Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.11.1

अवधूय च तां बुद्धिं बभूवावस्थितस्तदा।
जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ ५.११.१ ॥

大猴子甩开那个念头,便镇定下来,又为悉多另生忧虑。

5.11.2

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी।
न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम् ॥ ५.११.२ ॥

与罗摩分离的这位美丽女子,既不能睡眠,也不能进食,不能装饰自己,也不能饮酒作乐。

5.11.3

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्।
न हि रामसमः कश्चिद् विद्यते त्रिदशेष्वपि ॥ ५.११.३ ॥

她不适合侍奉另一个男人,即使是诸神之主也不行;因为即便在诸天之中,也没有人能与罗摩相比。

5.11.4

अन्येयमिति निश्चित्य भूयस्तत्र चचार सः।
पानभूमौ हरिश्रेष्ठः सीतासंदर्शनोत्सुकः ॥ ५.११.४ ॥

他断定'这是另一个女子',那位猴中之最,渴望见到悉多,便又在那酒廊中走动起来。

5.11.5

क्रीडितेनापराः क्लान्ता गीतेन च तथापराः।
नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा ॥ ५.११.५ ॥

有的因嬉戏而疲倦,有的因歌唱而疲倦,有的因舞蹈而疲倦;还有的被酒所击倒,已然疲惫不堪。

5.11.6

मुरजेषु मृदंगेषु चेलिकासु च संस्थिताः।
तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ॥ ५.११.६ ॥

有的躺卧在穆拉加鼓、穆里当伽鼓与坐垫之上;另有女子则睡在上好的毯褥之上。

5.11.7

अंगनानां सहस्रेण भूषितेन विभूषणैः।
रूपसंलापशीलेन युक्तगीतार्थभाषिणा ॥ ५.११.७ ॥

与千名以珠宝装饰的女子在一起,她们沉醉于容貌与交谈,说着蕴含歌曲之意的话语。

5.11.8

देशकालाभियुक्तेन युक्तवाक्याभिधायिना।
रताधिकेन संयुक्तां ददर्श हरियूथपः ॥ ५.११.८ ॥

与那位顾及时地、言语得体、沉溺于欢乐的人相拥的女子们,被猴群之主看见。

5.11.9

अन्यत्रापि वरस्त्रीणां रूपसंलापशायिनाम्।
सहस्रं युवतीनां तु प्रसुप्तं स ददर्श ह ॥ ५.११.९ ॥

在别处,他也看见那些在谈笑之后躺下的上等女子中,有千名年轻女子正熟睡。

5.11.10

देशकालाभियुक्तं तु युक्तवाक्याभिधायि तत्।
रताविरतसंसुप्तं ददर्श हरियूथपः ॥ ५.११.१० ॥

那位顾及时地、言语得体的人,在不停的欢愉之后沉沉睡去,被猴群之主看见。

5.11.11

तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः।
गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ॥ ५.११.११ ॥

在她们之中,这位大臂的罗刹之王闪耀着,如同大牛栏中群牛之中的公牛。

5.11.12

स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्।
करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः ॥ ५.११.१२ ॥

这位罗刹之王被她们环绕,闪耀如同森林中被母象环绕的大象。

5.11.13

सर्वकामैरुपेतां च पानभूमिं महात्मनः।
ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥ ५.११.१३ ॥

在那罗刹王的宫中,猴中之虎哈奴曼看见了那位大德者的饮宴之所,里面备有一切所欲之物。

5.11.14

मृगाणां महिषाणां च वराहाणां च भागशः।
तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥ ५.११.१४ ॥

在那饮宴之所,他看见鹿、水牛和野猪的肉已分成份放置在那里。

5.11.15

रौक्मेषु च विशालेषु भाजनेष्वप्यभक्षितान्।
ददर्श कपिशार्दूलो मयूरान् कुक्कुटांस्तथा ॥ ५.११.१५ ॥

在大型金器中,他看见未曾吃过的孔雀与公鸡,猴中之虎如此看见。

5.11.16

वराहवाध्रीणसकान् दधिसौवर्चलायुतान्।
शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत ॥ ५.११.१६ ॥

