ヴァールミーキのラーマーヤナ · サルガ 5.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.13.1
विमानात् तु स संक्रम्य प्राकारं हरियूथपः।
हनूमान् वेगवानासीद् यथा विद्युद् घनान्तरे ॥ ५.१३.१ ॥
空飛ぶ車から飛び降り、猿の軍勢の長ハヌマーンは城壁に降り立った。暗雲の中の稲妻のように、疾く輝いた。
5.13.2
सम्परिक्रम्य हनुमान् रावणस्य निवेशनान्।
अदृष्ट्वा जानकीं सीतामब्रवीद् वचनं कपिः ॥ ५.१३.२ ॥
ラーヴァナの館をくまなく巡ったが、ジャーナキー・シーターの姿は見えず、猿ハヌマーンはこう言った。
5.13.3
भूयिष्ठं लोलिता लंका रामस्य चरता प्रियम्।
न हि पश्यामि वैदेहीं सीतां सर्वांगशोभनाम् ॥ ५.१३.३ ॥
ラーマの喜びのために歩き回り、ラanka城のほとんどを捜したが、姿の端正なヴァイデーヒー・シーターは見えない。
5.13.4
पल्वलानि तटाकानि सरांसि सरितस्तथा।
नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः ॥ ५.१३.४ ॥
池、貯水池、湖、川、湿地の森まで続く流れ、城塞、山々——そのすべてを私は捜し尽くした。
5.13.5
लोलिता वसुधा सर्वा न च पश्यामि जानकीम्।
इह सम्पातिना सीता रावणस्य निवेशने।
आख्याता गृध्रराजेन न च सा दृश्यते न किम् ॥ ५.१३.५ ॥
大地をくまなく探したがジャーナキーの姿は見えない。禿鷹の王サンパーティは、シーターはラーヴァナの館にいると告げたのに、なぜ見えないのか。
5.13.6
किं नु सीताथ वैदेही मैथिली जनकात्मजा।
उपतिष्ठेत विवशा रावणेन हृता बलात् ॥ ५.१३.६ ॥
ラーヴァナに力ずくでさらわれた、ヴァイデーヒー、マイティリー、ジャナカの娘シーターは、なす術もなく彼に屈してしまったのだろうか。
5.13.7
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः।
बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ ५.१३.७ ॥
羅刹が速く飛び去り、シーターを捕らえたのだと思う。ラーマの矢を恐れて、彼女は途中で落ちたのかもしれない。
5.13.8
अथवा ह्रियमाणायाः पथि सिद्धनिषेविते।
मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ ५.१३.८ ॥
あるいは、シッダたちの通る道で運ばれていく際、その高貴な女性は海を見て心が折れたのかもしれない。
5.13.9
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च।
तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ५.१३.९ ॥
ラーヴァナの強大な力と腕に締めつけられ、その大きな目の高貴な女性は命を捨てたのだと思う。
5.13.10
उपर्युपरि सा नूनं सागरं क्रमतस्तदा।
विचेष्टमाना पतिता समुद्रे जनकात्मजा ॥ ५.१३.१० ॥
ジャナカの娘は、海の上を越えて運ばれる途中で身をよじらせ、海へと落ちてしまったに違いない。
5.13.11
आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः।
अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ ५.१३.११ ॥
ああ!この卑劣な者は、貞節を守り親族もいない苦行の女シーターを食らってしまったのだ。
5.13.12
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा।
अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ॥ ५.१३.१२ ॥
あるいは、羅刹王の邪な心の妻たちが、黒い目の、非の打ちどころのないシーターを食らってしまったのかもしれない。
5.13.13
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्।
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ ५.१३.१३ ॥
満月のような、蓮の花びらのような目をしたラーマの顔を思い続けて、あの哀れな女は死に至ったことであろう。
5.13.14
हा राम लक्ष्मणेत्येवं हायोध्ये चेति मैथिली।
विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ ५.१३.१४ ॥
