蚁垤《罗摩衍那》 · 篇 5.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.1.1
ततो रावणनीतायाः सीतायाः शत्रुकर्षणः।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ ५.१.१ ॥
于是,降伏敌人的(哈奴曼)想要寻找被罗波那劫走的悉多的踪迹,便欲走上神仙乐师(查兰那)行经的道路。
5.1.2
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन् कर्म वानरः।
समुदग्रशिरोग्रीवो गवां पतिरिवाबभौ ॥ ५.१.२ ॥
这只猴子想要完成艰难而无与伦比的事业,昂首挺颈,光彩焕发,如同群牛之主的公牛。
5.1.3
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः।
धीरः सलिलकल्पेषु विचचार यथासुखम् ॥ ५.१.३ ॥
于是,那位大力而坚毅的(哈奴曼)在颜色如青金石、宛如水面的草地上,随意漫游。
5.1.4
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्।
मृगांश्च सुबहून् निघ्नन् प्रवृद्ध इव केसरी ॥ ५.१.४ ॥
惊吓鸟类,以胸膛撞倒树木,击杀众多鹿群,这位智者(哈奴曼)如同已壮年的狮子般漫游。
5.1.5
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः।
स्वभावसिद्धैर्विमलैर्धातुभिः समलंकृतम् ॥ ५.१.५ ॥
以天然生成的纯净矿石装饰得十分美丽,颜色有蓝、红、茜红、莲花色,以及白色与黑色。
5.1.6
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः।
यक्षकिंनरगन्धर्वैर्देवकल्पैः सपन्नगैः ॥ ५.१.६ ॥
时常有能随意变化形貌的夜叉、紧那罗、乾闼婆,与他们的眷属同住,他们如天神一般,还有蛇种(那伽)同在。
5.1.7
स तस्य गिरिवर्यस्य तले नागवरायुते।
तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ ५.१.७ ॥
这位猴中之最站在那座群蛇环绕的名山脚下,如湖中之蛇般熠熠生辉。
5.1.8
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे।
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ५.१.८ ॥
他向太阳、摩亨陀罗、风神、自生者以及一切众生行合掌礼,随后决意启程。
5.1.9
अञ्जलिं प्राङ्मुखं कुर्वन् पवनायात्मयोनये।
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ५.१.९ ॥
他面向东方,向风神与自生者行合掌礼,于是满怀热切,欲向南方而去。
5.1.10
प्लवगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः।
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ ५.१.१० ॥
他被跳跃者中的优秀者注视,决意跃起,为了罗摩的利益,他如满月时的大海般涨大。
5.1.11
निष्प्रमाणशरीरः सँल्लिलङ्घयिषुरर्णवम्।
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ ५.१.११ ॥
他身躯无限巨大,想要跨越大海,便用双臂和双脚压向山岳。
5.1.12
स चचालाचलश्चाशु मुहूर्तं कपिपीडितः।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ ५.१.१२ ॥
那座不动的山岳被猴子压迫,片刻间便震动起来,把开花树梢上的所有花朵都抖落了。
5.1.13
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना।
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥ ५.१.१३ ॥
树上落下的芬芳花雨从四面覆盖了山岭,山峰宛如由花朵构成而闪耀。
5.1.14
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः।
सलिलं सम्प्रसुस्राव मदमत्त इव द्विपः ॥ ५.१.१४ ॥
被那至上勇猛的英雄压迫,这座山如同发情的象一般涌出水流。
5.1.15
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥ ५.१.१५ ॥
被那强大者压迫,摩醯因陀罗山显现出金色、黛黑与银色的纹路。
5.1.16
मुमोच च शिलाः शैलो विशालाः समनःशिलाः।
मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ ५.१.१६ ॥
山岭崩落了巨大的岩石与雄黄,如同中等火焰的烈火吐出一道道烟柱。
5.1.17
हरिणा पीड्यमानेन पीड्यमानानि सर्वतः।
गुहाविष्टानि सत्त्वानि विनेदुर्विकृतैः स्वरैः ॥ ५.१.१७ ॥
猴子从四面压迫山岭,洞中栖息的众生便以变形的声音哀鸣。
5.1.18
स महान् सत्त्वसन्नादः शैलपीडानिमित्तजः।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ ५.१.१८ ॥
山岭之苦所引发的那片众生巨响,充满了大地、四方与园林。
5.1.19
शिरोभिः पृथुभिर्नागा व्यक्तस्वस्तिकलक्षणैः।
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥ ५.१.१९ ॥
这些头颅宽大、带有清晰卍字吉祥纹的蛇,吐出可怕的火焰,用獠牙啃咬岩石。
5.1.20
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः।
जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ ५.१.२० ॥
于是,那些巨石被愤怒的毒蛇以毒液咬噬,被火焰点燃而燃烧,并碎裂成千块。
5.1.21
यानि त्वौषधजालानि तस्मिञ्जातानि पर्वते।
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥ ५.१.२१ ॥
即便生长在那座山上、能解蛇毒的各种药草,也无法平息这毒性。
5.1.22
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः।
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥ ५.१.२२ ॥
他们以为:“这座山正被鬼怪劈开。”于是惊恐的苦行者和毗陀罗们,携同妻子和侍女群,从那里飞腾而起。
5.1.23
पानभूमिगतं हित्वा हैममासवभाजनम्।
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ ५.१.२३ ॥
舍弃了躺在饮宴之处的金制酒器、贵重的器皿和金瓶。
5.1.24
लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च।
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ ५.१.२४ ॥
可舔食的各种精美与粗陋的食物、各种肉类、牛皮袋,以及带金鞘的刀剑。
5.1.25
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः।
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ ५.१.२५ ॥
颈上挂着花环,醉意微醺,佩戴红色花环、涂抹红色香膏,红眼与莲花眼的女子们升向天空。
5.1.26
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः।
विस्मिताः सस्मितास्तस्थुराकाशे रमणौः सह ॥ ५.१.२६ ॥
身戴项链、脚环、臂钏等饰物的女子们,惊讶而含笑,与她们的情人一同立于空中。
5.1.27
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः।
सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम् ॥ ५.१.२७ ॥
展示大神通的毗底耶陀罗大仙们一同立于空中,凝望着那座山。
5.1.28
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम्।
चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ ५.१.२८ ॥
这时,他们听到了立于澄澈天空中的净心仙人、遮罗那和悉陀的声音。
5.1.29
एष पर्वतसंकाशो हनुमान् मारुतात्मजः।
तितीर्षति महावेगः समुद्रं वरुणालयम् ॥ ५.१.२९ ॥
这位形如山岳的风之子哈努曼,以极大的速度,欲渡过水神伐楼那所居的大海。
5.1.30
रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ ५.१.३० ॥
