Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.67.1

तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्।
वेगेनापूर्यमाणं च सहसा वानरोत्तमम् ॥ ४.६७.१ ॥

他们忽然看见那位最杰出的猴子伸展身体、充满力量,准备跃过百由旬,

4.67.2

सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः।
विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम् ॥ ४.६७.२ ॥

他们忽然抛下忧愁,充满喜悦,齐声呼喊,并赞颂大力的哈努曼。

4.67.3

प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः।
त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः ॥ ४.६७.३ ॥

他们欢喜而惊叹,四处张望,如众生仰望那步出三步、充满斗志的毗湿奴(Trivikrama)那罗延。

4.67.4

संस्तूयमानो हनुमान् व्यवर्धत महाबलः।
समाविद्ध्य च लाङ्गूलं हर्षाद् बलमुपेयिवान् ॥ ४.६७.४ ॥

在赞颂声中,大力的哈努曼身形增长;他挥动尾巴,因喜悦而获得力量。

4.67.5

तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः।
तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम् ॥ ४.६७.५ ॥

当年长的上等猴子们赞颂他,他被光辉充满时,他的形象变得无与伦比。

4.67.6

यथा विजृम्भते सिंहो विवृते गिरिगह्वरे।
मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते ॥ ४.६७.६ ॥

如同狮子在敞开的山洞中伸展身躯,风神的亲生之子此刻也伸展着身体。

4.67.7

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः।
अम्बरीषोपमं दीप्तं विधूम इव पावकः ॥ ४.६७.७ ॥

那位智者打哈欠时的面容,如同无烟的熊熊烈火,又似太阳之轮般光辉闪耀。

4.67.8

हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः।
अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत् ॥ ४.६७.८ ॥

哈奴曼从众猴中起身,因喜悦而汗毛竖立,向年长的猴子们行礼后说道:

4.67.9

आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ४.६७.९ ॥

摧毁山峰之巅、火之友、强大无量、行于天空的风。

4.67.10

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः।
मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः ॥ ४.६७.१० ॥

我正是那位疾速、迅行、大德之风神摩噜多的亲生之子;论跳跃,我与他相等。

4.67.11

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्।
मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥ ४.६७.११ ॥

我确实能不停地绕行那广阔的须弥山,如刮着天空一般,千次不停。

4.67.12

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे।
समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ ४.६७.१२ ॥

借着我双臂之力激起的大海,我能淹没整个世界,连同山岳、河流与湖泊。

4.67.13

ममोरुजङ्घावेगेन भविष्यति समुत्थितः।
समुत्थितमहाग्राहः समुद्रो वरुणालयः ॥ ४.६७.१३ ॥

凭借我大腿与小腿的力量,水神伐楼那的居所大海将会翻腾而起,其中巨大的海怪也会随之涌起。

4.67.14

पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम्।
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ ४.६७.१४ ॥

即便是在天空飞翔、以蛇为食、被群鸟环绕的伐那提(迦楼罗),我也能够绕行超越千次。

4.67.15

उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्।
अनस्तमितमादित्यमहं गन्तुं समुत्सहे ॥ ४.६७.१५ ॥

即便是从日出之处升起、炽热、戴着光芒花环、永不落下的太阳,我也渴望前往。

4.67.16

ततो भूमिमसंस्पृष्ट्वा पुनरागन्तुमुत्सहे।
प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ ४.६७.१६ ॥

然后,不触碰大地,我也能够再次返回——凭借巨大而可怖的速度,啊,猴族之最!