「ああ、ラーマ! ああ、ラクシュマナ! ああ、アヨーディヤー!」と、マイティリーのヴァイデーヒーは幾度も嘆き悲しみ、その身を捨てることであろう。
5.13.15
अथवा निहिता मन्ये रावणस्य निवेशने।
भृशं लालप्यते बाला पञ्जरस्थेव सारिका ॥ ५.१३.१५ ॥
あるいは、ラーヴァナの館に閉じ込められたあの若い女は、籠の中の九官鳥のようにひどく嘆いているのだろうと私は思う。
5.13.16
जनकस्य कुले जाता रामपत्नी सुमध्यमा।
कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ ५.१३.१६ ॥
ジャナカの家系に生まれ、ラーマの妻であり、細い腰と蓮の花びらのような目を持つ彼女が、どうしてラーヴァナの支配下に入ることがあろうか。
5.13.17
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा।
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ ५.१३.१७ ॥
ジャナカの娘が滅ぼされたのか、失われたのか、死んだのか、いずれにせよ、愛する妻を持つラーマにそれを報告するのは相応しくない。
5.13.18
निवेद्यमाने दोषः स्याद् दोषः स्यादनिवेदने।
कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ ५.१३.१८ ॥
告げれば過ちとなり、告げなければ過ちとなる。では、どうすべきか。これは私には難しく思われる。
5.13.19
अस्मिन् नेवंगते कार्ये प्राप्तकालं क्षमं च किम्।
भवेदिति मतिं भूयो हनुमान् प्रविचारयन् ॥ ५.१३.१९ ॥
事がこの状態に至ったので、ハヌマーンは何が時宜にかない適切かを再び熟考した。
5.13.20
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः।
गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ ५.१३.२० ॥
シーターを見ないままここから猿王の都へ帰るならば、私の男の務め(プルシャールタ)は何になるのか。
5.13.21
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति।
प्रवेशश्चैव लंकायां राक्षसानां च दर्शनम् ॥ ५.१३.२१ ॥
私の海の跳躍は無駄となり、ランカーへの入城も羅刹たちを見たことも無益となるだろう。
5.13.22
किं वा वक्ष्यति सुग्रीवो हरयो वापि संगताः।
किष्किन्धामनुसम्प्राप्तं तौ वा दशरथात्मजौ ॥ ५.१३.२२ ॥
キシュキンダーに戻ったとき、スグリーヴァは何と言うだろうか。集まった猿たちは、あるいはダシャラタの二人の息子は何と言うだろうか。
5.13.23
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परुषं वचः।
न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥ ५.१३.२३ ॥
もし私が行ってカークツストゥハ(ラーマ)に『シーターを見なかった』と厳しい言葉を告げれば、彼は命を捨てるだろう。
5.13.24
परुषं दारुणं तीक्ष्णं क्रूरमिन्द्रियतापनम्।
सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ॥ ५.१३.२४ ॥
シーターについてのこの厳しく恐ろしく鋭く残酷で感覚を苛む凶報を聞けば、彼は生き延びないだろう。
5.13.25
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम्।
भृशानुरक्तमेधावी न भविष्यति लक्ष्मणः ॥ ५.१३.२५ ॥
苦境に陥り、心が死の状態になった彼を見て、深く慕う賢明なラクシュマナは生きてはいまい。
5.13.26
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति।
भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥ ५.१३.२६ ॥
二人の兄弟が滅びたと聞いて、バラタもまた死ぬだろう。そして死んだバラタを見て、シャトルグナは生きてはいまい。
5.13.27
पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः।
कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ ५.१३.२७ ॥
息子たちが死んだのを見て、母親たちは生きてはいまい——カウシャリヤー、スミトラー、カイケイーである。疑いはない。
5.13.28
कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः।
रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥ ५.१३.२८ ॥
