蚁垤《罗摩衍那》 · 篇 4.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.63.1
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः।
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमालयम् ॥ ४.६३.१ ॥
他以这些及其他许多话语赞美了我,辞别后便回到了自己的居所。
4.63.2
कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः।
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥ ४.६३.२ ॥
我从洞穴中慢慢爬出,登上山中的温底耶山,等待着你们。
4.63.3
अद्य त्वेतस्य कालस्य वर्षं साग्रशतं गतम्।
देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः ॥ ४.६३.३ ॥
如今已过去一百零一年。我将贤者的话藏在心中,等待合适的地点与时机。
4.63.4
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे।
मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम् ॥ ४.६३.४ ॥
既已抵达大行之地,月亮升入天界,我被诸多思绪包围,忧苦焚烧着我。
4.63.5
उदितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये।
बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणे मम ॥ ४.६३.५ ॥
我以贤者的话收回心中生起的赴死之念;那是他为保护我的性命而赐予我的智慧。
4.63.6
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः।
बुध्यता च मया वीर्यं रावणस्य दुरात्मनः ॥ ४.६३.६ ॥
那智慧驱散我的忧苦,如同燃烧的火焰驱散黑暗;而我也已知晓恶心者罗波那的威力。
4.63.7
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम्।
तस्या विलपितं श्रुत्वा तौ च सीतावियोजितौ ॥ ४.६३.७ ॥
儿子被言语威吓;梅提利怎能得不到保护?他们听到她的哀叹,二人与悉多分离,心中悲痛。
4.63.8
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम्।
तस्य त्वेवं ब्रुवाणस्य संहतैर्वानरैः सह ॥ ४.६३.८ ॥
因为对十车王的爱,儿子没有为我做任何令我欣喜之事;但他这样说话时,猴子们正聚集在一起。
4.63.9
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्।
स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ॥ ४.६३.९ ॥
那时,在林中居民面前,他的两翼升起。他看到自己的身体,长出了带着赤色羽毛的翅膀。
4.63.10
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्।
निशाकरस्य राजर्षेः प्रसादादमितौजसः ॥ ४.६३.१० ॥
他获得了无与伦比的喜悦,对猴子们说:"由于无量威力的王仙尼舍迦罗的恩惠,此事已经发生。"
4.63.11
आदित्यरश्मिनिर्दग्धौ पक्षौ पुनरुपस्थितौ।
यौवने वर्तमानस्य ममासीद् यः पराक्रमः ॥ ४.६३.११ ॥
被日光烧毁的两翼又重新长出。我年轻时所有的勇力,(也恢复了)。
4.63.12
तमेवाद्यावगच्छामि बलं पौरुषमेव च।
सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ ॥ ४.६३.१२ ॥
如今我感知到那份力量与男子气概。尽力而为吧;你们将找到悉多。
4.63.13
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः।
इत्युक्त्वा तान् हरीन् सर्वान् सम्पातिः पतगोत्तमः ॥ ४.६३.१३ ॥
我双翼的恢复,对你们是使成功有把握的征兆。说完这话,鸟中最优者僧帕提对所有那些猴子说道。
4.63.14
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम्।
तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः।
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ॥ ४.६३.१४ ॥
птица想要知道悉多的下落,从山峰上飞起。众猴中如虎的英雄听了他的话,心中极为欢喜,渴望以勇武获得成就。
4.63.15
अथ पवनसमानविक्रमाः
प्लवगवराः प्रतिलब्धपौरुषाः।
अभिजिदभिमुखां दिशं ययु-
र्जनकसुतापरिमार्गणोन्मुखाः ॥ ४.६३.१५ ॥
于是,勇武堪比风的诸猴中的上将,重新振起男儿之力,急切地去寻找遮那伽之女,朝着对着阿比吉特星的方向出发了。