4.67.17

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्।
सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥ ४.६७.१७ ॥

我能够超越所有在天空中行走的生灵;我将使四海枯竭,将大地劈裂。

4.67.18

पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमः।
हरिष्याम्युरुवेगेन प्लवमानो महार्णवम् ॥ ४.६७.१८ ॥

我要将群山碾为齑粉;作为跳跃的猴子,我将以巨大的速度,边跳跃边渡过大海。

4.67.19

लतानां विविधं पुष्पं पादपानां च सर्वशः।
अनुयास्यति मामद्य प्लवमानं विहायसा ॥ ४.६७.१९ ॥

今日,藤蔓与树木的各色花朵将从四面八方追随我这穿越天空飞跃的人。

4.67.20

भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे।
चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च ॥ ४.६७.२० ॥

当我在可怕的天空中穿行并向上腾起时,我的路将如天空中斯瓦提星的轨迹。

4.67.21

द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः।
महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः ॥ ४.६७.२१ ॥

诸位猴子啊,一切众生都将看见我降落;善跳的猴子们,你们将看见我如大须弥山一般。

4.67.22

दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्।
विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान्।
सागरं शोषयिष्यामि प्लवमानः समाहितः ॥ ४.६७.२२ ॥

遮蔽天空,前行如吞噬苍穹;我将驱散云层,震动群山,使大海干涸;心神专注地腾跃而去。

4.67.23

वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा।
ऋते सुपर्णराजानं मारुतं वा महाबलम्।
न तद् भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥ ४.६७.२३ ॥

除了毗娜特耶(迦楼罗)、我自己或风神之力,我看不到任何能跟随我腾跃的生灵。

4.67.24

निमेषान्तरमात्रेण निरालम्बनमम्बरम्।
सहसा निपतिष्यामि घनाद् विद्युदिवोत्थिता ॥ ४.६७.२४ ॥

在一瞬之间,我将从无所依托的天空骤然降下,如同闪电从云中迸发。

4.67.25

भविष्यति हि मे रूपं प्लवमानस्य सागरम्।
विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव ॥ ४.६७.२५ ॥

跃过大海时,我的身形将如毗湿奴迈出三步时一般。

4.67.26

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा।
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ॥ ४.६७.२६ ॥

我以智慧清楚地看见,我的心念之动也是如此。我将见到毗提诃。跳跃的猴群们,欢喜吧!

4.67.27

मारुतस्य समो वेगे गरुडस्य समो जवे।
अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥ ४.६७.२७ ॥

论速度,我与风相等;论疾行,我与迦卢达相等。我的决心是行十万由旬。

4.67.28

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः।
विक्रम्य सहसा हस्तादमृतं तदिहानये ॥ ४.६७.२८ ॥

即便从持金刚杵的因陀罗或自生的梵天手中,我也将以力量突然夺取那甘露,带回此处。

4.67.29

लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः।
तमेवं वानरश्रेष्ठं गर्जन्तममितप्रभम् ॥ ४.६७.२९ ॥

或者我会连楞伽城一并拔起带走——这便是我的决心。那猴中之王,咆哮着,光辉无量。

4.67.30

प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः।
तच्चास्य वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ ४.६७.३० ॥

那里欢喜而惊异的猴群凝望着他。听到他那能消除同族忧愁的话语之后——

4.67.31

उवाच परिसंहृष्टो जाम्बवान् प्लवगेश्वरः।
वीर केसरिणः पुत्र वेगवन् मारुतात्मज ॥ ४.६७.३१ ॥

极为欢喜的猴王之主遮婆梵说道:英雄啊,金刚的儿子,迅捷者,风神之子!

4.67.32

ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः।
तव कल्याणरुचयः कपिमुख्याः समागताः ॥ ४.६७.३२ ॥

孩子啊,你已消除了亲族巨大的悲痛。盼你平安的众猴之首都已聚集于此。

4.67.33

मङ्गलान्यर्थसिद्ध्यर्थं करिष्यन्ति समाहिताः।
ऋषीणां च प्रसादेन कपिवृद्धमतेन च ॥ ४.६७.३३ ॥

众猴心志专一,将为成就大事举行吉祥之仪,承蒙仙人的恩泽,依从年长猴众的意见。

4.67.34

गुरूणां च प्रसादेन सम्प्लव त्वं महार्णवम्।
स्थास्यामश्चैकपादेन यावदागमनं तव ॥ ४.६७.३४ ॥

凭长辈的恩泽,你且跃过大海。在你归来之前,我们将单足而立。

4.67.35

त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम्।
ततश्च हरिशार्दूलस्तानुवाच वनौकसः ॥ ४.६७.३५ ॥

