Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.56.1

उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले।
हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ ४.५६.१ ॥

众猴都坐在山间那片地方,秃鹫之王也几乎来到了那个地方。

4.56.2

सम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः।
भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः ॥ ४.५६.२ ॥

名叫Sampāti的鸟,长寿,是Jaṭāyu的兄弟,光辉而以力量与勇武著称。

4.56.3

कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः।
उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥ ४.५६.३ ॥

他从维indhya大山的一个山洞中走出,看见坐在那里的众猴,心中欢喜,便说了这些话。

4.56.4

विधिः किल नरं लोके विधानेनानुवर्तते।
यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः ॥ ४.५६.४ ॥

的确,世间命运依其定数引导人;这份为我注定的食物,经过许久终于到了我面前。

4.56.5

परम्पराणां भक्षिष्ये वानराणां मृतं मृतम्।
उवाचैतद् वचः पक्षी तान् निरीक्ष्य प्लवंगमान् ॥ ४.५६.५ ॥

众猴死去,我会一只一只地吃掉它们;那鸟看着这些跳跃的猴子,说了这番话。

4.56.6

तस्य तद् वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः।
अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत् ॥ ४.५६.६ ॥

听到那贪图食物之鸟的这番话,安伽陀极为忧伤,便对哈奴曼说道。

4.56.7

पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः।
इमं देशमनुप्राप्तो वानराणां विपत्तये ॥ ४.५६.७ ॥

看哪,为了悉多,毗婆娑之子阎摩本人已来到此地,要毁灭猴族。

4.56.8

रामस्य न कृतं कार्यं न कृतं राजशासनम्।
हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता ॥ ४.५६.८ ॥

罗摩的使命未能完成,国王的命令也未执行;猴族不曾预料的这场灾祸,突然降临了。

4.56.9

वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा।
गृध्रराजेन यत् तत्र श्रुतं वस्तदशेषतः ॥ ४.५६.९ ॥

鹫王迦吒由,一心欲助毗提诃之女(悉多),他所做的事,你们在那里已完整听闻。

4.56.10

तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि।
प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ॥ ४.५६.१० ॥

同样,所有生于畜类之胎的众生也都为罗摩做着他所喜爱之事,正如我们舍弃性命一样。

4.56.11

अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः।
ततस्तस्योपकारार्थं त्यजतात्मानमात्मना ॥ ४.५६.११ ॥

受情爱与悲悯所牵,众生彼此相助;因此,为了他的利益,你们自己亲手舍弃自身吧。

4.56.12

प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा।
राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः ॥ ४.५६.१२ ॥

通晓正法的迦吒由确已为罗摩做了他所喜爱之事;为了罗怙之子,我们已疲惫,并已舍弃性命。

4.56.13

कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्।
स सुखी गृध्रराजस्तु रावणेन हतो रणे।
मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम् ॥ ४.५६.१३ ॥

我们进入了茂密的森林,却没有见到摩提利(悉多)。那位鹫王是幸运的:他在战斗中被罗波那杀死,摆脱了须羯哩婆的恐惧,已达到了至高的归宿。

4.56.14

जटायुषो विनाशेन राज्ञो दशरथस्य च।
हरणेन च वैदेह्याः संशयं हरयो गताः ॥ ४.५६.१४ ॥

因为迦吒優的覆滅、国王十车王的逝世,以及毗提诃(悉多)被劫,猴子们陷入了疑惑与危难之中。

4.56.15

रामलक्ष्मणयोर्वासमरण्ये सह सीतया।
राघवस्य च बाणेन वालिनश्च तथा वधः ॥ ४.५६.१५ ॥

罗摩与罗什曼那与悉多在森林中居住,以及罗怙后裔的箭射杀波林——这一切也被叙述了。

4.56.16

रामकोपादशेषाणां रक्षसां च तथा वधम्।
कैकेय्या वरदानेन इदं च विकृतं कृतम् ॥ ४.५६.१६ ॥

因罗摩之怒,所有罗刹被诛灭;又因给予吉伽伊的恩赐,这一扭曲的局面便造成了。

4.56.17

तदसुखमनुकीर्तितं वचो
भुवि पतितांश्च निरीक्ष्य वानरान्।
भृशचकितमतिर्महामतिः
कृपणमुदाहृतवान् स गृध्रराजः ॥ ४.५६.१७ ॥

在述说了那些痛苦的话语之后,看到猴子们倒卧在地上,这位心智宏大、内心极为惊惧的鹫王悲切地说道。

4.56.18

तत् तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम्।
अब्रवीद् वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ ४.५६.१८ ॥

听到安伽陀口中说出的那些话,这只尖喙、声音洪亮的鹫鸟便说出了这些话语。

4.56.19

कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे।
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ ४.५६.१९ ॥

这是谁,用他的声音宣告了我的兄弟迦吒由的死讯?我的兄弟比我的性命更亲爱。他让我的心颤抖不已。

4.56.20

कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः।
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ ४.५६.२० ॥

在檀那斯坦,罗刹与大鹰之间的战斗是怎样发生的?隔了很久,今天我终于听到了我兄弟的这个名字。

4.56.21

इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम्।
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ ४.५६.२१ ॥

我希望你们把我从这座山间堡垒中带下去,为了见我的幼弟——他通晓德行,以其勇武而值得称赞。

4.56.22

अतिदीर्घस्य कालस्य परितुष्टोऽस्मि कीर्तनात्।
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ ४.५६.२२ ॥

隔了很长时间,听到有人提起他的名字,我感到欣慰。因此,诸位vānara中的雄牛啊,我想听听他的毁灭经过。

4.56.23

भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः।
तस्यैव च मम भ्रातुः सखा दशरथः कथम् ॥ ४.५६.२३ ॥

住在檀那斯坦的我的兄弟迦吒由怎么样了?而我那位兄弟的朋友十车王又怎样了?

4.56.24

यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः।
सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम्।
इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः ॥ ४.५६.२४ ॥

他的爱子长子是罗摩,是长辈所喜爱的人。我的翅膀被太阳的光线烧焦,无法移动。诸位降伏敌人的人啊,我想从这座山上下去。