蚁垤《罗摩衍那》 · 篇 4.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.9.1
वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः।
पितुर्बहुमतो नित्यं मम चापि तथा पुरा ॥ ४.९.१ ॥
我的长兄名叫婆梨,是消灭敌人的英雄。父亲始终十分敬重他,从前我也同样敬重他。
4.9.2
पितर्युपरते तस्मिन् ज्येष्ठोऽयमिति मन्त्रिभिः।
कपीनामीश्वरो राज्ये कृतः परमसम्मतः ॥ ४.९.२ ॥
父亲去世后,大臣们认为他是长兄,便在众人的一致赞同下,立他为猴族之王。
4.9.3
राज्यं प्रशासतस्तस्य पितृपैतामहं महत्।
अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः ॥ ४.९.३ ॥
他统治父祖传下的广大国土时,我始终谦恭地侍立,如同仆人一般。
4.9.4
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः।
तेन तस्य महद्वैरं वालिनः स्त्रीकृतं पुरा ॥ ४.९.४ ॥
有一位名叫摩耶毗的光辉长者,是敦都毗之子。从前因一名女子,他与婆梨结下了深仇。
4.9.5
स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः।
नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे ॥ ४.९.५ ॥
那夜众人熟睡之时,他来到钵罗耶跋山城(Kiṣkindhā)门前,怒吼不止,向婆梨发出挑战。
4.9.6
प्रसुप्तस्तु मम भ्राता नर्दतो भैरवस्वनम्।
श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा ॥ ४.९.६ ॥
可是我的兄长婆梨正熟睡,听到他那可怕的吼声,不能忍受,立刻迅速跃起。
4.9.7
स तु वै निःसृतः क्रोधात् तं हन्तुमसुरोत्तमम्।
वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥ ४.९.७ ॥
他怀着愤怒出去要杀死那位最优秀的阿修罗,而妇女们和我则谦卑地极力阻拦他。
4.9.8
स तु निर्धूय सर्वान् नो निर्जगाम महाबलः।
ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ॥ ४.९.८ ॥
那位大力者甩开了我们所有人而出去;那时我出于手足之情,也与婆利一同出去了。
4.9.9
स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम्।
असुरो जातसंत्रासः प्रदुद्राव तदा भृशम् ॥ ४.९.९ ॥
那阿修罗看见我的兄长和远处站立的我,心中惊恐,便极速逃走了。
4.9.10
तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ।
प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥ ४.९.१० ॥
他惊恐逃跑时,我们二人走得更快;那时升起的月亮为道路照亮了光明。
4.9.11
स तृणैरावृतं दुर्गं धरण्या विवरं महत्।
प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ ४.९.११ ॥
那阿修罗迅速进入了那个被野草覆盖、难以进入的大地裂口;我们二人到了那里,便停下站立。
4.9.12
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः।
मामुवाच ततो वाली वचनं क्षुभितेन्द्रियः ॥ ४.९.१२ ॥
看见敌人进入洞穴,婆利被愤怒所controll,心神激荡,便对我说了这些话。
4.9.13
इह तिष्ठाद्य सुग्रीव बिलद्वारि समाहितः।
यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् ॥ ४.९.१३ ॥
苏具梨婆啊,现在就留在洞口,专心守候,直到我进去在战斗中杀死敌人。
4.9.14
मया त्वेतद् वचः श्रुत्वा याचितः स परंतपः।
शापयित्वा च मां पद्भ्यां प्रविवेश बिलं ततः ॥ ४.९.१४ ॥
他听了我的话,那位焚烧敌人的英雄恳求我,让我以双足起誓,然后便走进了洞穴。
4.9.15
तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः।
स्थितस्य च बिलद्वारि स कालो व्यत्यवर्तत ॥ ४.९.१५ ॥
他进入洞穴之后,整整过了一年;而站在洞口的我,那段时间也就这样过去了。
4.9.16
अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः।
भ्रातरं न प्रपश्यामि पापशङ्कि च मे मनः ॥ ४.९.१६ ॥
我以为他已经丧命,便出于手足之情而心慌意乱。我看不见兄弟,我的心在担忧不祥。
4.9.17
अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम्।
सफेनं रुधिरं दृष्ट्वा ततोऽहं भृशदुःखितः ॥ ४.९.१७ ॥
过了很久以后,我看见从那洞里涌出带着泡沫的血,便极为悲痛。
4.9.18
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः।
न रतस्य च संग्रामे क्रोशतोऽपि स्वनो गुरोः ॥ ४.९.१८ ॥
咆哮的阿修罗的吼声传入我耳中,却听不到在战场上呼喊的我兄长的声音。
4.9.19
अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम्।
पिधाय च बिलद्वारं शिलया गिरिमात्रया ॥ ४.९.१९ ॥
但我凭那些迹象以智慧得知兄弟已被杀害,便用一块如山般大的巨石堵住了洞口。
4.9.20
शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे।
गूहमानस्य मे तत् त्वं यत्नतो मन्त्रिभिः श्रुतम् ॥ ४.९.२० ॥
朋友,我因悲痛而行了献水之礼,回到了基什金陀;虽然我隐瞒此事,你却从大臣那里仔细地听到了。
4.9.21
ततोऽहं तैः समागम्य समेतैरभिषेचितः।
राज्यं प्रशासतस्तस्य न्यायतो मम राघव ॥ ४.९.२१ ॥
于是众人聚集,为我行了灌顶之礼;啊,罗怙之裔,他公正地治理国家,我也如此治理。
4.9.22
आजगाम रिपुं हत्वा दानवं स तु वानरः।
अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः ॥ ४.९.२२ ॥
那只猴子杀了敌对的罗刹后回来;见我已受灌顶,他怒火中烧,双眼变得通红。
4.9.23
मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत्।
निग्रहे च समर्थस्य तं पापं प्रति राघव ॥ ४.९.२३ ॥
他绑缚了我的大臣,说出了粗暴的话;啊,罗怙之裔,他虽有能力惩罚,那恶人却如此行事。
4.9.24
न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता।
हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा ॥ ४.९.२४ ॥
我因敬重兄长,心中无意惩罚他;他杀死敌人后,便进入了城中。
4.9.25
मानयंस्तं महात्मानं यथावच्चाभिवादयम्।
उक्ताश्च नाशिषस्तेन प्रहृष्टेनान्तरात्मना ॥ ४.९.२५ ॥
我按礼仪敬重这位大度之人并向他行礼,然而他心中欢喜,却没有向我说出祝福之语。
4.9.26
नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो।
अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥ ४.९.२६ ॥
主上,我俯身向他行礼,并以我的冠冕触碰他的双足,然而波利因愤怒,并未对我施以恩宠。