Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 5.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.14.1

स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्।
अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ ५.१४.१ ॥

偉大な輝きを持つハヌマーンは、しばし心に思いを巡らせ、彼女のために決意して、その館の塀から飛び降りた。

5.14.2

स तु संहृष्टसर्वांगः प्राकारस्थो महाकपिः।
पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ॥ ५.१४.२ ॥

壁の上に立つ大猿ハヌマーンは、全身を喜びに震わせ、春の初めに花の咲いた梢を持つさまざまな木々を見た。

5.14.3

सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्।
उद्दालकान् नागवृक्षांश्चूतान् कपिमुखानपि ॥ ५.१४.३ ॥

サーラ樹、美しいアショーカ樹、よく花開いたチャンパカ樹、ウッダーラカ樹、ナーガ樹、マンゴー樹、そしてカピムカ(猿面)と呼ばれる樹々をも見た。

5.14.4

तथाऽऽम्रवणसम्पन्नाँल्लताशतसमन्वितान्।
ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ ५.१४.४ ॥

同様に、マンゴーの林に富み、数百の蔓草に覆われた樹園へ、弓の弦から放たれた矢のように彼は飛び込んだ。

5.14.5

स प्रविश्य विचित्रां तां विहगैरभिनादिताम्।
राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ ५.१४.५ ॥

彼はその不思議な園に入った。そこは鳥の声が響き渡り、四方を銀色や金色の木々に囲まれていた。

5.14.6

विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्।
उदितादित्यसंकाशां ददर्श हनुमान् बली ॥ ५.१४.६ ॥

力強いハヌマーンは、鳥と鹿の群れに満ち、さまざまな林を持ち、昇る太陽のように輝くその奇妙な園を見た。

5.14.7

वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः।
कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ ५.१४.७ ॥

さまざまな木々に囲まれ、花と実をつけ、カッコウや蜜蜂、そして酔ったような生き物たちがいつも集う(その園)。

5.14.8

प्रहृष्टमनुजां काले मृगपक्षिमदाकुलाम्।
मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ॥ ५.१४.८ ॥

季節に応じて喜ぶ生き物に満ち、鹿や鳥の歓びに揺れ、酔ったように鳴く孔雀の声が響き、さまざまな鳥の群れに満ちていた(その園)。

5.14.9

मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्।
सुखप्रसुप्तान् विहगान् बोधयामास वानरः ॥ ५.१४.९ ॥

その非の打ちどころのない、美しい腰の王女を探していた猿は、安らかに眠る鳥たちを目覚めさせた。

5.14.10

उत्पतद्भिर्द्विजगणैः पक्षैर्वातैः समाहताः।
अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ ५.१४.१० ॥

飛び立つ鳥の群れの羽ばたきと風に揺さぶられ、色とりどりの様々な花の雨が降り注いだ。

5.14.11

पुष्पावकीर्णः शुशुभे हनूमान् मारुतात्मजः।
अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ ५.१४.११ ॥

アショーカの林の中、花に覆われた風の子ハヌマーンは、花でできた山のように輝いた。

5.14.12

दिशः सर्वाभिधावन्तं वृक्षखण्डगतं कपिम्।
दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ ५.१४.१२ ॥

木々の茂みの間をあらゆる方向へ駆ける猿を見て、すべての生き物は春が来たと思った。

5.14.13

वृक्षेभ्यः पतितैः पुष्पैरवकीर्णाः पृथग्विधैः।
रराज वसुधा तत्र प्रमदेव विभूषिता ॥ ५.१४.१३ ॥

木々から落ちた様々な花で覆われた大地は、そこで飾り立てた女性のように輝いていた。

5.14.14

तरस्विना ते तरवस्तरसा बहु कम्पिताः।
कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ ५.१४.१४ ॥

猿に激しく揺さぶられたそれらの力強い木々は、そのとき見事な花を散らした。

5.14.15

निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः।
निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ ५.१४.१५ ॥

葉や梢を振り落とされ、花や実も砕けたその木々は、衣と飾りを脱ぎ捨てて負けた詐欺師のように見えた。

5.14.16

हनूमता वेगवता कम्पितास्ते नगोत्तमाः।
पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः ॥ ५.१४.१६ ॥

素早いハヌマーンに揺さぶられたそれらの見事な木々は、実をたわわにつけていたが、すぐに花、葉、実を放った。

5.14.17

विहंगसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः।
बभूवुरगमाः सर्वे मारुतेन विनिर्धुताः ॥ ५.१४.१७ ॥

鳥の群れを失い、幹だけで立つ木々は、風に激しく揺さぶられ、すべて動かなくなった。

5.14.18

विधूतकेशी युवतिर्यथा मृदितवर्णका।
निपीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥ ५.१४.१८ ॥

