Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 5.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.15.1

स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्।
अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ ५.१५.१ ॥

そこに立ち、見回し、マイティリーを探しながら、大地全体を隅々まで見渡した。

5.15.2

संतानकलताभिश्च पादपैरुपशोभिताम्।
दिव्यगन्धरसोपेतां सर्वतः समलंकृताम् ॥ ५.१५.२ ॥

サンターナのつる草と木々に飾られ、神々しい香りと味わいに満ち、四方すべてが美しく飾られている。

5.15.3

तां स नन्दनसंकाशां मृगपक्षिभिरावृताम्।
हर्म्यप्रासादसम्बाधां कोकिलाकुलनिःस्वनाम् ॥ ५.१५.३ ॥

ナンダナの園に似て、鹿と鳥に囲まれ、館や宮殿が立ち並び、カッコウの鳴き声が響くそれを、彼は見た。

5.15.4

काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्।
बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ ५.१५.४ ॥

金色の蓮や睡蓮の咲く階段井戸に飾られ、多くの座席と敷物を備え、多くの地下室に満ちている。

5.15.5

सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः।
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ ५.१५.५ ॥

四季すべての美しい花と実をつける木々があり、花開いたアショーカの木の輝きに満ち、日の出のように輝いている。

5.15.6

प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत।
निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥ ५.१५.६ ॥

そこに立つハヌマーンは、それが燃えているかのように見つめた。葉のない枝は鳥たちによって何度も作り直されているかのようだった。

5.15.7

विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः।
समूलपुष्परचितैरशोकैः शोकनाशनैः ॥ ५.१५.७ ॥

無数の、奇妙な花飾りのように伸び出た、根元まで花で飾られた、憂いを払うアショーカの木々。

5.15.8

पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्।
कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ ५.१५.८ ॥

花の重みで大地に触れるほど垂れ下がった、満開のカルニカーラの木々と、よく花咲くキンシュカの木々。

5.15.9

स देशः प्रभया तेषां प्रदीप्त इव सर्वतः।
पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ॥ ५.१५.९ ॥

その場所は、彼らの光に四方から燃え上がるかのように輝いていた。プンナーガ、サプタパルナ、チャンパカ、ウッダーラカの木々もあった。

5.15.10

विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः।
शातकुम्भनिभाः केचित् केचिदग्निशिखप्रभाः ॥ ५.१५.१० ॥

根を深く張り、よく花咲く多くの木々が輝いていた。ある物は黄金のようで、ある物は炎の舌のような輝きを持っていた。

5.15.11

नीलाञ्जननिभाः केचित् तत्राशोकाः सहस्रशः।
नन्दनं विबुधोद्यानं चित्रं चैत्ररथं यथा ॥ ५.१५.११ ॥

ある物は青い黒目墨のようだった。そこには何千もの無憂樹があり、神々のナンダナ園や不思議なチャイトララタのようだった。

5.15.12

अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यश्रियायुतम्।
द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ॥ ५.१५.१२ ॥

それは思いも及ばぬ神聖な、麗しい輝きに満ちた、花の光の群れで満ちた第二の空のようであった。

5.15.13

पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा।
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ॥ ५.१५.१३ ॥

数百の花の宝石で彩られ、まるで第五の海のよう。四季のすべての花に覆われ、蜜のように香る木々に満ちている。

5.15.14

नानानिनादैरुद्यानं रम्यं मृगगणद्विजैः।
अनेकगन्धप्रवहं पुण्यगन्धं मनोहरम् ॥ ५.१५.१४ ॥

さまざまな音や鹿の群れ、鳥たちに彩られたその庭園は、多くの香りを運び、清らかで心地よい芳香に満ちて魅力的であった。

5.15.15

शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्।
अशोकवनिकायां तु तस्यां वानरपुंगवः ॥ ५.१५.१५ ॥

山の王のように香りに満ち、第二のガンダマーダナのような、そのアショーカの林で、猿の中の最良の者は……

5.15.16

स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम्।
मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ॥ ५.१५.१६ ॥

彼は近くに、高くそびえる堂々たる祠堂の宮殿を見た。中央は千本の柱に支えられ、カイラーサのように白かった。

5.15.17

प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्।
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ॥ ५.१५.१७ ॥

珊瑚の階段と、熱した金の壇を備え、目を奪い、輝きに満ちていた。

5.15.18

निर्मलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्।
ततो मलिनसंवीतां राक्षसीभिः समावृताम् ॥ ५.१५.१८ ॥

その高さゆえに清らかで汚れなく、まるで空をかすめるかのようだった。そして彼は、汚れた衣をまとった羅刹女たちに囲まれた一人の女性を見た。

5.15.19

उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः।
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ॥ ५.१५.१९ ॥

