Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.64.1

आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः।
संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः ॥ ४.६४.१ ॥

群猴听了禿鹫王的讲述,跃起聚集,充满喜悦,以狮子般的勇猛齐声吼叫。

4.64.2

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम्।
हृष्टाः सागरमाजग्मुः सीतादर्शनकांक्षिणः ॥ ४.६४.२ ॥

众猴听了赡波提关于罗波那毁灭的话,满心欢喜,渴望见到悉多,便来到大海边。

4.64.3

अभिगम्य तु तं देशं ददृशुर्भीमविक्रमाः।
कृत्स्नं लोकस्य महतः प्रतिबिम्बमवस्थितम् ॥ ४.६४.३ ॥

到达那里后,勇猛无比的群猴看见那里呈现出宏大世界的整个倒影。

4.64.4

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्।
संनिवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥ ४.६४.४ ॥

抵达南海的北方后,那些大力的猴中英雄便在那里扎营。

4.64.5

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः।
क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ४.६४.५ ॥

此处仿佛沉睡,彼处仿佛嬉戏;有时又被如山般高大的水体所环绕。

4.64.6

संकुलं दानवेन्द्रैश्च पातालतलवासिभिः।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ ४.६४.६ ॥

看到这令人毛骨悚然、布满居于地下深处的达那婆王者的景象,猴中的豪杰们感到沮丧。

4.64.7

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः।
विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन् ॥ ४.६४.७ ॥

众猴望见如天空般难以横渡的大海,一同陷入忧愁,说道:"此事如何能成?"

4.64.8

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्।
आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ॥ ४.६४.८ ॥

见众猴因望海而沮丧,猴中之杰安慰了那些被恐惧所困的猴子。

4.64.9

न विषादे मनः कार्यं विषादो दोषवत्तरः।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ ४.६४.९ ॥

心不应陷入沮丧,因为沮丧最为有害。沮丧毁灭人,如同愤怒的毒蛇咬死幼童。

4.64.10

यो विषादं प्रसहते विक्रमे समुपस्थिते।
तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति ॥ ४.६४.१० ॥

当勇武之时来临,若有人忍受沮丧,便失去了精神,其人生的目标便不能成就。

4.64.11

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह।
हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥ ४.६४.११ ॥

那夜过去后,安伽达与众猴及年长的猴子相聚,再次商议对策。

4.64.12

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ ४.६४.१२ ॥

那群猴子的大军环绕着安伽达,光彩熠熠,犹如诸风神环绕因陀罗而立。

4.64.13

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् ।
अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ ४.६४.१३ ॥

除了跋离之子和哈奴曼,还有谁能拦住那支猴子大军?

4.64.14

ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः।
अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत् ॥ ४.६४.१४ ॥

于是,威名赫赫的降敌者安伽陀恭敬地向年长的猴王们和全体大军致辞,说出了有意义的话。

4.64.15

क इदानीं महातेजा लङ्घयिष्यति सागरम्।
कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम् ॥ ४.६४.१५ ॥

如今,谁有大威力跃过大海?又有谁能完成守誓、降服敌人的须羯哩婆的使命?

4.64.16

को वीरो योजनशतं लङ्घयेत प्लवङ्गमः।
इमांश्च यूथपान् सर्वान् मोचयेत् को महाभयात् ॥ ४.६४.१६ ॥

哪位猴中英雄能跃过百由旬?又有谁能把这些统领从这大难中救出?

4.64.17

कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च।
इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥ ४.६४.१७ ॥

凭着谁的恩德,我们才能再见妻子、儿女与家园,从此地归去,功成而安乐?

4.64.18

कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम्।
अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम् ॥ ४.६४.१८ ॥

凭着谁的恩德,我们才能欣然走近大力的罗摩与罗什曼那,以及林中居者须羯哩婆?

4.64.19

यदि कश्चित् समर्थो वः सागरप्लवने हरिः।
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ ४.६४.१९ ॥

若你们中有谁能跨越大海,就请他迅速在此给予我们功德的无畏施礼。

4.64.20

अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत्।
स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी ॥ ४.६४.२० ॥

众猴听了安伽陀的话,没有一个人开口;整支猴军仿佛凝固了一般。

4.64.21

पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः।
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः।
व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः ॥ ४.६४.२१ ॥

于是猴中最优秀的安伽陀又对众猴说:你们都是强者中的翘楚,勇武坚定,出身于显赫的族系,并且屡次受到尊崇。

4.64.22

नहि वो गमने भङ्गः कदाचित् कस्यचिद् भवेत्।
ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ ४.६४.२२ ॥

你们中无人在出行上会有任何阻碍。猴中之雄,请各自说出你能跳跃的力量有多大。