他为罗摩和众猴而欲行艰难之事,想要抵达那难以到达的大海彼岸。
5.1.31
तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ५.१.३१ ॥
他们在山上看见了那位无量的猴中之牛。
5.1.32
दुधुवे च स रोमाणि चकम्पे चानलोपमः।
ननाद च महानादं सुमहानिव तोयदः ॥ ५.१.३२ ॥
他抖动身上的毛,如火般颤动,并像雨云一样发出巨大的吼声。
5.1.33
आनुपूर्व्या च वृत्तं तल्लाङ्गूलं रोमभिश्चितम्।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥ ५.१.३३ ॥
他那圆润、覆满毛发的尾巴,在将要跃起时甩了出去,如同鸟王甩动毒蛇。
5.1.34
तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः।
ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ ५.१.३४ ॥
在那位疾速者身后,他伸展的尾巴看起来像被迦楼罗抓走的大蛇。
5.1.35
बाहू संस्तम्भयामास महापरिघसंनिभौ।
आससाद कपिः कट्यां चरणौ संचुकोच च ॥ ५.१.३५ ॥
猴子绷紧了如巨大铁闩般的双臂,压住腰部,并收拢双脚。
5.1.36
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम्।
तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ५.१.३६ ॥
他收回双臂与脖颈,这位光辉而勇猛的英雄进入了光芒、内在力量与勇气之中。
5.1.37
मार्गमालोकयन् दूरादूर्ध्वप्रणिहितेक्षणः।
रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ५.१.३७ ॥
他远望前路,目光向上凝视,一边仰望天空,一边在心中屏住了气息。
5.1.38
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः।
निकुच्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ॥ ५.१.३८ ॥
他双脚稳稳站定,这位猴中象、大力的哈奴曼收拢双耳,准备向上跃起。
5.1.39
वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्।
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ॥ ५.१.३९ ॥
猴中最优者对众猴说了这些话:正如罗怙之子放出的箭以风之迅疾飞驰,
5.1.40
गच्छेत् तद्वद् गमिष्यामि लंकां रावणपालिताम्।
नहि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम् ॥ ५.१.४० ॥
同样地,我将前往罗波那所守护的楞伽。若我在楞伽见不到遮那伽之女,
5.1.41
अनेनैव हि वेगेन गमिष्यामि सुरालयम्।
यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः ॥ ५.१.४१ ॥
我将以同样的速度前往诸神的居所;若我尽力之后仍在天界见不到悉多,
5.1.42
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्।
सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ॥ ५.१.४२ ॥
我将把罗刹王罗波那捆绑带来。我会在各方面完成使命,与悉多一同归来。
5.1.43
आनयिष्यामि वा लंकां समुत्पाट्य सरावणाम्।
एवमुक्त्वा तु हनुमान् वानरो वानरोत्तमः ॥ ५.१.४३ ॥
“我要连同罗波那一起拔起楞伽而带来,或者……”如此说罢,猴中最优者哈奴曼——
5.1.44
उत्पपाताथ वेगेन वेगवानविचारयन्।
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ५.१.४४ ॥
迅捷的哈奴曼毫不迟疑地奋力跃起,那猴中之象便觉得自己如同迦楼罗一般。
5.1.45
समुत्पतति वेगात् तु वेगात् ते नगरोहिणः।
संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥ ५.१.४५ ॥
他疾速升起时,那些生长在山上的树木收拢了所有枝条,从四面八方升起。
5.1.46
स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः।
उद्वहन्नुरुवेगेन जगाम विमलेऽम्बरे ॥ ५.१.४६ ॥
他托着那些满开花朵、有醉意的杜鹃鸟的树木,以极快的速度飞入晴朗的天空。
5.1.47
ऊरुवेगोत्थिता वृक्षा मुहूर्तं कपिमन्वयुः।
प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ५.१.४७ ॥
被他双腿之力带起的树木,片刻间跟随着那只猴子,如同亲属跟随踏上远行的亲人。
5.1.48
तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः।
अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ५.१.४८ ॥
被他双腿之力拔起的娑罗树及其他上好的山木,也跟随哈奴曼,如同军队跟随国王。
5.1.49
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः।
हनूमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥ ५.१.४९ ॥
被许多顶端盛开鲜花的树木环绕,哈努曼变得如山岳般庞大,令人惊异。
5.1.50
सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि।
भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ ५.१.५० ॥
连那些坚实的树木也沉入了咸水之中,仿佛群山因畏惧摩亨德拉而沉入伐楼那的居所。
5.1.51
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः।
शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥ ५.१.५१ ॥
这只猴子被各色花朵、嫩芽和花蕾所覆盖,光彩照人,如云似雾,又如饰满萤火虫的山岳。
5.1.52
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः।
व्यवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥ ५.१.५२ ॥
那些树木被他的疾速所震落,松开了花朵,花朵纷纷坠入水中,仿佛归去的朋友各自离散。
5.1.53
लघुत्वेनोपपन्नं तद् विचित्रं सागरेऽपतत्।
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्।
ताराचितमिवाकाशं प्रबभौ स महार्णवः ॥ ५.१.५३ ॥
由于轻盈,那些被猴子和风吹动的、五彩缤纷的树木之花落入大海;那浩瀚的大海闪耀,仿佛缀满星辰的天空。
5.1.54
पुष्पौघेण सुगन्धेन नानावर्णेन वानरः।
बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः ॥ ५.१.५४ ॥
这只猴子披着一大堆芬芳五彩的花朵,光彩夺目,犹如升起的云彩,缀满一群闪电。
5.1.55
तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत।
ताराभिरिव रामाभिरुदिताभिरिवाम्बरम् ॥ ५.१.५५ ॥
被他速度所激起的花朵覆盖的水面显现出来,仿佛天空中升起了星辰与美人。
5.1.56
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ।
पर्वताग्राद् विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ५.१.५६ ॥
他在空中伸展的双臂,看上去如同从山顶探出的两条五头毒蛇。
5.1.57
पिबन्निव बभौ चापि सोर्मिजालं महार्णवम्।
पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५.१.५७ ॥
大海连同它的波浪之网,仿佛在饮水;而那位大猴子则像口渴的人,似要饮尽天空。
5.1.58
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः।
नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ५.१.५८ ॥
他的眼睛如闪电之光,随风而行,亮如立于山上的两团火焰。
5.1.59
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले।
चक्षुषी सम्प्रकाशेते चन्द्रसूर्याविव स्थितौ ॥ ५.१.५९ ॥
那位黄眼之首的大而圆的黄褐色双眸,闪耀如静立的日月。
5.1.60