恩を知り誓いを守る猿王スグリーヴァは、ラーマがこのように倒れたのを見て、そのとき命を捨てるであろう。
5.13.29
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी।
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥ ५.१३.२९ ॥
心の沈んだ、苦しみ悩む、哀れで喜びのない苦行者ルマーは、夫の悲しみに苦しめられて命を捨てるであろう。
5.13.30
वालिजेन तु दुःखेन पीडिता शोककर्शिता।
पञ्चत्वमागता राज्ञी तारापि न भविष्यति ॥ ५.१३.३० ॥
ヴァーリンによる苦悩に苛まれ、悲しみにやつれた王妃ターラーもまた死に至るであろう。彼女は生きてはいまい。
5.13.31
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च।
कुमारोऽप्यंगदस्तस्माद् विजहिष्यति जीवितम् ॥ ५.१३.३१ ॥
母と父の滅亡、そしてスグリーヴァの不幸によって、若き王子アンガダもそれゆえに命を捨てるであろう。
5.13.32
भर्तृजेन तु दुःखेन अभिभूता वनौकसः।
शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ५.१३.३२ ॥
主君を失った悲しみに打ちひしがれた森の住人のヴァーナラたちは、掌と拳で自分の頭を打つであろう。
5.13.33
सान्त्वेनानुप्रदानेन मानेन च यशस्विना।
लालिताः कपिनाथेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ ५.१३.३३ ॥
栄光ある猿の王に慰め、贈り物、敬意によって慈しまれたヴァーナラたちは、命を捨てるであろう。
5.13.34
न वनेषु न शैलेषु न निरोधेषु वा पुनः।
क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ५.१३.३४ ॥
森でも、山でも、洞窟でも、猿の中の象たちは再び集まって遊びを楽しむことはないであろう。
5.13.35
सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः।
शैलाग्रेभ्यः पतिष्यन्ति समेषु विषमेषु च ॥ ५.१३.३५ ॥
息子、妻、大臣たちとともに、主君の不幸に苦しむヴァーナラたちは、山の頂から平地にも険しい所にも落ちるであろう。
5.13.36
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा।
उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ॥ ५.१३.३६ ॥
毒、首吊り、火への投身、断食、あるいは武器——ヴァーナラたちはこれらに頼るであろう。
5.13.37
घोरमारोदनं मन्ये गते मयि भविष्यति।
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ५.१३.३७ ॥
私が戻らなければ恐ろしい嘆きが起こり、イクシュヴァーク家の滅亡と森に住む者たちの滅亡も起こるだろうと思う。
5.13.38
सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः।
नहि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ ५.१३.३८ ॥
私はここからキシュキンダー城へは行かない。マイティリー(シーター)に会わずして、スグリーヴァに会うことなど到底できない。
5.13.39
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ।
आशया तौ धरिष्येते वानराश्च तरस्विनः ॥ ५.१३.३९ ॥
私がここに留まって去らなければ、あの正義の二人の大戦士と力強いヴァーナラたちは、ただ希望によって生き続けるだろう。
5.13.40
हस्तादानो मुखादानो नियतो वृक्षमूलिकः।
वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ॥ ५.१३.४० ॥
ジャナカの娘(シーター)を見ずして、私は手に入るもの、口に入るものだけで生き、自らを律し、木の根元に住む林棲者になるであろう。
5.13.41
सागरानूपजे देशे बहुमूलफलोदके।
चितिं कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥ ५.१३.४१ ॥
海辺の、根や果実や水が豊かな地に薪の山を築き、摩擦によって生まれた燃え盛る火の中へ入ろう。
5.13.42
उपविष्टस्य वा सम्यग् लिंगिनं साधयिष्यतः।
शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ ५.१३.४२ ॥
あるいは、座して正しく苦行を行う修行者となれば、私の体はカラスや猛獣に食われるであろう。