断食で痩せ衰え、悲しみに沈み、幾度も溜息をつく彼女を彼は見た。白分の初めの清らかな細い月のようであった。

5.15.20

मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्।
पिनद्धां धूमजालेन शिखामिव विभावसोः ॥ ५.१५.२० ॥

煙の網に包まれ、ほのかにしか見えない魅力的な光をもつ。火の炎のようである。

5.15.21

पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा।
सपङ्कामनलंकारां विपद्मामिव पद्मिनीम् ॥ ५.१५.२१ ॥

一枚の黄色い、汚れた上等の衣をまとい、泥にまみれ、飾りもなく、蓮を失った蓮池のようである。

5.15.22

पीडितां दुःखसंतप्तां परिक्षीणां तपस्विनीम्।
ग्रहेणांगारकेणेव पीडितामिव रोहिणीम् ॥ ५.१५.२२ ॥

苦しめられ、悲しみに焼かれ、すっかり衰えた苦行の女。火星に苛まれたローヒニーのようである。

5.15.23

अश्रुपूर्णमुखीं दीनां कृशामनशनेन च।
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ॥ ५.१५.२३ ॥

涙に濡れた顔、悲しみに沈み、断食で痩せ衰え、憂いと瞑想に没頭し、常に苦しみに身を委ねている。

5.15.24

प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्।
स्वगणेन मृगीं हीनां श्वगणेनावृतामिव ॥ ५.१५.२४ ॥

愛しい人を見ることなく、羅刹女たちの群れを見ている。自分の群れから離れた雌鹿が、犬の群れに囲まれたようである。

5.15.25

नीलनागाभया वेण्या जघनं गतयैकया।
नीलया नीरदापाये वनराज्या महीमिव ॥ ५.१५.२५ ॥

黒い蛇のような一本の黒い三つ編みが腰まで垂れていた。雨季が去った後、黒い森の列が大地を覆うように。

5.15.26

सुखार्हां दुःखसंतप्तां व्यसनानामकोविदाम्।
तां विलोक्य विशालाक्षीमधिकं मलिनां कृशाम् ॥ ५.१५.२६ ॥

幸福にふさわしいのに悲しみに焼かれ、災いを知らぬ大きな目のその人を見ると、ひどく汚れ痩せていた。

5.15.27

तर्कयामास सीतेति कारणैरुपपादिभिः।
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ॥ ५.१५.२७ ॥

もっともらしい理由から、彼はこれが、そのとき自在に姿を変える羅刹に連れ去られているシーターだと推測した。

5.15.28

यथारूपा हि दृष्टा सा तथारूपेयमंगना।
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ॥ ५.१५.२८ ॥

見たことのある姿と同じく、この女性も満月のような顔、美しい眉、丸く整った乳房を持っている。

5.15.29

कुर्वतीं प्रभया देवीं सर्वा वितिमिरा दिशः।
तां नीलकण्ठीं बिम्बोष्ठीं सुमध्यां सुप्रतिष्ठिताम् ॥ ५.१५.२९ ॥

その光で四方すべてを闇なきものにする女神。黒い喉、ビンバの実のような唇、細い腰、しっかりと佇む御方。

5.15.30

सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा।
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ ५.१५.३० ॥

蓮の花びらのような目を持つシーター。愛神マンマタの妻ラティのようで、全世界に愛され、満月の輝きのようだ。

5.15.31

भूमौ सुतनुमासीनां नियतामिव तापसीम्।
निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ॥ ५.१५.३१ ॥

彼女は地面に座っていた。細身で、自制の利いた苦行女のように、何度も深いため息をつき、怯えて、まるで大蛇王の妃のようであった。

5.15.32

शोकजालेन महता विततेन न राजतीम्।
संसक्तां धूमजालेन शिखामिव विभावसोः ॥ ५.१५.३२ ॥

広がる大きな悲しみの網に包まれて、彼女は輝いていなかった。まるで火の炎が煙の網に巻かれているかのように。

5.15.33

तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव।
विहतामिव च श्रद्धामाशां प्रतिहतामिव ॥ ५.१५.३३ ॥

彼女は、疑わしくなった記憶のようであり、落ちた繁栄のようであり、壊された信仰のようであり、妨げられた希望のようであった。

5.15.34

सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव।
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ ५.१५.३४ ॥

彼女は、障害に囲まれた成就のようであり、濁った知恵のようであり、偽りの誹謗によって落ちた名声のようであった。

5.15.35

रामोपरोधव्यथितां रक्षोगणनिपीडिताम्।
अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः ॥ ५.१५.३५ ॥

ラーマの苦境を思って苦しみ、羅刹の群れに責め苛まれ、無力な女は、子鹿のような目で、あちこちを見回していた。

5.15.36

बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा।
वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः ॥ ५.१५.३६ ॥