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ।
संध्यया समभिस्पृष्टं यथा स्यात् सूर्यमण्डलम् ॥ ५.१.६० ॥
他的脸因红色的鼻子而变得通红,宛如被暮色所触的日轮。
5.1.61
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते।
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम् ॥ ५.१.६१ ॥
风神之子跃起时高高扬起的尾巴,在空中如同因陀罗的旗帜般闪耀。
5.1.62
लाङ्गूलचक्रो हनुमान् शुक्लदंष्ट्रोऽनिलात्मजः।
व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥ ५.१.६२ ॥
大智慧的风神之子哈努曼,尾巴如轮般旋转,白牙闪耀,犹如太阳周围的光环。
5.1.63
स्फिग्देशेनातिताम्रेण रराज स महाकपिः।
महता दारितेनेव गिरिर्गैरिकधातुना ॥ ५.१.६३ ॥
那大猴的臀部通红,闪耀如同被赭石矿物劈开的大山。
5.1.64
तस्य वानरसिंहस्य प्लवमानस्य सागरम्।
कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ५.१.६४ ॥
那群猴中的雄狮跃过大海,腋下困住的风如云般轰鸣。
5.1.65
खे यथा निपतत्युल्का उत्तरान्ताद् विनिःसृता।
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ ५.१.६५ ॥
犹如从北方天边坠落的流星,拖着长尾可见,那群猴中的象王便这样显现。
5.1.66
पतत्पतङ्गसंकाशो व्यायतः शुशुभे कपिः।
प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ॥ ५.१.६६ ॥
像飞鸟般伸展的大猴,闪耀如同被腰带束缚的成年大象。
5.1.67
उपरिष्टाच्छरीरेण च्छायया चावगाढया।
सागरे मारुताविष्टा नौरिवासीत् तदा कपिः ॥ ५.१.६७ ॥
此时,那猴子以身体和影子在上、又浸入海中,宛如被风所卷的船。
5.1.68
यं यं देशं समुद्रस्य जगाम स महाकपिः।
स तु तस्याङ्गवेगेन सोन्माद इव लक्ष्यते ॥ ५.१.६८ ॥
大猴子在海上所经之处,凭借肢体的速度,他看起来如同癫狂一般。
5.1.69
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्।
अभिध्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ५.१.६९ ॥
以胸膛冲击那如山般巨大的海浪之网,这位速度极快的大猴子跃身而起。
5.1.70
कपिवातश्च बलवान् मेघवातश्च निर्गतः।
सागरं भीमनिर्ह्रादं कम्पयामासतुर्भृशम् ॥ ५.१.७० ॥
猴子的强风与从云中升起的风同时而起,极大地撼动了发出可怕轰鸣的大海。
5.1.71
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि।
पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥ ५.१.७१ ॥
在咸水中拨开巨大的波浪之网,仿佛要散开天地一般,猴中之虎跃起。
5.1.72
मेरुमन्दरसंकाशानुद्गतान् सुमहार्णवे।
अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥ ५.१.७२ ॥
如同数点着在大海中如妙高山、曼陀罗山般高耸的波涛,那速度极快的猴子越过了它们。
5.1.73
तस्य वेगसमुद्घुष्टं जलं सजलदं तदा।
अम्बरस्थं विबभ्राजे शरदभ्रमिवाततम् ॥ ५.१.७३ ॥
被他的速度激起轰鸣的水,与云彩一同在空中闪耀,如同铺展开的秋云。
5.1.74
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा।
वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ५.१.७४ ॥
那时鱼、鳄鱼、摩伽罗和龟显露出来,仿佛有了形体的众生被脱去衣裳,身体袒露在外。
5.1.75
क्रममाणं समीक्ष्याथ भुजगाः सागरंगमाः।
व्योम्नि तं कपिशार्दूलं सुपर्णमिव मेनिरे ॥ ५.१.७५ ॥
住在海中的蛇见那猴中猛虎在空中前行,便以为他是迦楼罗。
5.1.76
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता।
छाया वानरसिंहस्य जवे चारुतराभवत् ॥ ५.१.७६ ॥
这猴中雄狮的影子,宽十由旬,长三十由旬,随着他的疾速变得更加美丽。
5.1.77
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी।
तस्य सा शुशुभे छाया पतिता लवणाम्भसि ॥ ५.१.७७ ॥
那影子如白云与浓云之行列,追随风之子,落在咸水之上,光彩照人。
5.1.78
शुशुभे स महातेजा महाकायो महाकपिः।
वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ ५.१.७८ ॥
那位光辉赫赫、身躯巨大的大猴,在风道之中无所依托地闪耀,宛如长翅的山岳。
5.1.79
येनासौ याति बलवान् वेगेन कपिकुञ्जरः।
तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥ ५.१.७९ ॥
那位强大的猴中象疾速飞行的路径上,大海仿佛骤然被压成了一道凹槽。
5.1.80
आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन्।
हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥ ५.१.८० ॥
哈奴曼如同鸟王扑向鸟群般飞行,又如风卷动云网般牵引着云层。
5.1.81
पाण्डुरारुणवर्णानि नीलमञ्जिष्ठकानि च।
कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ५.१.८१ ॥
那些白中泛红、青中带茜红色的巨大云层,被猴子牵引着,闪闪发光。
5.1.82
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव दृश्यते ॥ ५.१.८२ ॥
他一次又一次地进入云网又穿出,看上去就像月亮时而隐没、时而显现。
5.1.83
प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा।
ववृषुस्तत्र पुष्पाणि देवगन्धर्वचारणाः ॥ ५.१.८३ ॥
那时,诸天神、乾闼婆与飞行者见那猴子疾速跃行,便在那里降下花雨。
5.1.84
तताप नहि तं सूर्यः प्लवन्तं वानरेश्वरम्।
सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ ५.१.८४ ॥
太阳并未灼烧那跃行的猴王,那时风也为了完成罗摩的使命而侍奉他。
5.1.85
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा।
जगुश्च देवगन्धर्वाः प्रशंसन्तो वनौकसम् ॥ ५.१.८५ ॥
诸仙人赞颂他在空中跳跃飞行,诸天神与乾闼婆歌唱,称扬这位林中居者。
5.1.86
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विविधानि च।
प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ ५.१.८६ ॥
诸龙、夜叉及各种罗刹见这位猴中之最突然不再疲倦,都纷纷赞颂。
5.1.87
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति।
इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ५.१.८७ ॥
当猴中猛虎哈努曼跳跃飞行时,大海为了维护甘蔗王族的荣誉而思量起来。
5.1.88
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः।
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ ५.१.८८ ॥
若我不助猴王哈努曼,我必受所有议论者的非议。
5.1.89
अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः।
इक्ष्वाकुसचिवश्चायं तन्नार्हत्यवसादितुम् ॥ ५.१.८९ ॥
我由甘蔗王之主萨加拉养育长大,而此人是甘蔗王族的大臣;因此不应使他陷于困苦。
5.1.90
तथा मया विधातव्यं विश्रमेत यथा कपिः।
शेषं च मयि विश्रान्तः सुखी सोऽतितरिष्यति ॥ ५.१.९० ॥
因此我应当使这猴子得以休息;他在我身上歇息之后,便会欢欣地渡过剩下的路程。