5.13.43
इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः।
सम्यगापः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम् ॥ ५.१३.४३ ॥
これもリシたちが見た出立(死)である、と私は考える。ジャーナキーを見なければ、私は水に入ろう。
5.13.44
सुजातमूला सुभगा कीर्तिमाला यशस्विनी।
प्रभग्ना चिररात्राय मम सीतामपश्यतः ॥ ५.१३.४४ ॥
良い根を持ち、幸運で、名声の花環をいただき、栄光ある(私の希望)は、シーターを見ないがゆえに長い夜のあいだ折れてしまった。
5.13.45
तापसो वा भविष्यामि नियतो वृक्षमूलिकः।
नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ॥ ५.१३.४५ ॥
私は苦行者となり、または誓いを守って木の根元に住む者となろう。しかし、あの黒い瞳の女性を見ずにここから帰りはしない。
5.13.46
यदि तु प्रतिगच्छामि सीतामनधिगम्य ताम्।
अंगदः सहितः सर्वैर्वानरैर्न भविष्यति ॥ ५.१३.४६ ॥
しかし彼女を見出さずに帰れば、アンガダは猿たち全員とともに生きてはいないだろう。
5.13.47
विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम्।
तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति संगमः ॥ ५.१३.४७ ॥
滅びには多くの過ちがある。生きる者は吉を得る。ゆえに私は命を保とう。生きていれば、再会は確かだからだ。
5.13.48
एवं बहुविधं दुःखं मनसा धारयन् बहु।
नाध्यगच्छत् तदा पारं शोकस्य कपिकुञ्जरः ॥ ५.१३.४८ ॥
このように、心の中に多くの種類の苦しみを深く抱えながら、そのとき猿の中の象(ハヌマーン)は悲しみの彼岸を見いだせなかった。
5.13.49
ततो विक्रममासाद्य धैर्यवान् कपिकुञ्जरः।
रावणं वा वधिष्यामि दशग्रीवं महाबलम्।
काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ ५.१३.४९ ॥
そこで勇気を頼みとした、堅固な猿の中の象(ハヌマーン)は思った。大力のダシャグリーヴァ、ラーヴァナを私は討つであろう。シーターが奪われたことも、必ず償われるであろう。
5.13.50
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्।
रामायोपहरिष्यामि पशुं पशुपतेरिव ॥ ५.१३.५० ॥
あるいは、彼を持ち上げて海の上を越えて運び、パシュパティに家畜を捧げるように、ラーマに捧げるであろう。
5.13.51
ध्यानशोकपरीतात्मा चिन्तयामास वानरः ॥ ५.१३.५१ ॥
思惟と悲しみに心を覆われた猿は、考え始めた。
5.13.52
यावत् सीतां न पश्यामि रामपत्नीं यशस्विनीम्।
तावदेतां पुरीं लंकां विचिनोमि पुनः पुनः ॥ ५.१३.५२ ॥
栄光あるラーマの妻シーターを見るまで、私はこのラーンカー市を何度でも探し続けるであろう。
5.13.53
सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम्।
अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान् ॥ ५.१३.५३ ॥
サンパーティの言葉に従ってラーマを連れてきたとしても、ラーガヴァが妻を見なければ、すべての猿を焼き尽くすであろう。
5.13.54
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः।
न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ ५.१३.५४ ॥
ここに留まり、食を節し、感覚を制御して暮らそう。私のせいで、かの人間と猿たちがみな滅びることのないように。
5.13.55
अशोकवनिका चापि महतीयं महाद्रुमा।
इमामधिगमिष्यामि नहीयं विचिता मया ॥ ५.१३.५५ ॥
この無憂樹の園もまた広大で、大きな木々がある。まだ探していないので、私はそこへ入ろう。
5.13.56
वसून् रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि च।
नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ ५.१३.५६ ॥
ヴァス神群、ルドラ神群、アーディティヤ神群、双子のアシュヴィン、マルート神群に礼拝してから、私は羅刹たちの悲しみを増す者として行こう。
5.13.57