所有林中猴众的性命都系于你身。于是猴中猛虎罗摩之臣哈奴曼对那些林中之猴说道。

4.67.36

कोऽपि लोके न मे वेगं प्लवने धारयिष्यति।
एतानीह नगस्यास्य शिलासंकटशालिनः ॥ ४.६७.३६ ॥

世上无人能承受我跃起的速度。这座布满岩石峭壁的山上的这些峰峦……

4.67.37

शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च।
येषु वेगं गमिष्यामि महेन्द्रशिखरेष्वहम् ॥ ४.६७.३७ ॥

摩亨德罗山的峰顶稳固而高大;我将借助这些摩亨德罗峰顶积蓄我的冲力。

4.67.38

नानाद्रुमविकीर्णेषु धातुनिष्पन्दशोभिषु।
एतानि मम वेगं हि शिखराणि महान्ति च ॥ ४.६७.३८ ॥

这些高大的山峰遍布各种树木,又因流淌的矿脉清泉而生辉,必能承受我的冲力。

4.67.39

प्लवतो धारयिष्यन्ति योजनानामितः शतम्।
ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः।
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ ४.६७.३९ ॥

从此处起,百由旬之内,这些山峰将承受他的一跃。于是,疾如风、乃风之子、摧敌之猴哈努曼,攀上了群山之首摩亨德罗山。

4.67.40

वृतं नानाविधैः पुष्पैर्मृगसेवितशाद्वलम्।
लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् ॥ ४.६७.४० ॥

山上遍布各色花朵,草地上常有鹿群徘徊,藤蔓之花繁盛拥簇,树木四季开花结果。

4.67.41

सिंहशार्दूलसहितं मत्तमातङ्गसेवितम्।
मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम् ॥ ४.६७.४१ ॥

山中有狮子与老虎,狂暴的象群徘徊其间,醉意盎然的鸟群鸣声回荡,流水奔涌,拥挤不堪。

4.67.42

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः।
विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ॥ ४.६७.४२ ॥

那位大力的猴中之王在高耸巍峨的摩亨德罗山上游走,他的威勇与摩亨德罗山相当。

4.67.43

पादाभ्यां पीडितस्तेन महाशैलो महात्मना।
ररास सिंहाभिहतो महान् मत्त इव द्विपः ॥ ४.६७.४३ ॥

被那位大德之人的双脚压住,这座大山如被狮子击伤的狂暴大象一般咆哮起来。

4.67.44

मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः।
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ॥ ४.६७.४४ ॥

大山释放了水的压力;其堆积的岩石四散,鹿与象惊恐,巨大的树木摇撼。

4.67.45

नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः।
उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि ॥ ४.६७.४५ ॥

这座山充满了众多因饮酒而粗野的乾达婆夫妇、飞起的鸟群,以及毗陀罗众。

4.67.46

त्यज्यमानमहासानुः संनिलीनमहोरगः।
शैलशृङ्गशिलोत्पातस्तदाभूत् स महागिरिः ॥ ४.६७.४६ ॥

那时,这座大山变得大峰被弃、大蛇隐藏、峰顶岩石被掀起的模样。

4.67.47

निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः।
सपताक इवाभाति स तदा धरणीधरः ॥ ४.६७.४७ ॥

那时,那些喘息着、半露出身的大蛇使这承载大地的山看起来仿佛竖起了旗帜。

4.67.48

ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः।
सीदन् महति कान्तारे सार्थहीन इवाध्वगः ॥ ४.६७.४८ ॥

那座堆满岩石的山被因恐惧而惊慌的仙人们抛弃,在大森林中下沉,宛如失去商队的旅人。

4.67.49

स वेगवान् वेगसमाहितात्मा
हरिप्रवीरः परवीरहन्ता।
मनः समाधाय महानुभावो
जगाम लङ्कां मनसा मनस्वी ॥ ४.६७.४९ ॥

迅捷的他心神专注于速度,乃猴群中的英雄,诛杀敌方勇士,威力广大,意志坚定。他收摄心念,便以心念向楞伽而去。