5.1.91
हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ५.१.९१ ॥
他对金峰的弥那迦、山中最尊者说道。
5.1.92
त्वमिहासुरसङ्घानां देवराज्ञा महात्मना।
पातालनिलयानां हि परिघः संनिवेशितः ॥ ५.१.९२ ॥
这里,为了居住在地下的阿修罗众,大心的天神之王把你设为门闩。
5.1.93
त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम्।
पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ५.१.९३ ॥
你站立着,堵住地下无量之门,阻挡这些勇名已知、将再次升起的人。
5.1.94
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम्।
तस्मात् संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ॥ ५.१.९४ ॥
山啊,你的力量在于横向、向上和向下生长。因此我催促你:起来吧,山中最尊者。
5.1.95
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्।
हनूमान् रामकार्यार्थी भीमकर्मा खमाप्लुतः ॥ ५.१.९५ ॥
那位勇猛的猴中虎罗摩那(Hanumān),为罗摩之事而来,作可畏之业,在空中跳跃,从你的上空经过。
5.1.96
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः।
मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ ५.१.९६ ॥
我当帮助这位属于甘蔗王(Ikṣvāku)族的人。对我来说甘蔗王族可敬,而对你来说他们最为可敬。
5.1.97
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत्।
कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ ५.१.९७ ॥
请为我们效劳,不要使我们的事务被忽视。应做之事若未做,连善人也会生出怒意。
5.1.98
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि।
अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥ ५.१.९८ ॥
从水中升起吧;让这只猴子在你身上歇息。他是我们的客人,值得尊敬,是跳跃者中最优秀的。
5.1.99
चामीकरमहानाभ देवगन्धर्वसेवित।
हनूमाँस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ॥ ५.१.९९ ॥
金色山脐的你,受诸天神与乾闼婆供奉!哈努曼在你身上歇息之后,将继续前行余下的路程。
5.1.100
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्।
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ ५.१.१०० ॥
念及罗摩的仁慈、迈提利(悉多)的流放,以及跳跃者之王的疲惫,你应当起身。
5.1.101
हिरण्यगर्भो मैनाको निशम्य लवणाम्भसः।
उत्पपात जलात् तूर्णं महाद्रुमलतावृतः ॥ ५.१.१०१ ॥
金胎的弥那迦听到咸海之言,身上覆满大树与藤蔓,立刻从水中腾起。
5.1.102
स सागरजलं भित्त्वा बभूवात्युच्छ्रितस्तदा।
यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ ५.१.१०२ ॥
他穿破海水,便高高耸起,如同光芒四射的太阳穿破云层。
5.1.103
स महात्मा मुहूर्तेन पर्वतः सलिलावृतः।
दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ ५.१.१०३ ॥
这座心胸宽广的山,转瞬间被海水包围,受大海之命,显露出它的山峰。
5.1.104
शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः।
आदित्योदयसंकाशैरुल्लिखद्भिरिवाम्बरम् ॥ ५.१.१०४ ॥
金色的山峰,与紧那罗和大蛇相伴,如同初升的太阳,仿佛触碰着天空。
5.1.105
तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः।
आकाशं शस्त्रसंकाशमभवत् काञ्चनप्रभम् ॥ ५.१.१०५ ॥
那山上升起的瞻部那陀金峰,使天空如兵器一般,闪耀着金色光辉。
5.1.106
जातरूपमयैः शृङ्गैर्भ्राजमानैर्महाप्रभैः।
आदित्यशतसंकाशः सोऽभवद् गिरिसत्तमः ॥ ५.१.१०६ ॥
那山以其金色、闪耀、光辉巨大的山峰,成为山中之最,如同百个太阳。
5.1.107
समुत्थितमसङ्गेन हनूमानग्रतः स्थितम्।
मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ ५.१.१०७ ॥
哈奴曼断定,那座突然升起、毫无阻碍地挡在面前的山,乃是咸水海中间的障碍。
5.1.108
स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः।
उरसा पातयामास जीमूतमिव मारुतः ॥ ५.१.१०८ ॥
那位速度极快的大猴,以胸膛撞倒了那座极高的山,犹如风吹倒云朵。
5.1.109
स तदासादितस्तेन कपिना पर्वतोत्तमः।
बुद्ध्वा तस्य हरेर्वेगं जहर्ष च ननाद च ॥ ५.१.१०९ ॥
那座高大的山被那只猴子触到,感知到他的速度,欣喜而吼叫。
5.1.110
तमाकाशगतं वीरमाकाशे समुपस्थितः।
प्रीतो हृष्टमना वाक्यमब्रवीत् पर्वतः कपिम् ॥ ५.१.११० ॥
山来到那位在空中行进的英雄身边,心中欢喜,对那只猴子说了这些话。
5.1.111
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः।
दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम ॥ ५.१.१११ ॥
你显现人形,站在我的山峰上,最优秀的猴子啊,你完成了这项艰难的壮举。
5.1.112
निपत्य मम शृङ्गेषु सुखं विश्रम्य गम्यताम्।
राघवस्य कुले जातैरुदधिः परिवर्धितः ॥ ५.१.११२ ॥
请降落在我的峰顶,安然休息后再前行吧;大海曾由生于罗伽婆家族的人所培育。
5.1.113
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः।
कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ॥ ५.१.११३ ॥
大海以敬意回报你,你为罗摩的福祉而效力;施恩应当报答,这就是永恒的法。
5.1.114
सोऽयं तत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति।
त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः ॥ ५.१.११४ ॥
他想要报答此事,应当受到你的敬重;因你的缘故,我出于极大的敬意而受其驱使。
5.1.115
योजनानां शतं चापि कपिरेष खमाप्लुतः।
तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ॥ ५.१.११५ ॥
此猴跃过天空百由旬,在你的峰顶歇息之后,且让他继续余下的路程。
5.1.116
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्।
तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु ॥ ५.१.११६ ॥
猴中之虎啊,你且留此,在我这里歇息后再走。这里有许多芳香美味的块根、草根和果实。
5.1.117
तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽथ गमिष्यसि।
अस्माकमपि सम्बन्धः कपिमुख्य त्वयास्ति वै।
प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ ५.१.११७ ॥
猴中之最啊,尝过这些、歇息之后,你再动身吧。猴中之首啊,我们与你也有亲缘;你在三界闻名,具有大德。
5.1.118
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज।
तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ ५.१.११८ ॥
风神之子啊,在那些迅捷跳跃的猴群中,猴中之象啊,我认为你是他们中最杰出的。
5.1.119
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता।
धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् ॥ ५.१.११९ ॥
知法之人应当尊敬客人,即便是寻常之人;何况像你这样的人呢!