髪を乱し、顔色は損なわれ、美しい歯と唇を噛まれ、爪と歯で傷つけられた若い女のように。

5.14.19

तथा लांगूलहस्तैस्तु चरणाभ्यां च मर्दिता।
तथैवाशोकवनिका प्रभग्नवनपादपा ॥ ५.१४.१९ ॥

同じく、尾の手と足で踏みにじられたアショーカ園、その森の木々は折れていた。

5.14.20

महालतानां दामानि व्यधमत् तरसा कपिः।
यथा प्रावृषि वेगेन मेघजालानि मारुतः ॥ ५.१४.२० ॥

その猿は大きなつる草の花飾りを勢いよく散らした。雨季に風が勢いで雲の群れを散らすように。

5.14.21

स तत्र मणिभूमीश्च राजतीश्च मनोरमाः।
तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः ॥ ५.१४.२१ ॥

そこを歩き回るうちに、その猿は宝石をちりばめた、銀の、そして金の美しい大地を見た。

5.14.22

वापीश्च विविधाकाराः पूर्णाः परमवारिणा।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ ५.१४.२२ ॥

さまざまな形の階段井戸や池。最上の水で満たされ、あちこちに貴重な宝石の階段が備わっていた。

5.14.23

मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः।
काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ ५.१४.२३ ॥

真珠と珊瑚の砂をもち、内には水晶の床があり、岸に生えた金色の色とりどりの木々に飾られていた。

5.14.24

बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः।
नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ ५.१४.२४ ॥

開いた蓮と睡蓮の林、赤鴨に飾られ、水鳥の鳴き声に響き、白鳥と鶴の声がこだました。

5.14.25

दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः।
अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥ ५.१४.२५ ॥

四方は木々に囲まれた長い川で飾られ、その水は甘露のようで、吉祥であった。

5.14.26

लताशतैरवतताः संतानकुसुमावृताः।
नानागुल्मावृतवनाः करवीरकृतान्तराः ॥ ५.१४.२६ ॥

数百のつるに覆われ、サンターナカの花に包まれ、さまざまな灌木に囲まれた林があり、間にはキョウチクトウが植えられていた。

5.14.27

ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम्।
विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ ५.१४.२७ ॥

次に彼は、雨雲のような、高い峰をもつ、ヴィチトラクータという山を見た。その山は四方を峰々に囲まれていた。

5.14.28

शिलागृहैरवततं नानावृक्षसमावृतम्।
ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् ॥ ५.१४.२८ ॥

猿の中の虎であるハヌマーンは、石の住まいに覆われ、さまざまな木々に囲まれた、世で最も美しいその山を見た。

5.14.29

ददर्श च नगात् तस्मान्नदीं निपतितां कपिः।
अंकादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ ५.१४.२९ ॥

ハヌマーンはその山から流れ落ちる川を見た。それは恋人の膝から飛び降りた愛しい女のようであった。

5.14.30

जले निपतिताग्रैश्च पादपैरुपशोभिताम्।
वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ ५.१४.३० ॥

水に枝先を垂らした木々に飾られたその川は、愛しい親族に引き止められる怒った女のようであった。

5.14.31

पुनरावृत्ततोयां च ददर्श स महाकपिः।
प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ ५.१४.३१ ॥

その大猿は、再び水が満ちたあの池を見た。恋人のもとへ喜んで戻ってきた愛しい人のようであった。

5.14.32

तस्यादूरात् स पद्मिन्यो नानाद्विजगणायुताः।
ददर्श कपिशार्दूलो हनूमान् मारुतात्मजः ॥ ५.१४.३२ ॥

そこから遠くないところに、猿の中の虎、風の子ハヌマーンは、様々な鳥の群れで満ちた蓮の池を見た。

5.14.33

कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा।
मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ ५.१४.३३ ॥

人工の長い池もあった。冷たい水に満ち、階段は優れた宝玉で、真珠の砂で飾られていた。

5.14.34

विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्।
प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥ ५.१४.३४ ॥

様々な鹿の群れと珍しい林に彩られ、ヴィシュヴァカルマンが造った非常に大きな楼閣もあった。

5.14.35

काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम्।
ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः ॥ ५.१४.३५ ॥

四方は人工の林で美しく飾られ、そこにあった木々はすべて花と実をつけていた。

5.14.36

सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः।
लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ॥ ५.१४.३६ ॥

日傘と段差があり、すべての台は黄金の祭壇であり、多くのつる草の絡み合いと多くの葉に覆われていた。

5.14.37

काञ्चनीं शिंशपामेकां ददर्श स महाकपिः।
वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः ॥ ५.१४.३७ ॥

そこで大猿は、四方を金の壇に囲まれた一本の金色のシンシャパー樹を見た。

5.14.38

सोऽपश्यद् भूमिभागांश्च नगप्रस्रवणानि च।
सुवर्णवृक्षानपरान् ददर्श शिखिसंनिभान् ॥ ५.१४.३८ ॥

