ヴァールミーキのラーマーヤナ · サルガ 5.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.10.1
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्।
अवेक्षमाणो हनुमान् ददर्श शयनासनम् ॥ ५.१०.१ ॥
そこでハヌマーンは辺りを見回し、天界のようで、水晶で宝石に飾られた最上の寝台を見た。
5.10.2
दान्तकाञ्चनचित्रांगैर्वैदूर्यैश्च वरासनैः।
महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ ५.१०.२ ॥
象牙と金で彩られた部分を持ち、ヴァイドゥーリヤの上等な座と非常に貴重な敷物を備え、大きな富に満ちていた。
5.10.3
तस्य चैकतमे देशे दिव्यमालोपशोभितम्।
ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् ॥ ५.१०.३ ॥
その一箇所に、神聖な花輪で飾られ、星々の主のような白い傘が見えた。
5.10.4
जातरूपपरिक्षिप्तं चित्रभानोः समप्रभम्।
अशोकमालाविततं ददर्श परमासनम् ॥ ५.१०.४ ॥
金で囲まれ、彩り豊かな火のように輝き、無憂樹の花環で覆われた至高の座を見た。
5.10.5
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः।
गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ ५.१०.५ ॥
四方から牛尾の払子を手にした者たちが扇ぎ、さまざまな香りに満ち、上等の香で薫じられていた。
5.10.6
परमास्तरणास्तीर्णमाविकाजिनसंवृतम्।
दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ ५.१०.६ ॥
最上の敷物で広げられ、羊皮で覆われ、周囲は上等の花環の紐で飾られていた。
5.10.7
तस्मिञ्जीमूतसंकाशं प्रदीप्तोज्ज्वलकुण्डलम्।
लोहिताक्षं महाबाहुं महारजतवाससम् ॥ ५.१०.७ ॥
そこで彼は見た。雷雲のような姿で、輝く明るい耳飾りをつけ、赤い目をし、強大な腕を持ち、見事な銀色の衣をまとった者を。
5.10.8
लोहितेनानुलिप्तांगं चन्दनेन सुगन्धिना।
संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम् ॥ ५.१०.८ ॥
彼の体は赤い香り高い白檀で塗られていた。空で夕映えに染まり、稲妻を伴う雲のように見えた。
5.10.9
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्।
सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥ ५.१०.९ ॥
神々しい装身具で飾られ、美しい姿で、望みの姿を取ることのできる者。木々や森や茂みに満ちた、眠れるマンダラ山のようであった。
5.10.10
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्।
प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥ ५.१०.१० ॥
夜に遊び戯れて今は休んでいる者。優れた装身具で飾られ、羅刹の乙女たちに愛され、羅刹たちに幸福をもたらす者。
5.10.11
पीत्वाप्युपरतं चापि ददर्श स महाकपिः।
भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ५.१०.११ ॥
飲んでから休んでいたあの大猿は、輝く寝台の上で眠っている勇士、羅刹の王を見た。
5.10.12
निःश्वसन्तं यथा नागं रावणं वानरोत्तमः।
आसाद्य परमोद्विग्नः सोपासर्पत् सुभीतवत् ॥ ५.१०.१२ ॥
象のように荒く息をしているラーヴァナに近づき、猿の中の最良の者は、ひどく動揺し、非常に怯えたかのように、そっと近づいた。
5.10.13
अथारोहणमासाद्य वेदिकान्तरमाश्रितः।
क्षीबं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ ५.१०.१३ ॥
それから高みに登り、台の間に身を寄せて、大猿は酔いしれた羅刹の虎将を見つめた。
5.10.14
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनं शुभम्।
गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ ५.१०.१४ ॥
眠る羅刹王の美しい寝台は、発情した象が横たわったときの大きな滝のように輝いた。
5.10.15
काञ्चनांगदसंनद्धौ ददर्श स महात्मनः।
विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ ५.१०.१५ ॥
その大いなる魂の者は、金の腕輪をはめ、投げ出された羅刹王の両腕を見た。それはインドラの旗のようであった。
5.10.16
ऐरावतविषाणाग्रैरापीडनकृतव्रणौ।
वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ ५.१०.१६ ॥
アイラーヴァタの牙の先で押しつぶされて傷つき、雷杵に擦られた広い肩を持ち、ヴィシュヌの円盤に傷つけられた。
5.10.17
पीनौ समसुजातांसौ संगतौ बलसंयुतौ।
सुलक्षणनखांगुष्ठौ स्वंगुलीयकलक्षितौ ॥ ५.१०.१७ ॥
逞しく、肩は均整がとれ、よく結ばれ、力に満ち、吉相の爪と親指を持ち、自分の指輪で印されている。
5.10.18
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ।
विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥ ५.१०.१८ ॥
堅固で鉄棒の形をし、丸く、象の鼻のようであり、白い寝台に投げ出され、まるで二匹の五頭の蛇のようであった。
5.10.19
शशक्षतजकल्पेन सुशीतेन सुगन्धिना।