जित्वा तु राक्षसान् देवीमिक्ष्वाकुकुलनन्दिनीम्।
सम्प्रदास्यामि रामाय सिद्धीमिव तपस्विने ॥ ५.१३.५७ ॥
羅刹たちを征服したなら、イクシュヴァーku族の喜びであるこの女神を、苦行者に成就を授けるようにラーマに届けよう。
5.13.58
स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः।
उदतिष्ठन् महाबाहुर्हनूमान् मारुतात्मजः ॥ ५.१३.५८ ॥
彼はしばし考え込むかのように、憂いに心をとらわれていた。やがて大臂の、風神の子ハヌマーンが立ち上がった。
5.13.59
नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो
नमोऽस्तु चन्द्राग्निमरुद्गणेभ्यः ॥ ५.१३.५९ ॥
ラクシュマナと共にいるラーマに礼拝あれ。ジャナカの娘であるあの女神に礼拝あれ。ルドラ、インドラ、ヤマ、ヴァーユに礼拝あれ。月、火、マルート神群に礼拝あれ。
5.13.60
स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः।
दिशः सर्वाः समालोक्य सोऽशोकवनिकां प्रति ॥ ५.१३.६० ॥
彼らとスグリーヴァに礼拝した後、風の子ハヌマーンは四方を見渡し、それからアショーカの園へ向かった。
5.13.61
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम्।
उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ५.१३.६१ ॥
風神の子である猿は、まず心の中で吉祥なアショーカの園に行き、次に何をすべきかを考えた。
5.13.62
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला।
अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता ॥ ५.१३.६२ ॥
きっとこのアショーカの園には羅刹が多くいるだろう。ここは神聖で、あらゆる装飾で飾られている。
5.13.63
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्।
भगवानपि विश्वात्मा नातिक्षोभं प्रवायति ॥ ५.१३.६३ ॥
ここには確かに、これらの木々を守る番人が配置されている。宇宙の魂であるあの尊い風さえ、激しく吹くことはない。
5.13.64
संक्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च।
सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह ॥ ५.१३.६४ ॥
ラーマのため、そしてラーヴァナに対して、私はここで自分を小さくした。ここにいるすべての神々と聖仙の群れよ、どうか私に成功を授けたまえ。
5.13.65
ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव तपस्विनः।
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ ५.१३.६५ ॥
自生の尊いブラフマー、神々と苦行者たち、火神アグニ、風神ヴァーユ、プルフータ(インドラ)、そして金剛杵を持つ者、どうか私に成功を授けたまえ。
5.13.66
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च।
अश्विनौ च महात्मानौ मरुतः सर्व एव च ॥ ५.१३.६६ ॥
縄を手に持つヴァルナ、ソーマとアーディティヤ、そして偉大な双子神アシュヴィンたちと、すべてのマルッタたちよ、どうか私に成功を授けたまえ。
5.13.67
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः।
दास्यन्ति मम ये चान्येऽप्यदृष्टाः पथि गोचराः ॥ ५.१३.६७ ॥
一切の存在の主であるお方と、道中に目には見えないが姿を現す他の者たちが、私に成就を授けてくださるだろう。
5.13.68
तदुन्नसं पाण्डुरदन्तमव्रणं
शुचिस्मितं पद्मपलाशलोचनम्।
द्रक्ष्ये तदार्यावदनं कदा न्वहं
प्रसन्नताराधिपतुल्यवर्चसम् ॥ ५.१३.६८ ॥
高く整った鼻、白い歯、清らかで欠点のない微笑み、蓮の花びらのような眼、澄んだ月に等しい輝きを持つ、あの気高き女性の顔を、いつ私は見るのだろうか。
5.13.69
क्षुद्रेण हीनेन नृशंसमूर्तिना
सुदारुणालंकृतवेषधारिणा।
बलाभिभूता ह्यबला तपस्विनी
कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ ५.१३.६९ ॥
あの卑しく哀れで残忍な姿をし、恐ろしく飾り立てた装いをまとう者に力で屈服させられた、か弱き苦行の女は、今日どうして私の視界に現れるだろうか。