彼は大地の区画や山の泉を見、さらに火炎に似た他の金色の樹木を見た。

5.14.39

तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः।
अमन्यत तदा वीरः काञ्चनोऽस्मीति सर्वतः ॥ ५.१४.३९ ॥

それらの木々の輝きによって、大猿はメール山のように輝いた。そのとき、その英雄は「私も四方すべてが金色だ」と思った。

5.14.40

तान् काञ्चनान् वृक्षगणान् मारुतेन प्रकम्पितान्।
किङ्किणीशतनिर्घोषान् दृष्ट्वा विस्मयमागमत् ॥ ५.१४.४० ॥

風に揺れ、数百の小さな鈴のような音を立てる金色の木々の群れを見て、彼は驚嘆した。

5.14.41

सुपुष्पिताग्रान् रुचिरांस्तरुणाङ्कुरपल्लवान्।
तामारुह्य महावेगः शिंशपां पर्णसंवृताम् ॥ ५.१४.४१ ॥

美しく花の咲いた梢や若い芽と新芽をもち、葉に覆われたそのシンシャパー樹に、大いなる速さの彼は登った。

5.14.42

इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम्।
इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ॥ ५.१४.४२ ॥

ここからヴァイデーヒーを見よう。ラーマに会いたいと切望し、悲しみに苦しみ、あてもなくあちこちをさまよっているであろう彼女を。

5.14.43

अशोकवनिका चेयं दृढं रम्या दुरात्मनः।
चन्दनैश्चम्पकैश्चापि बकुलैश्च विभूषिता ॥ ५.१४.४३ ॥

この無憂樹の林は邪悪な者にとって実に麗しく、白檀・チャンパカ・バクラの木々で飾られている。

5.14.44

इयं च नलिनी रम्या द्विजसङ्घनिषेविता।
इमां सा राजमहिषी नूनमेष्यति जानकी ॥ ५.१४.४४ ॥

この蓮の池もまた麗しく、鳥の群れが集まっている。王妃ジャーナキーはきっとここへ来るだろう。

5.14.45

सा रामा राजमहिषी राघवस्य प्रिया सती।
वनसंचारकुशला ध्रुवमेष्यति जानकी ॥ ५.१४.४५ ॥

あの女性、王妃、ラーガヴァの愛しき貞淑な妻、森を歩くことに長けたジャーナキーは、必ずやって来るだろう。

5.14.46

अथवा मृगशावाक्षी वनस्यास्य विचक्षणा।
वनमेष्यति साद्येह रामचिन्तासुकर्शिता ॥ ५.१४.४६ ॥

あるいは、子鹿のような目をもち、この森に慣れ、ラーマを思うあまり痩せ衰えた彼女が、今日この森にやって来るかもしれない。

5.14.47

रामशोकाभिसंतप्ता सा देवी वामलोचना।
वनवासरता नित्यमेष्यते वनचारिणी ॥ ५.१४.४७ ॥

ラーマへの悲しみに深く苦しむ女神、美しい目をもち、森の流浪生活をいつも楽しみ、森をさまよう彼女が、ここへやって来るだろう。

5.14.48

वनेचराणां सततं नूनं स्पृहयते पुरा।
रामस्य दयिता चार्या जनकस्य सुता सती ॥ ५.१४.४८ ॥

森に住む生き物たちも、きっといつも彼女を慕っている。ラーマの愛しき人、気高き女性、ジャナカの貞淑な娘は、以前からそのように慕われていた。

5.14.49

संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी।
नदीं चेमां शुभजलां संध्यार्थे वरवर्णिनी ॥ ५.१४.४९ ॥

夕暮れの時刻に心を向けた、色黒で美しい姿のジャーナキーが、清らかな水のこの川へ夕べの祭儀のために必ず来るだろう。

5.14.50

तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा।
शुभायाः पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥ ५.१४.५० ॥

この美しいアショーカの林は彼女にふさわしい。王の中の王ラーマの敬われる妃にこそ相応しい。

5.14.51

यदि जीवति सा देवी ताराधिपनिभानना।
आगमिष्यति सावश्यमिमां शीतजलां नदीम् ॥ ५.१४.५१ ॥

星々の主(月)のような顔をしたその女神が生きているなら、この冷たい水の川へ必ず来るだろう。

5.14.52

एवं तु मत्वा हनुमान् महात्मा
प्रतीक्षमाणो मनुजेन्द्रपत्नीम्।
अवेक्षमाणश्च ददर्श सर्वं
सुपुष्पिते पर्णघने निलीनः ॥ ५.१४.५२ ॥

このように考えた偉大な魂のハヌマーンは、人王の妃を待ち、あたりを見回して一切を見ながら、花の咲き満ちた茂った葉の間に身を隠していた。