哈奴曼仔细察看了野猪、与凝乳和萧瓦尔恰拉盐调和的野猪肉、豪猪、鹿和孔雀。

5.11.17

कृकलान् विविधांश्छागान् शशकानर्धभक्षितान्।
महिषानेकशल्यांश्च मेषांश्च कृतनिष्ठितान् ॥ ५.११.१७ ॥

他看见各种鹧鸪、山羊、吃了一半的兔子、一串穿在同一根叉上的水牛与公羊,以及煮好的菜肴。

5.11.18

लेह्यानुच्चावचान् पेयान् भोज्यान्युच्चावचानि च।
तथाम्ललवणोत्तंसैर्विविधै रागखाण्डवैः ॥ ५.११.१८ ॥

他看见可舔食的美味、各式饮品、可食的菜肴,以及以酸咸饰物装点的各种羯陀饼点心。

5.11.19

महानूपुरकेयूरैरपविद्धैर्महाधनैः।
पानभाजनविक्षिप्तैः फलैश्च विविधैरपि ॥ ५.११.१९ ॥

大量珍贵的脚环与臂钏散落四处;饮器散乱;还有各色果实。

5.11.20

कृतपुष्पोपहारा भूरधिकां पुष्यति श्रियम्।
तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनासनैः ॥ ५.११.२० ॥

铺满花供的地面更加光彩照人,各处摆放着结构精巧的卧榻与座席。

5.11.21

पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते।
बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ॥ ५.११.२१ ॥

饮酒之所不见火而仿佛燃烧,各种精心调味烹制的美食陈列其中。

5.11.22

मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक्।
दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि ॥ ५.११.२२ ॥

精心搭配、分别陈设于饮酒厅中的肉食;还有各式天上佳酿般清澈的美酒,以及配制的酒醪。

5.11.23

शर्करासवमाध्वीकाः पुष्पासवफलासवाः।
वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक् ॥ ५.११.२३ ॥

蔗糖酒、蜜酒(mādhvīka)、花酒与果酒,各以多种香粉精制,各自分开。

5.11.24

संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः।
हिरण्मयैश्च कलशैर्भाजनैः स्फाटिकैरपि ॥ ५.११.२४ ॥

铺展的地面上,多处摆放的花环,金瓶与水晶器皿交相辉映,光彩夺目。

5.11.25

जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता।
राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ॥ ५.११.२५ ॥

此处盛满了阎浮檀金制的水罐和其他器皿,银制的瓶中以及阎浮檀金制的瓶中也都有。

5.11.26

पानश्रेष्ठां तथा भूमिं कपिस्तत्र ददर्श सः।
सोऽपश्यच्छातकुम्भानि सीधोर्मणिमयानि च ॥ ५.११.२६ ॥

猴子在那里看见了最好的饮酒之所,还看见了镶嵌宝石的金器盛着悉度酒。

5.11.27

तानि तानि च पूर्णानि भाजनानि महाकपिः।
क्वचिदर्धावशेषाणि क्वचित् पीतान्यशेषतः ॥ ५.११.२७ ॥

这位大猴看见那些盛满的器皿;有的只剩一半,有的已被喝得一干二净。

5.11.28

क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह।
क्वचिद् भक्ष्यांश्च विविधान् क्वचित् पानानि भागशः ॥ ५.११.२८ ॥

有的地方饮料根本未曾饮用,他确实看见了;另一处有各式食物,又一处饮料被分成了小份。

5.11.29

क्वचिदर्धावशेषाणि पश्यन् वै विचचार ह।
शयनान्यत्र नारीणां शून्यानि बहुधा पुनः।
परस्परं समाश्लिष्य काश्चित् सुप्ता वरांगनाः ॥ ५.११.२९ ॥

他看见这里那里剩了一半的器皿,便四处游走。这里有女子们的床榻,许多都空着;有几位美丽的女子相互拥抱着睡着了。

5.11.30

काचिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च।
उपगम्याबला सुप्ता निद्राबलपराजिता ॥ ५.११.३० ॥

一位女子掀开了另一位的衣衫,拥抱着她,靠近身边睡去,这柔弱的女子被睡眠的力量征服了。

5.11.31

तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम्।
नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥ ५.११.३१ ॥

她们呼出的气息吹动,衣裳和身上的花环并不剧烈摆动,反而如得到轻柔的微风一般奇妙地微微颤动。

5.11.32

चन्दनस्य च शीतस्य सीधोर्मधुरसस्य च।
विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥ ५.११.३२ ॥

