरम् ॥ ४.५५.२३ ॥

众多如大山峰顶般的猴子进入此山,山中洞穴与裂缝皆回响,正如天空被轰鸣的云层震响。