涙の水にあふれ、黒く巻いたまつげを持ち、晴れやかさのない顔で、彼女は何度も溜息をついていた。

5.15.37

मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ॥ ५.१५.३७ ॥

彼女は汚れと泥をまとい、哀れで、飾りにふさわしいのに飾られておらず、星々の王(月)の輝きが黒い雷雲に覆われたかのようであった。

5.15.38

तस्य संदिदिहे बुद्धिस्तथा सीतां निरीक्ष्य च।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ ५.१५.३८ ॥

シーターを見て、彼の心も迷いに陥った。修練を欠けば聖典の学がゆるむように。

5.15.39

दुःखेन बुबुधे सीतां हनुमाननलंकृताम्।
संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ॥ ५.१५.३९ ॥

哈奴曼は悲しみのうちにシーターを認めた。飾られていても、正しい形を失った言葉が別の意味に変わったかのようであった。

5.15.40

तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम्।
तर्कयामास सीतेति कारणैरुपपादयन् ॥ ५.१५.४० ॥

その大きな目をした、非の打ち所のない王女を見て、彼は様々な徴から、これはシーターであると推論した。

5.15.41

वैदेह्या यानि चांगेषु तदा रामोऽन्वकीर्तयत्।
तान्याभरणजालानि गात्रशोभीन्यलक्षयत् ॥ ५.१५.४१ ॥

ラーマが当時語った、ヴァイデーヒーの肢体を飾る数々の装身具――身体を美しくするそれらを彼は認めた。

5.15.42

सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ।
मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥ ५.१५.४२ ॥

よく作られた二つの耳飾り、犬の牙の形によく配置された装身具、そして手には宝石と珊瑚で彩られた様々な装身具。

5.15.43

श्यामानि चिरयुक्तत्वात् तथा संस्थानवन्ति च।
तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ ५.१५.४३ ॥

長く身につけられたため色は曇っているが、形は美しい。ラーマが詳しく述べた装飾品はこれらに違いないと思う。

5.15.44

तत्र यान्यवहीनानि तान्यहं नोपलक्षये।
यान्यस्या नावहीनानि तानीमानि न संशयः ॥ ५.१५.४४ ॥

この中で無傷のものは見分けがつかない。彼女が無傷で身につけていたものはこれらではない、疑いはない。

5.15.45

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्।
उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः ॥ ५.१५.४५ ॥

金の帯のように輝く黄色の美しい衣がほどけ落ち、木に引っかかった上衣を、そのとき猿たちが見た。

5.15.46

भूषणानि च मुख्यानि दृष्टानि धरणीतले।
अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ ५.१५.४६ ॥

地面には主要な装身具も見えた。彼女自身が投げ捨てたものだ——大きく、鳴り響く装身具である。

5.15.47

इदं चिरगृहीतत्वाद् वसनं क्लिष्टवत्तरम्।
तथाप्यनूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥ ५.१५.४७ ॥

この衣は長く着られて汚れがひどいが、色は損なわれておらず、もう一方と同じく美しい。

5.15.48

इयं कनकवर्णांगी रामस्य महिषी प्रिया।
प्रणष्टापि सती यस्य मनसो न प्रणश्यति ॥ ५.१५.४८ ॥

この金色の肢体の女性はラーマの最愛の第一王妃である。失われていても、貞淑なる彼女の心は決して彼を失わない。

5.15.49

इयं सा यत्कृते रामश्चतुर्भिरिह तप्यते।
कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ ५.१५.४९ ॥

彼女のために、ラーマはここで四つのことに苦しんでいる。慈悲、優しさ、悲しみ、そして恋慕によって。

5.15.50

स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः।
पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ ५.१५.५० ॥

彼女が失われた女性だから慈悲により、彼に頼る者だから優しさにより、失われた妻だから悲しみにより、愛しい人だから恋慕によって。

5.15.51

अस्या देव्या यथारूपमंगप्रत्यंगसौष्ठवम्।
रामस्य च यथारूपं तस्येयमसितेक्षणा ॥ ५.१५.५१ ॥

この女神の姿と四肢の美しさがどのようであるか、ラーマの姿もまたそのようである。この黒い目の女性は彼にふさわしい。

5.15.52

अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ ५.१५.५२ ॥

女神の心は彼に、彼の心は彼女に定まっている。それゆえ彼女も、あの正義の人も、束の間でも生きている。

5.15.53

दुष्करं कृतवान् रामो हीनो यदनया प्रभुः।
धारयत्यात्मनो देहं न शोकेनावसीदति ॥ ५.१५.५३ ॥

ラーマという主は困難なことを成し遂げている。彼女を失いながらも自らの身体を保ち、悲しみに沈んでいない。

5.15.54

एवं सीतां तथा दृष्ट्वा हृष्टः पवनसम्भवः।
जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५.१५.५४ ॥

このようにシーターを見て喜んだ風の子は、心の中でラーマのもとへ赴き、その主を称賛した。