5.1.120
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः।
पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ ५.१.१२० ॥
你是天神中最杰出的、大心的摩禄多之子。猴中之象啊,论速度,你与他完全相当。
5.1.121
पूजिते त्वयि धर्मज्ञे पूजां प्राप्नोति मारुतः।
तस्मात् त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ ५.१.१२१ ॥
精通法义者啊,你受到尊敬,风神摩噜多也便得到尊敬。因此你值得我敬重。也请听听其中的缘由。
5.1.122
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्।
तेऽपि जग्मुर्दिशः सर्वा गरुडा इव वेगिनः ॥ ५.१.१२२ ॥
很久以前,在圆满时代,亲爱的,山岳变成了飞禽。它们也如金翅鸟一般迅猛,飞向四面八方。
5.1.123
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः।
भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ ५.१.१२३ ॥
当它们飞去之后,诸天众与仙人以及一切众生,因恐惧它们坠落而心生惧怕。
5.1.124
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः।
पक्षांश्चिच्छेद वज्रेण ततः शतसहस्रशः ॥ ५.१.१२४ ॥
于是愤怒的千眼、百祭的因陀罗以金刚杵斩断群山的翅膀,斩了成千上万次。
5.1.125
स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्।
ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ ५.१.१२५ ॥
那位愤怒的天王举起金刚杵向我走来。这时,我被伟大的风神突然抛开。
5.1.126
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम।
गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः ॥ ५.१.१२६ ॥
猴中最优秀的啊,我被抛入这咸水海中。然而我的翅膀受到保护,你的父亲使我得以完好无损。
5.1.127
ततोऽहं मानयामि त्वां मान्योऽसि मम मारुते।
त्वया ममैष सम्बन्धः कपिमुख्य महागुणः ॥ ५.१.१२७ ॥
那时我尊敬你;你值得我敬重,风之子啊。与你的这段情谊,猴中之王啊,具有极大的功德。
5.1.128
अस्मिन् नेवंगते कार्ये सागरस्य ममैव च।
प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महामते ॥ ५.१.१२८ ॥
事已至此,为了大海,也为了我,大智者啊,你应当以喜悦之心表达情意。
5.1.129
श्रमं मोक्षय पूजां च गृहाण हरिसत्तम।
प्रीतिं च मम मान्यस्य प्रीतोऽस्मि तव दर्शनात् ॥ ५.१.१२९ ॥
猴中之最啊,请消除疲劳,接受我的款待;也接受我这受敬重者的情意。见到你,我很欢喜。
5.1.130
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत्।
प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥ ५.१.१३० ॥
如此被招呼后,猴中之首对那山中之最说道:“我很欢喜;款待已经完成。愿这份怒意消散。”
5.1.131
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते।
प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा ॥ ५.१.१३१ ॥
我的任务之时紧迫,白日也在流逝。我已立下誓言,不应在中途停留于此。
5.1.132
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥ ५.१.१३२ ॥
说完这话,他以手触摸那山,那勇猛的猴中之雄便飞入天空,仿佛在笑。
5.1.133
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः।
पूजितश्चोपपन्नाभिराशीर्भिरभिनन्दितः ॥ ५.१.१३३ ॥
山与海都以极大的敬意注视着他;他受到恰当的祝福,被敬重并获得祝贺。
5.1.134
अथोर्ध्वं दूरमागत्य हित्वा शैलमहार्णवौ।
पितुः पन्थानमासाद्य जगाम विमलेऽम्बरे ॥ ५.१.१३४ ॥
随后他向上飞得很远,抛下山与大海,抵达父亲的道路,在澄澈的天空中前行。
5.1.135
भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन्।
वायुसूनुर्निरालम्बो जगाम कपिकुञ्जरः ॥ ५.१.१३५ ॥
他再次获得向上的速度,回望那座山,风之子,无所依凭,猴中之象,继续前行。
5.1.136
तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्।
प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ ५.१.१३६ ॥
众神、成就者与大仙人见到哈奴曼的第二件极为艰难之事,都纷纷赞叹。
5.1.137
देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा।
काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ ५.१.१३७ ॥
在场的众神因他的功业而欢喜,千眼的婆薮与金山、善腹也都欢喜。
5.1.138
उवाच वचनं धीमान् परितोषात् सगद्गदम्।
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ ५.१.१३८ ॥
睿智的舍芝之主,因满心欢喜而声音哽咽,亲自对山中之最的善腹说了这些话。
5.1.139
हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम्।
अभयं ते प्रयच्छामि गच्छ सौम्य यथासुखम् ॥ ५.१.१३९ ॥
哦,金脐,山中之王!我对你十分满意。我赐你无惧。温和的人啊,随意前行吧。
5.1.140
साह्यं कृतं ते सुमहद् विश्रान्तस्य हनूमतः।
क्रमतो योजनशतं निर्भयस्य भये सति ॥ ५.१.१४० ॥
你给予了休息过的哈努曼极大的帮助。他无所畏惧,即使危险在前,仍前行百由旬。
5.1.141
रामस्यैष हितायैव याति दाशरथेः कपिः।
सत्क्रियां कुर्वता शक्त्या तोषितोऽस्मि दृढं त्वया ॥ ५.१.१४१ ॥
这只猴子正是为了十车王之子罗摩的福祉而前行。你以自己的力量尽了敬意,我对你深感满意。
5.1.142
स तत् प्रहर्षमलभद् विपुलं पर्वतोत्तमः।
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ ५.१.१४२ ॥
看见诸神之主舍脂俱胝(因陀罗)深感满意,那座最尊贵的山获得了极大的喜悦。
5.1.143
स वै दत्तवरः शैलो बभूवावस्थितस्तदा।
हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ ५.१.१४३ ॥
那座得到赐福的山便静立原地;哈努曼则在一刹那间横渡了大海。
5.1.144
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम् ॥ ५.१.१४४ ॥
于是诸天神、乾达婆、悉陀和大仙人,对如太阳般光辉的蛇母苏罗萨说道。
5.1.145
अयं वातात्मजः श्रीमान् प्लवते सागरोपरि।
हनूमान् नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ ५.१.१४५ ॥
看哪,那位光荣的风之子正越过大海飞翔。他的名字叫哈努曼。你为他设下片刻的阻碍吧。
5.1.146
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्।
दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् ॥ ५.१.१४६ ॥
化作极其可怖的罗刹之形,如山一般,獠牙狰狞,双目黄赤,张开一张触及天空的大口。
5.1.147
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ ५.१.१४७ ॥
我们还想再次了解他的力量与勇武。他或将以计谋战胜你,或将陷入绝望。
5.1.148
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता।
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ ५.१.१४८ ॥
诸天如此相告,并尊敬她,女神苏罗娑在大海之中化作罗刹之身。
5.1.149
विकृतं च विरूपं च सर्वस्य च भयावहम्।
प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ ५.१.१४९ ॥
她形貌扭曲丑陋,令众生恐惧,拦住跳跃的哈努曼,说了这番话。
5.1.150
मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ।
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ ५.१.१५० ॥
猿中之雄,诸天已将你指定为我的食物。我将吞食你;请进入我的口中。
5.1.151
वर एष पुरा दत्तो मम धात्रेति सत्वरा।
व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ॥ ५.१.१५१ ॥
“这恩赐很久以前便由造物主赐予我”,她说着,迅速张开巨大的口,站在风之子面前。
5.1.152
एवमुक्तः सुरसया प्रहृष्टवदनोऽब्रवीत्।
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ ५.१.१५२ ॥
苏罗萨如此说后,面带喜色的哈努曼答道:“名叫罗摩的人,十车王之子,与其弟罗什曼那及妻子悉多一同进入了檀特迦森林。”
5.1.153
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः।
तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ ५.१.१५३ ॥
当他忙于别的事务,并与罗刹结下仇怨时,他的光荣妻子悉多被罗波那劫走了。
5.1.154
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥ ५.१.१५४ ॥
奉罗摩之命,我将作为使者前去见她。住在此地的女子啊,你应当助罗摩一臂之力。
5.1.155
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ ५.१.१५५ ॥
或者,待我见到摩ithili(悉多)和那轻松成事的罗摩之后,我将回到你的口中——这是我向你许下的真诚誓言。
5.1.156
एवमुक्ता हनुमता सुरसा कामरूपिणी।
अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ ५.१.१५६ ॥
哈努曼如此说后,能随意变化形貌的苏罗萨说:“没有人能越过我,这是我的恩赐。”
5.1.157
तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत्।
बलं जिज्ञासमाना सा नागमाता हनूमतः ॥ ५.१.१५७ ॥
看见他前行,蛇母苏罗萨想要了解哈努曼的力量,便说了这番话。
5.1.158
निविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम।
वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥ ५.१.१५८ ॥
"猴中之最,今日你必须进入我口中才能离去;这一恩赐早年由创造者赐予了我。"她急忙说道。
5.1.159
व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेःपुरः।
एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः ॥ ५.१.१५९ ॥
她张开巨大的口,站在风神之子面前。苏罗萨这样说了,猴中之首便愤怒起来。
5.1.160
अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसि।
इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायताम् ॥ ५.१.१६० ॥
"你把口张大些,好让你能承受我。"他说,接着怒气冲冲地对苏罗萨说话,身形长到十由旬。
5.1.161
दशयोजनविस्तारो हनूमानभवत् तदा।
तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्।
चकार सुरसाप्यास्यं विंशद् योजनमायतम् ॥ ५.१.१६१ ॥
那时哈努曼身宽十由旬。苏罗萨看见他如云般长十由旬,便也把自己的口张到二十由旬。
5.1.162
हनूमांस्तु ततः क्रुद्धस्त्रिंशद् योजनमायतः।
चकार सुरसा वक्त्रं चत्वारिंशत् तथोच्छ्रितम् ॥ ५.१.१६२ ॥
接着,愤怒的哈努曼长到三十由旬,苏罗萨便把口抬高到四十由旬。
5.1.163
बभूव हनुमान् वीरः पञ्चाशद् योजनोच्छ्रितः।
चकार सुरसा वक्त्रं षष्टिं योजनमुच्छ्रितम् ॥ ५.१.१६३ ॥
英雄哈努曼长到五十由旬高,苏罗萨把她的嘴张到六十由旬高。
5.1.164
तदैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः।
चकार सुरसा वक्त्रमशीतिं योजनोच्छ्रितम् ॥ ५.१.१६४ ॥
就在那一刻,英雄哈努曼长到七十由旬高,苏罗萨把她的嘴张到八十由旬高。
5.1.165
हनूमाननलप्रख्यो नवतिं योजनोच्छ्रितः।
चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ ५.१.१६५ ॥
哈努曼光芒如火,长到九十由旬高,苏罗萨把嘴张开到一百由旬长。
5.1.166
तद् दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान्।
दीर्घजिह्वं सुरसया सुभीमं नरकोपमम् ॥ ५.१.१६६ ॥
智慧的风之子看见苏罗萨张开的大口,长舌,可怖如地狱,于是……
5.1.167