檀香的、清凉的悉度酒的、甘美的酒液的、各种花环的以及各种鲜花的(香气)。

5.11.33

बहुधा मारुतस्तस्य गन्धं विविधमुद्वहन्।
स्नानानां चन्दनानां च धूपानां चैव मूर्च्छितः ॥ ५.११.३३ ॥

风以多种方式携带那里各种各样的香气吹拂,充满了沐浴香料、檀香与熏香的气息。

5.11.34

प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा।
श्यामावदातास्तत्रान्याः काश्चित् कृष्णा वरांगनाः ॥ ५.११.३४ ॥

那时,普须帕迦空中车中散发出芬芳的香气;那里有许多优秀的女子,有的肤色黝黑,有的白皙,还有的深色。

5.11.35

काश्चित् काञ्चनवर्णांग््यः प्रमदा राक्षसालये।
तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम् ॥ ५.११.३५ ॥

在罗刹的居所中,有些女子身体呈金色;她们被睡意所控,又像被爱欲迷倒一般昏昏倒卧。

5.11.36

पद्मिनीनां प्रसुप्तानां रूपमासीद् यथैव हि।
एवं सर्वमशेषेण रावणान्तःपुरं कपिः।
ददर्श स महातेजा न ददर्श च जानकीम् ॥ ५.११.३६ ॥

她们的容颜如同熟睡的莲池中的莲花。这样,那位大光辉的猴子把罗波那的整个后宫都看遍了,却没有见到悉多。

5.11.37

निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः।
जगाम महतीं शंकां धर्मसाध्वसशंकितः ॥ ५.११.३७ ॥

此时,这位大猴子望着那些女子,因恐违犯法度而心生极大疑虑。

5.11.38

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्।
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥ ५.११.३८ ॥

在他人妻室的内寝中这样注视熟睡的女子,对我而言必将是极大的违法背德。

5.11.39

न हि मे परदाराणां दृष्टिर्विषयवर्तिनी।
अयं चात्र मया दृष्टः परदारपरिग्रहः ॥ ५.११.३९ ॥

我的目光从不因欲望而投向他人之妻;然而在此,我却看到了占有他人之妻的行为。

5.11.40

तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः।
निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ ५.११.४० ॥

那位有智慧的人心中又生出另一个念头,它审视着他专一坚定的决心和所做之事的决心。

5.11.41

कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः।
न तु मे मनसा किंचिद् वैकृत्यमुपपद्यते ॥ ५.११.४१ ॥

的确,我看见了罗波那所有的女子安然熟睡;然而我的心中并未生出任何邪念。

5.11.42

मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने।
शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ ५.११.४२ ॥

心是一切感官活动的根源;无论处于善境或恶境,它在我内心都安稳地得到了良好的调御。

5.11.43

नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्।
स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ॥ ५.११.४३ ॥

我不可能在别处寻找毗提诃(悉多),因为在仔细搜寻时,女子总是在女子之中被看到。

5.11.44

यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्गते।
न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ ५.११.४४ ॥

寻找一物,应在其所属的种类中寻找;失去的女子不可在母鹿之中寻找。

5.11.45

तदिदं मार्गितं तावच्छुद्धेन मनसा मया।
रावणान्तःपुरं सर्वं दृश्यते न च जानकी ॥ ५.११.४५ ॥

我以清净之心,至今已搜遍了此处;罗波那的整个内宫我都看过了,却不见罗刹女之中的耆那吉(悉多)。

5.11.46

देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्।
अवेक्षमाणो हनुमान् नैवापश्यत जानकीम् ॥ ५.११.४६ ॥

勇猛的哈努曼观看了天神与乾闼婆之女,以及龙女,却没有见到耆那吉(悉多)。

5.11.47

तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः।
अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे ॥ ५.११.४७ ॥

这只猴子在那里没有见到她,只看见其他美丽的女子,于是这位英雄便退开,开始准备离去。

5.11.48

स भूयः सर्वतः श्रीमान् मारुतिर्यत्नमाश्रितः।
आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे ॥ ५.११.४८ ॥

那位光辉的风神之子再次四处尽力,离开酒宴之所,开始寻找她。