चन्दनेन परार्घ्येन स्वनुलिप्तौ स्वलंकृतौ ॥ ५.१०.१९ ॥
兎の血のようで、非常に冷たく芳香があり、最上の貴重な白檀で十分に塗られ、美しく飾られた(その二本の腕)。
5.10.20
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ।
यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥ ५.१०.२० ॥
優れた女性たちに揉まれ、最上の香りに親しみ、夜叉・蛇・ガンダルヴァ・神々・ダーナヴァを泣かせた(その二本の腕)。
5.10.21
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ।
मन्दरस्यान्तरे सुप्तौ महाही रुषिताविव ॥ ५.१०.२१ ॥
その猿は、寝台に横たわる彼の二本の腕を見た。マンダラ山の中で眠る、怒れる二匹の大蛇のようであった。
5.10.22
ताभ्यां स परिपूर्णाभ्यामुभाभ्यां राक्षसेश्वरः।
शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः ॥ ५.१०.२२ ॥
その充実した二本の腕によって、羅刹王は山のように輝いていた。あたかもマンダラ山が二つの峰で輝くように。
5.10.23
चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः।
मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः ॥ ५.१०.२३ ॥
マンゴーとプンナーガの木の芳香に満ち、上等のバクラの花に彩られ、美味な食べ物の味わいが混じり、飲み物の香りが先立っていた(それがその館の雰囲気であった)。
5.10.24
तस्य राक्षसराजस्य निश्चक्राम महामुखात्।
शयानस्य विनिःश्वासः पूरयन्निव तद् गृहम् ॥ ५.१०.२४ ॥
眠っているその羅刹王の大きな口から息が漏れ出た。まるでその館全体を満たすかのようであった。
5.10.25
मुक्तामणिविचित्रेण काञ्चनेन विराजिता।
मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ ५.१०.२५ ॥
真珠と宝玉で美しく飾られた金の冠に輝き、傾いた冠と耳飾りに照らされた顔を持つ。
5.10.26
रक्तचन्दनदिग्धेन तथा हारेण शोभिना।
पीनायतविशालेन वक्षसाभिविराजिता ॥ ५.१०.२६ ॥
赤い白檀を塗り、輝く首飾りを身につけ、厚く広く豊かな胸に輝く。
5.10.27
पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम्।
महार्हेण सुसंवीतं पीतेनोत्तरवाससा ॥ ५.१०.२७ ॥
淡い色の、ゆるく巻かれた高価な絹の衣と黄色い上衣にすっぽりと包まれ、目は赤く充血していた。
5.10.28
माषराशिप्रतीकाशं निःश्वसन्तं भुजंगवत्।
गांगे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ ५.१०.२८ ॥
黒豆の山のように黒く、蛇のように息を吐き、大ガンジス川の岸辺で眠る象のようであった。
5.10.29
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानं चतुर्दिशम्।
प्रकाशीकृतसर्वांगं मेघं विद्युद्गणैरिव ॥ ५.१०.२९ ॥
四つの金の灯火が四方を照らし、全身が輝き、稲妻の群れに照らされた雲のようであった。
5.10.30
पादमूलगताश्चापि ददर्श सुमहात्मनः।
पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥ ५.१०.३० ॥
その偉大な羅刹王の館で、足元に座る愛しい妃たちをも彼は見た。
5.10.31
शशिप्रकाशवदना वरकुण्डलभूषणाः।
अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ ५.१०.३१ ॥
猿の群れの長ハヌマーンは、月のような顔をし、見事な耳飾りで飾られ、萎れることのない花環と装身具を着けた女たちを見た。
5.10.32
नृत्यवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः।
वराभरणधारिण्यो निषण्णा ददृशे कपिः ॥ ५.१०.३२ ॥
猿は、踊りと楽器に長けた女たちが、羅刹王の腕に身を預けたり、見事な装身具を着けて座っているのを見た。
5.10.33
वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम्।
ददर्श तापनीयानि कुण्डलान्यंगदानि च ॥ ५.१०.३३ ॥
女たちの耳の先には、ダイヤモンドと青玉を象嵌した精錬金の耳飾りと腕輪があった。
5.10.34
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः।
विरराज विमानं तन्नभस्तारागणैरिव ॥ ५.१०.३४ ॥
月のように美しい顔と優雅な耳飾りを持つ彼女たちによって、その宮殿は星々に満ちた空のように輝いた。
5.10.35
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः।
तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥ ५.१०.३५ ॥
羅刹王の細い腰の女たちは、酒と遊戯に疲れ、あちこちで眠り込んでいた。
5.10.36
अंगहारैस्तथैवान्या कोमलैर्नृत्यशालिनी।
विन्यस्तशुभसर्वांगी प्रसुप्ता वरवर्णिनी ॥ ५.१०.३६ ॥
また別の一人は、柔らかな身のこなしで舞に長け、美しい四肢を伸ばして眠っていた。色白で優れた容姿の女であった。
5.10.37
काचिद् वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते।
महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ५.१०.३७ ॥
一人の女性はヴィーナーを抱きしめて眠り、大河に流されて舟にすがる蓮の蔓のように輝いていた。