स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः।
तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः ॥ ५.१.१६७ ॥
于是风神之子像一朵云一样收缩了身体,就在那一刻,哈努曼变得只有拇指般大小。
5.1.168
सोऽभिपद्याथ तद्वक्त्रं निष्पत्य च महाबलः।
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ ५.१.१६८ ॥
这位大力者进入那张大口,随后又飞出,立于空中,这位光辉的英雄说出了这番话。
5.1.169
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तुते।
गमिष्ये यत्र वैदेही सत्यश्चासीद् वरस्तव ॥ ५.१.१६९ ॥
我已进入你的口中,达刹之女,向你致敬。我将前往毗提诃公主所在之处,你的赐福已经应验。
5.1.170
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव।
अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम् ॥ ५.१.१७० ॥
她看到他从自己口中出来,如同月亮从罗睺口中脱出,女神苏罗娑便以自己的本相对那只猴子说话。
5.1.171
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्।
समानय च वैदेहीं राघवेण महात्मना ॥ ५.१.१७१ ॥
猴中之最,愿你的目的达成。善良的人啊,欢喜地去吧,把毗提诃公主带回给崇高的罗怙后裔。
5.1.172
तत् तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्।
साधुसाध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ ५.१.१७२ ॥
众生看到哈努曼的第三桩极其艰难的功业,便都说:“善哉,善哉!”于是赞叹那只猴子。
5.1.173
स सागरमनाधृष्यमभ्येत्य वरुणालयम्।
जगामाकाशमाविश्य वेगेन गरुडोपमः ॥ ५.१.१७३ ॥
他来到不可逾越的大海,即伐楼那的居所,进入天空,以如迦楼罗一般的速度疾行而去。
5.1.174
सेविते वारिधाराभिः पतगैश्च निषेविते।
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥ ५.१.१७४ ॥
那天空有水流环绕,群鸟栖息,为迦尸迦师长所行,又为爱罗婆多所常临。
5.1.175
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः।
विमानैः सम्पतद्भिश्च विमलैः समलंकृते ॥ ५.१.१७५ ॥
装饰着纯净飞行的天界车辆,以狮子、大象、老虎、鸟和蛇为坐骑。
5.1.176
वज्राशनिसमस्पर्शैः पावकैरिव शोभिते।
कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरधिष्ठिते ॥ ५.१.१७६ ॥
闪耀如火,触感如金刚与闪电,为积有功德、征服天界的大福之人所居。
5.1.177
वहता हव्यमत्यन्तं सेविते चित्रभानुना।
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥ ५.१.१७७ ॥
为承载供物的吉祥火神(Agni)时常侍奉,以行星、星宿、月亮、太阳和众星装饰。
5.1.178
महर्षिगणगन्धर्वनागयक्षसमाकुले।
विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ ५.१.१७८ ॥
充满众大仙人、乾闼婆、龙与夜叉,幽静、清净、遍布一切,为毗湿伐苏所常至。
5.1.179
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥ ५.१.१७९ ॥
为天神之王的象(Airāvata)所穿越,位于日月之道,吉祥,展开如生类世界的广大华盖,由梵天所造。
5.1.180
बहुशः सेविते वीरैर्विद्याधरगणैर्वृते।
जगाम वायुमार्गे च गरुत्मानिव मारुतिः ॥ ५.१.१८० ॥
屡受勇士与持明众(Vidyādhara)的侍奉与环绕,风神之子摩禄蒂(哈奴曼)沿风之道前行,如同金翅鸟(迦噜陀)。
5.1.181
हनुमान् मेघजालानि प्राकर्षन् मारुतो यथा।
कालागुरुसवर्णानि रक्तपीतसितानि च ॥ ५.१.१८१ ॥
如风拖曳云团一般,哈奴曼牵引着云朵——有黑沉香之色的,也有红、黄、白色的。
5.1.182
कपिना कृष्यमाणानि महाभ्राणि चकाशिरे।
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ॥ ५.१.१८२ ॥
被猴子牵引的大云团闪耀起来。他时而进入云团,时而又一次次从中穿出,显得光彩夺目。
5.1.183
प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशंस्तदा।
प्रदृश्यमानः सर्वत्र हनूमान् मारुतात्मजः ॥ ५.१.१८३ ॥
如同雨季中的月亮,他此时时出时入,光辉闪耀。风之子哈奴曼到处被人看见(就这样显现)。
5.1.184
भेजेऽम्बरं निरालम्बं पक्षयुक्त इवाद्रिराट्।
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ॥ ५.१.१८४ ॥
他在无所依托的天空中前行,宛如长有双翼的山王。看见他飞跃而行,名为辛诃迦的罗刹女(……)
5.1.185
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी।
अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ॥ ५.१.१८५ ॥
这个长得庞大、能随意变化形体的罗刹女辛诃迦心中想道:“今天,隔了很久,我将得到食物了。”
5.1.187
इदं मम महासत्त्वं चिरस्य वशमागतम्।
छायायां गृह्यमाणायां चिन्तयामास वानरः।
समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः ॥ ५.१.१८७ ॥
我这份巨大的力量,隔了很久才又被制服。影子被抓住时,猴子心想:“我突然被拖了下来,我的威力已被削弱成跛足。”
5.1.188
प्रतिलोमेन वातेन महानौरिव सागरे।
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्तदा कपिः ॥ ५.१.१८८ ॥
就像大海中被逆风吹打的大船,那时猴子向两侧、向上向下张望着。
5.1.189
ददर्श स महासत्त्वमुत्थितं लवणाम्भसि।
तद् दृष्ट्वा चिन्तयामास मारुतिर्विकृताननाम् ॥ ५.१.१८९ ॥
他看见那巨大的生灵从咸水中升起;见到它后,风之子思忖着这个面目扭曲的生灵。
5.1.190
कपिराज्ञा यथाख्यातं सत्त्वमद्भुतदर्शनम्।
छायाग्राहि महावीर्यं तदिदं नात्र संशयः ॥ ५.१.१९० ॥
正如猴王所说,这就是那形貌奇异、能捕捉影子、力量强大的生灵,毫无疑问。
5.1.191
