Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.59.1

ततस्तदमृतास्वादं गृध्रराजेन भाषितम्।
निशम्य वदता हृष्टास्ते वचः प्लवगर्षभाः ॥ ४.५९.१ ॥

那时,听了禿鹫王所说的如甘露般甜美的话语,这些猴中的雄牛们都欢喜起来。

4.59.2

जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः।
भूतलात् सहसोत्थाय गृध्रराजानमब्रवीत् ॥ ४.५९.२ ॥

猴中最优秀的耆婆婆王与所有猴子一起,突然从地上起身,对禿鹫王说道。

4.59.3

क्व सीता केन वा दृष्टा को वा हरति मैथिलीम्।
तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम् ॥ ४.५९.३ ॥

悉多在哪里?是谁看见她的?或者是谁带走了弥提罗的公主?请把一切都告诉我们,做我们这些林居者的依靠吧。

4.59.4

को दाशरथिबाणानां वज्रवेगनिपातिनाम्।
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥ ४.५९.४ ॥

谁能不想到达舍罗陀之子的箭的威力呢?那箭如雷霆般迅猛落下,是罗什曼那亲自射出的。

4.59.5

स हरीन् प्रतिसम्मुक्तान् सीताश्रुतिसमाहितान्।
पुनराश्वासयन् प्रीत इदं वचनमब्रवीत् ॥ ४.५९.५ ॥

他再次安慰那些重新振作、专心倾听悉多消息的猴子们,欢喜地说出了这些话。

4.59.6

श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम्।
येन चापि ममाख्यातं यत्र चायतलोचना ॥ ४.५९.६ ॥

请听我说:我是如何听到毗提诃公主被劫的消息的,是谁告诉我的,还有那长眼睛的人在哪里。

4.59.7

अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ॥ ४.५९.७ ॥

我久已坠落在这座险峻的山上,此山绵延数百由旬;我已年老,生命与勇力都已衰竭。

4.59.8

तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः।
आहारेण यथाकालं बिभर्ति पततां वरः ॥ ४.५९.८ ॥

我如此倒卧,我的儿子名叫苏波湿婆,乃群鸟中最优秀者,按时为我带来食物供养我。

4.59.9

तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ॥ ४.५९.९ ॥

乾闥婆欲望炽烈,蛇怒火猛烈,鹿则极为惊恐;因此我们饥饿难忍。

4.59.10

स कदाचित् क्षुधार्तस्य ममाहाराभिकांक्षिणः।
गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ ४.५९.१० ॥

有一次日落之后,我饥饿难忍、渴望食物,我的儿子却空手而来,没有带回任何肉。

4.59.11

स मयाऽऽहारसंरोधात् पीडितः प्रीतिवर्धनः।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ ४.५९.११ ॥

那位使我欢喜增长的儿子,因我扣留食物而痛苦,便如实地向我说了这番话。

4.59.12

अहं तात यथाकालमामिषार्थी खमाप्लुतः।
महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमाश्रितः ॥ ४.५९.१२ ॥

父亲!我按时寻觅肉食,飞上天空,遮住大摩亨德罗山的门,并在那里妥善栖身。

4.59.13

तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम्।
पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः ॥ ४.५९.१३ ॥

在那里,为了阻挡海中穿行的千万生灵之路,我独自低头,下定了决心。

4.59.14

तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम्।
स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः ॥ ४.५९.१४ ॥

在那里我看见一位如朝阳般光彩的女子,她正带着一个形如碎裂眼膏堆的人离去。

4.59.15

सोऽहमभ्यवहारार्थं तौ दृष्ट्वा कृतनिश्चयः।
तेन साम्ना विनीतेन पन्थानमनुयाचितः ॥ ४.५९.१५ ॥

我看见他们二人,便决意去觅食;于是有人以谦卑温和的言辞,向我请求让路。

4.59.16

नहि सामोपपन्नानां प्रहर्ता विद्यते भुवि।
नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः ॥ ४.५९.१६ ॥

世间没有谁会去击打以温和相待之人;即便是卑贱之人也不会这样做,何况像我这样的人呢!

4.59.17

स यातस्तेजसा व्योम संक्षिपन्निव वेगितः।
अथाहं खेचरैर्भूतैरभिगम्य सभाजितः ॥ ४.५९.१७ ॥

他以光芒疾速离去,仿佛收缩了天空。随后,空中游荡的众生走近我,向我致敬。

4.59.18

दिष्ट्या जीवति सीतेति ह्यब्रुवन् मां महर्षयः।
कथंचित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् ॥ ४.५९.१८ ॥

大仙人们对我说:“幸而悉多还活着。那人已带着妻子设法离去了;你必定平安,毫无疑问。”

4.59.19

एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः।
स च मे रावणो राजा रक्षसां प्रतिवेदितः ॥ ४.५९.१९ ॥

那些极其光明的悉陀如此告诉我后,有人向我说明了罗刹之王罗波那的情况。

4.59.20

पश्यन् दाशरथेर्भार्यां रामस्य जनकात्मजाम्।
भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् ॥ ४.५९.२० ॥

我看见了达萨罗陀之子罗摩的妻子、阇那迦之女,她的首饰和丝衣已脱落,被悲痛的洪流所击倒。

4.59.21

रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम्।
एष कालात्ययस्तात इति वाक्यविदां वरः ॥ ४.५९.२१ ॥

她呼喊罗摩和罗什曼那的名字,发丝散乱。「父亲啊,时间快要过去了。」——善言者中的翘楚如此说。

4.59.22

एतदर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।
तच्छ्रुत्वापि हि मे बुद्धिर्नासीत् काचित् पराक्रमे ॥ ४.५९.२२ ॥

正是为此,苏跋尔舍向我详细禀报了全部情况。即便听闻之后,我的心中对于勇力之事却毫无计策。

4.59.23

अपक्षो हि कथं पक्षी कर्म किंचित् समारभेत्।
यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ॥ ४.५९.२३ ॥

没有翅膀的鸟,怎能开始任何行动呢?但我凭借言辞与智慧的长处,所能做到的,我必定去做。

4.59.24

श्रूयतां तत्र वक्ष्यामि भवतां पौरुषाश्रयम्।
वाङ्मतिभ्यां हि सर्वेषां करिष्यामि प्रियं हि वः ॥ ४.५९.२४ ॥

在那里,我要说的是依靠你们大家勇力的办法——请听。以言语和心意,我必定为你们所有人做令你们欢喜之事。

4.59.25

यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः।
तद् भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ॥ ४.५९.२५ ॥

十车王之子的使命,确实也是我的使命,此事无疑。因此诸位智慧超群、力量强大、意志坚定者——

4.59.26

प्रहिताः कपिराजेन देवैरपि दुरासदाः।
रामलक्ष्मणबाणाश्च विहिताः कङ्कपत्रिणः ॥ ४.५९.२६ ॥

猴王所发、连诸神也难以抵挡、以鹤鸟羽毛装饰的罗摩与罗什曼那之箭——

4.59.27

त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे।
कामं खलु दशग्रीवस्तेजोबलसमन्वितः।
भवतां तु समर्थानां न किंचिदपि दुष्करम् ॥ ४.५९.२७ ॥

你们完全有能力守护并制伏三界。十首罗刹诚然有威光与力量;但对于像你们这样有能力的人来说,没有什么是困难的。

4.59.28

तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः।
नहि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ ४.५९.२८ ॥

故不宜再拖延,应当坚定心意做出决断。像你们这样的智者,不会拘泥于行动。