5.10.38
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा।
प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ ५.१०.३८ ॥
別の黒い瞳の美女は、マッドゥカという小さな太鼓を脇に挟んで眠り、幼い息子と眠る慈しみ深い母のように輝いていた。
5.10.39
पटहं चारुसर्वांगी न्यस्य शेते शुभस्तनी।
चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी ॥ ५.१०.३९ ॥
手足の美しい、胸の麗しい女性が太鼓を置いて眠っていた。長い間を経て恋人を得て抱きしめる恋人のように。
5.10.40
काचिद् वीणां परिष्वज्य सुप्ता कमललोचना।
वरं प्रियतमं गृह्य सकामेव हि कामिनी ॥ ५.१०.४० ॥
蓮の目の女性はリュートを抱きしめて眠っていた。最愛の恋人を得て満ち足りた恋人のように。
5.10.41
विपञ्चीं परिगृह्यान्या नियता नृत्यशालिनी।
निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥ ५.१०.४१ ॥
別の、自制心があり舞踊に長けた女性はヴィパンチーの琴を握ったまま眠りに落ちた。恋人と共に眠る美女のように。
5.10.42
अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः।
मृदंगं परिविद्ध्यांगैः प्रसुप्ता मत्तलोचना ॥ ५.१०.४२ ॥
酔ったような瞳の別の女性は、黄金色で柔らかく豊かで魅力的な四肢でムリダンガを押さえて眠っていた。
5.10.43
भुजपाशान्तरस्थेन कक्षगेन कृशोदरी।
पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥ ५.१०.४३ ॥
縄のような腕の間に、脇に小太鼓を挟み、細い腰の非の打ち所のない女は、酩酊の疲れにまどろんでいた。
5.10.44
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा।
प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी ॥ ५.१०.४४ ॥
別の女は太鼓を握り、同じようにそれに寄りかかっていた。その情熱的な女は、若い子牛を抱きかかえるように眠っていた。
5.10.45
काचिदाडम्बरं नारी भुजसम्भोगपीडितम्।
कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ ५.१०.४५ ॥
蓮の花びらのような目をした或る女は、腕の抱擁に押されて騒ぎを立て、酔いに惑わされて眠っていた。
5.10.46
कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी।
वसन्ते पुष्पशबला मालेव परिमार्जिता ॥ ५.१०.४६ ॥
別の女は水瓶を投げ捨てて眠っていた。その情熱的な女は、春に花で彩られた花輪のように、整えられたかのように輝いていた。
5.10.47
पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ।
उपगुह्याबला सुप्ता निद्राबलपराजिता ॥ ५.१०.४७ ॥
ある女は両手で金の壺のような乳房を抱えて眠っていた。その弱々しい女は、睡魔の力に打ち負かされていた。
5.10.48
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना।
अन्यामालिंग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥ ५.१०.४८ ॥
別の女は、蓮の花びらのような目と満月のような顔を持ち、もう一人の美しい腰の女を抱きしめて、酔いに朦朧として眠っていた。
5.10.49
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः।
निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ ५.१०.४९ ॥
さまざまな楽器や優れた女性たちを抱きしめ、乳房で押さえつけて眠る情欲の女たちは、まるで恋人たちを抱いているかのようだった。
5.10.50
तासामेकान्तविन्यस्ते शयानां शयने शुभे।
ददर्श रूपसम्पन्नामथ तां स कपिः स्त्रियम् ॥ ५.१०.५० ॥
その中で、人里離れて整えられた美しい寝台に眠っている、美貌を備えた女性を、その猿はそのとき見た。
5.10.51
मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्।
विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम् ॥ ५.१०.५१ ॥
真珠や宝玉をちりばめた装身具で美しく飾られ、その輝きで、この優れた館そのものを飾っているかのようだった。
5.10.52
गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम्।
कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ५.१०.५२ ॥
そこで猿は、色白で黄金の輝きをもつ、愛しい、後宮の女主人である、姿美しいマンドーダリーが眠っているのを見た。
5.10.53
स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः।
तर्कयामास सीतेति रूपयौवनसम्पदा।
हर्षेण महता युक्तो ननन्द हरियूथपः ॥ ५.१०.५३ ॥
その大腕の風神の子は、飾られた彼女を見て、美貌と若さの輝きから、これはシーターに違いないと推測した。大きな喜びに満たされ、猿の群れの長は歓喜した。
5.10.54
आस्फोटयामास चुचुम्ब पुच्छं
ननन्द चिक्रीड जगौ जगाम।
स्तम्भानरोहन्निपपात भूमौ
निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥ ५.१०.५४ ॥
彼は腕を打ち鳴らし、尾に口づけし、喜び、戯れ、歌い、歩き回った。柱に登っては地に落ち、猿としての本性を示した。