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः।
व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ ५.१.१९१ ॥
这聪慧的猴子看透了她的真相,认出了辛醯迦,于是像雨季的云一样让自己的巨大身躯膨胀起来。
5.1.192
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः।
वक्त्रं प्रसारयामास पातालाम्बरसंनिभम् ॥ ५.१.१९२ ॥
她看见大猴的身躯不断膨胀,便张开大口,如同地府与天空一般宽广。
5.1.193
घनराजीव गर्जन्ती वानरं समभिद्रवत्।
स ददर्श ततस्तस्या विकृतं सुमहन्मुखम् ॥ ५.१.१९३ ॥
她像一排咆哮的云朵,向猴子猛扑过来;这时他看见了她那扭曲而巨大的脸。
5.1.194
कायमात्रं च मेधावी मर्माणि च महाकपिः।
स तस्या विकृते वक्त्रे वज्रसंहननः कपिः ॥ ५.१.१९४ ॥
聪慧的大猴只看见她的身体与要害;这如金刚般坚实的猴子(进入了)她那扭曲的口中。
5.1.195
संक्षिप्य मुहुरात्मानं निपपात महाकपिः।
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ॥ ५.१.१९५ ॥
大猴多次收缩自身,落入她的口中;悉达与遮罗那们看见他沉入她的口中。
5.1.196
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा।
ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ॥ ५.१.१९६ ॥
如同满月之日罗睺吞食满月,他(正被吞噬);然后那猴子用锐利的指甲割开她的要害,(脱身而出)。
5.1.197
उत्पपाताथ वेगेन मनःसम्पातविक्रमः।
तां तु दिष्ट्या च धृत्या च दाक्षिण्येन निपात्य सः ॥ ५.१.१९७ ॥
于是他那如心念般迅捷的勇力,疾速跃起;凭借运气、坚毅与技巧,他将她击倒。
5.1.198
कपिप्रवीरो वेगेन ववृधे पुनरात्मवान्।
हृतहृत्सा हनुमता पपात विधुराम्भसि।
स्वयंभुवैव हनुमान् सृष्टस्तस्या निपातने ॥ ५.१.१९८ ॥
猴中之主、自制的他迅速再次长大;被哈奴曼夺走心神,她痛苦地坠入水中。自生者本人正是为了击倒她而创造了哈奴曼。
5.1.199
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्।
भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम् ॥ ५.१.१९९ ॥
空中行走的众生看见被猴子迅速杀死而坠落的辛赫迦,便对那最卓越的跳跃者说话。
5.1.200
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्।
साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ ५.१.२०० ॥
今日你完成了可怕而伟大的功业,以你的勇力杀死了她。跳跃者中最优秀的,无损地完成你所要成就的使命吧。
5.1.201
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव।
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ॥ ५.१.२०१ ॥
猴王啊,凡具备这四种品德——如你一般的坚定、洞察、判断与技能——的人,在行事中不会动摇。
5.1.202
स तैः सम्पूजितः पूज्यः प्रतिपन्नप्रयोजनैः।
जगामाकाशमाविश्य पन्नगाशनवत् कपिः ॥ ५.१.२०२ ॥
众人敬重这位值得尊崇的猴子,他的使命已经达成,于是如食蛇的金翅鸟一般飞入天空而去。
5.1.203
प्राप्तभूयिष्ठपारस्तु सर्वतः परिलोकयन्।
योजनानां शतस्यान्ते वनराजीं ददर्श सः ॥ ५.१.२०३ ॥
他几乎到达彼岸,四面张望,在百由旬的尽头,看见了一排排的森林。
5.1.204
ददर्श च पतन्नेव विविधद्रुमभूषितम्।
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥ ५.१.२०४ ॥
他一边下降,猴子中最优秀者便看见了点缀着各种树木的岛屿,以及马拉亚山的园林。
5.1.205
सागरं सागरानूपान् सागरानूपजान् द्रुमान्।
सागरस्य च पत्नीनां मुखान्यपि विलोकयत् ॥ ५.१.२०५ ॥
他看见了大海、海岸、生长在海岸上的树木,还有大海之妻们的面容。
5.1.206
स महामेघसंकाशं समीक्ष्यात्मानमात्मवान्।
निरुन्धन्तमिवाकाशं चकार मतिमान् मतिम् ॥ ५.१.२०६ ॥
哈奴曼看见自己如同巨大的云团,便自持而明智地定下主意,仿佛要遮挡天空。
5.1.207
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः।
मयि कौतूहलं कुर्युरिति मेने महामतिः ॥ ५.१.२०७ ॥
这位大智者想道:罗刹们只要看见我身形的增长和疾速,便会对我产生好奇。
5.1.208
ततः शरीरं संक्षिप्य तन्महीधरसंनिभम्।
पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ ५.१.२०८ ॥
随后,他把那如山般的身躯收缩,哈奴曼恢复了原本的形貌,宛如摆脱迷惑、自持的人。
5.1.209
तद्रूपमतिसंक्षिप्य हनूमान् प्रकृतौ स्थितः।
त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ॥ ५.१.२०९ ॥
他大大收缩了那形体,哈奴曼恢复本来的状态站立,仿佛那跨出三步、夺去伐厘勇力的诃利(毗湿奴)。
5.1.210
स चारुनानाविधरूपधारी
परं समासाद्य समुद्रतीरम्।
परैरशक्यं प्रतिपन्नरूपः
समीक्षितात्मा समवेक्षितार्थः ॥ ५.१.२१० ॥
他变换着种种美好的形貌,抵达海岸。他采取了他人无法做到的形态,审视自身,并仔细考虑了此行的目的。
5.1.211
ततः स लम्बस्य गिरेः समृद्धे
विचित्रकूटे निपपात कूटे।
सकेतकोद्दालकनारिकेले
महाभ्रकूटप्रतिमो महात्मा ॥ ५.१.२११ ॥
那位大心者,宛如巨大的云峰,降落在兰巴山繁茂奇妙的山峰上,在露兜树、乌达拉卡树与椰子树之间。
5.1.212
ततस्तु सम्प्राप्य समुद्रतीरं
समीक्ष्य लंकां गिरिवर्यमूर्ध्नि।
कपिस्तु तस्मिन् निपपात पर्वते
विधूय रूपं व्यथयन्मृगद्विजान् ॥ ५.१.२१२ ॥
随后,他到达海岸,从那座高峻山峰之顶眺望楞伽城,那猴子便落在那座山上,收缩了身形,惊吓着走兽与飞禽。
5.1.213
स सागरं दानवपन्नगायुतं
बलेन विक्रम्य महोर्मिमालिनम्।
निपत्य तीरे च महोदधेस्तदा
ददर्श लंकाममरावतीमिव ॥ ५.१.२१३ ॥
他以力量跃过那充满檀那婆与龙蛇、披着巨浪花环的大海,降落在大海之滨,于是他看见楞伽城,宛如天界的阿摩罗跋提。