Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.57

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.57.1

शोकाद् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः।
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥ ४.५७.१ ॥

尽管听到他因悲痛而哽咽的话语,猴群的首领们却因他的行为而心存疑虑,不相信他的话。

4.57.2

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः।
चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति ॥ ४.५७.२ ॥

他们坐在绝食至死的誓愿之中;见到秃鹫,猴子们便生出可怕的念头:它会把我们全都吃掉。

4.57.3

सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति।
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥ ४.५७.३ ॥

若它吞食我们这些坐在绝食之中的人,我们便已完成使命,很快就会从此地达到圆满。

4.57.4

एतां बुद्धिं ततश्चक्रुः सर्वे ते हरियूथपाः।
अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा ॥ ४.५७.४ ॥

于是猴群的首领们都生出了这个主意;安伽陀将它从山峰上带下来后,便对秃鹫说道。

4.57.5

बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान्।
ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ ॥ ४.५७.५ ॥

曾有一位名为熊王(Ṛkṣarajas)的威猛猴王;鸟啊,我尊贵的父亲那位国王已经去世,他有两位正直的儿子。

4.57.6

सुग्रीवश्चैव वाली च पुत्रौ घनबलावुभौ।
लोके विश्रुतकर्माभूद् राजा वाली पिता मम ॥ ४.५७.६ ॥

苏羯荼与波利二人都是力量强大的儿子;以事迹闻名于世的国王波利,是我的父亲。

4.57.7

राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ ४.५७.७ ॥

遍及全世界的君主、甘蔗王族的大车将、十车王的光辉之子罗摩,进入了檀那迦森林。

4.57.8

लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया।
पितुर्निदेशनिरतो धर्मं पन्थानमाश्रितः ॥ ४.५७.८ ॥

与弟弟罗什曼那及妻子毗提诃同行,遵从父命,依止法道。

4.57.9

तस्य भार्या जनस्थानाद् रावणेन हृता बलात्।
रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् ॥ ४.५७.९ ॥

他的妻子在 Janasthāna 被罗波那强行劫走。罗摩父亲的朋友,名叫遮陀优,是秃鹫之王。

4.57.10

ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा।
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम्।
परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ ४.५७.१० ॥

他看见毗提诃公主悉多被凌空劫走。他使罗波那失去战车,又放下了摩提罗公主;虽已疲惫衰老,却在战斗中被罗波那杀死。

4.57.11

एवं गृध्रो हतस्तेन रावणेन बलीयसा।
संस्कृतश्चापि रामेण जगाम गतिमुत्तमाम् ॥ ४.५७.११ ॥

这只秃鹫就这样被强大的罗波那杀死。罗摩也为它举行了葬礼,它因此到达了至高的归宿。

4.57.12

ततो मम पितृव्येण सुग्रीवेण महात्मना।
चकार राघवः सख्यं सोऽवधीत् पितरं मम ॥ ४.५७.१२ ॥

随后罗怙之后与我的叔父、大德的须羯哩婆结为盟友;而他杀死了我的父亲。

4.57.13

मम पित्रा निरुद्धो हि सुग्रीवः सचिवैः सह।
निहत्य वालिनं रामस्ततस्तमभिषेचयत् ॥ ४.५७.१३ ॥

我的父亲曾把须羯哩婆连同他的大臣们囚禁起来。于是罗摩杀死波利,为他举行了灌顶礼。

4.57.14

स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः।
राजा वानरमुख्यानां तेन प्रस्थापिता वयम् ॥ ४.५७.१४ ॥

须羯哩婆是猴族之主,罗摩使他在王国中即位,他是众猴之首的国王;我们正是受他派遣而来。

4.57.15

एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः।
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥ ४.५७.१५ ॥

我们受罗摩派遣,四处寻找,却无法找到毗提诃,正如夜里找不到太阳的光芒。

4.57.16

ते वयं दण्डकारण्यं विचित्य सुसमाहिताः।
अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम् ॥ ४.५७.१६ ॥

我们专心搜寻檀陀迦森林,却因无知进入了大地裂开的一个洞穴。

4.57.17

मयस्य मायाविहितं तद् बिलं च विचिन्वताम्।
व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥ ४.५७.१७ ॥

我们在摩耶幻术所造的那个洞穴中寻找,国王所定的期限那一个月就在那里过去了。

4.57.18

ते वयं कपिराजस्य सर्वे वचनकारिणः।
कृतां संस्थामतिक्रान्ता भयात् प्रायमुपासिताः ॥ ४.५७.१८ ॥

我们都遵从猴王的命令;因害怕已超过所定期限,我们决定绝食至死(绝食求死)。

4.57.19

क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे।
गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ ४.५७.१९ ॥

若迦克徙私陀(罗摩)、须羯哩婆与罗什曼那发怒,那么我们这些前往那里的人,便无生路。