ヴァールミーキのラーマーヤナ · サルガ 5.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.16.1
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः।
गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥ ५.१६.१ ॥
称賛に値するシーターを、猿の中の勇士は称えた。そして徳によって魅力的なラーマを思い、再び憂いに沈んだ。
5.16.2
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः।
सीतामाश्रित्य तेजस्वी हनूमान् विललाप ह ॥ ५.१६.२ ॥
輝かしいハヌマーンはしばし思いを巡らせ、涙に濡れた目でシーターを思いながら嘆いた。
5.16.3
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया।
यदि सीता हि दुःखार्ता कालो हि दुरतिक्रमः ॥ ५.१६.३ ॥
ラクシュマナに敬われ、年長者に愛されるシーターが悲しみに苦しんでいるなら、時の流れは本当に乗り越えがたい。
5.16.4
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः।
नात्यर्थं क्षुभ्यते देवी गंगेव जलदागमे ॥ ५.१६.४ ॥
ラーマと賢明なラクシュマナの決意を知る女神シーターは、雨季の到来のガンジス川のように、過度に動揺することはない。
5.16.5
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्।
राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ ५.१६.५ ॥
性格、年齢、振る舞いが等しく、家柄と相も等しいヴァイデーヒーは、ラーガヴァにふさわしい。この黒い瞳の女性もまた彼にふさわしい。
5.16.6
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्।
जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ ५.१६.६ ॥
新しい金の輝きをもち、世界に愛されるシュリーのような彼女を見て、彼は心の中でラーマのもとへ行き、この言葉を述べた。
5.16.7
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः।
रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ ५.१६.७ ॥
この広い目の女性のために、大力のヴァーリンは殺され、勇猛さにおいてラーヴァナに等しいカバンダも倒された。
5.16.8
विराधश्च हतः संख्ये राक्षसो भीमविक्रमः।
वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥ ५.१६.८ ॥
恐るべき武勇の羅刹ヴィラーダも、戦いで森の中で勇敢に戦ったラーマに殺された。インドラがシャンバラを殺したように。
5.16.9
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ ५.१६.९ ॥
ジャナスタナで恐ろしい行いをする一万四千の羅刹が、炎の舌のような矢で殺された。
5.16.10
खरश्च निहतः संख्ये त्रिशिराश्च निपातितः।
दूषणश्च महातेजा रामेण विदितात्मना ॥ ५.१६.१० ॥
戦いでカラは殺され、トリシラスは倒された。大いなる輝きのドゥーシャナも、自らを知る者ラーマによって殺された。
5.16.11
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्।
अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकविश्रुतः ॥ ५.१६.११ ॥
ヴァーリンが守っていた、得難い猿族の王権を、この女性のために世に名高いスグリーヴァは得た。
5.16.12
सागरश्च मयाऽऽक्रान्तः श्रीमान् नदनदीपतिः।
अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता ॥ ५.१६.१२ ॥
私は光輝ある大海、川と流れの主を越えた。この広い目の女性のために、この都も探し見られたのだ。
5.16.13
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्।
अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ ५.१६.१३ ॥
ラーマが海に至るまでの大地をひっくり返すとしても、彼女のためには世界全体さえふさわしいというのが私の考えだ。
5.16.14
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा।
त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम् ॥ ५.१६.१४ ॥
三界の王権か、ジャナカの娘シーターか。三界の王権すべてさえ、シーターの一片にも及ばないだろう。
5.16.15
इयं सा धर्मशीलस्य जनकस्य महात्मनः।
सुता मैथिलराजस्य सीता भर्तृदृढव्रता ॥ ५.१६.१५ ॥
この方こそシーター、法を重んじる大いなるジャナカの娘、ミティラーの王の姫、夫への誓いに堅く立つ人。
5.16.16
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते।
पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ ५.१६.१६ ॥
畑で鋤の先に耕された大地を裂いて現れ、蓮の花粉に似た吉祥な畑の塵に覆われていた。
5.16.17
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः।
स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥ ५.१६.१७ ॥
彼女は勇猛で気高い性格、戦いで決して退かなかったダシャラタの息子の妻であり、王の長子の妻、名高い方である。
5.16.18
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः।
इयं सा दयिता भार्या राक्षसीवशमागता ॥ ५.१६.१८ ॥
この方こそ、ダルマを知り、恩を忘れず、自制したラーマの最愛の妃。今や羅刹女の手に落ちてしまった。
5.16.19
सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात् कृता।
अचिन्तयित्वा कष्टानि प्रविष्टा निर्जनं वनम् ॥ ५.१६.१९ ॥
夫への愛の力によって、あらゆる快楽を捨て、苦難を顧みず、彼女は人気のない森に入った。
5.16.20
संतुष्टा फलमूलेन भर्तृशुश्रूषणापरा।
या परां भजते प्रीतिं वनेऽपि भवने यथा ॥ ५.१६.२० ॥
果実と根で満足し、夫に仕えることに心を尽くし、森にいても家にいるかのように至上の喜びを得ている。
5.16.21
सेयं कनकवर्णांगी नित्यं सुस्मितभाषिणी।
सहते यातनामेतामनर्थानामभागिनी ॥ ५.१६.२१ ॥
金色の肢体を持ち、いつも優しい微笑みで語るこの女性は、不幸に値しないのに、この苦しみに耐えている。
5.16.22
इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः।
रावणेन प्रमथितां प्रपामिव पिपासितः ॥ ५.१६.२२ ॥
ラーガヴァ(ラーマ)は、徳の高い、ラーヴァナに苦しめられたこの女性に会いたいと望んでいる。渇いた者が水場を求めるように。
5.16.23
अस्या नूनं पुनर्लाभाद् राघवः प्रीतिमेष्यति।
राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥ ५.१६.२३ ॥
彼女を取り戻せば、ラーガヴァは必ず喜ぶであろう。王国を失った王が再び大地を得て喜ぶように。
5.16.24
कामभोगैः परित्यक्ता हीना बन्धुजनेन च।
धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥ ५.१६.२४ ॥
欲望の楽しみからも見捨てられ、親族からも引き離された彼女は、ただ彼との再会を切望して自らの身体を保っている。
5.16.25
नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्।
एकस्थहृदया नूनं राममेवानुपश्यति ॥ ५.१६.२५ ॥
彼女は羅刹女たちも、この花と実のなる木々も見ない。心を一つに集中させ、彼女はまさにラーマのみを見つめ続けている。
5.16.26
भर्ता नाम परं नार्याः शोभनं भूषणादपि।
एषा हि रहिता तेन शोभनार्हा न शोभते ॥ ५.१६.२६ ॥
女にとって夫こそ、装身具にもまさる最上の飾りである。夫と離れたこの女は、飾りにふさわしいのに輝いていない。
5.16.27
दुष्करं कुरुते रामो हीनो यदनया प्रभुः।
धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ ५.१६.२७ ॥
彼女と離れていながら、主ラーマは困難なことを成し遂げている。彼は自らの身体を保ち、悲しみに沈み込むことがない。
5.16.28
इमामसितकेशान्तां शतपत्रनिभेक्षणाम्।
सुखार्हां दुःखितां ज्ञात्वा ममापि व्यथितं मनः ॥ ५.१६.२८ ॥
黒い髪の先と蓮の花びらのような目を持つこの女性は、幸福にふさわしいのに悲しんでいる。それを知って、私の心も苦しむ。
5.16.29
क्षितिक्षमा पुष्करसंनिभेक्षणा
या रक्षिता राघवलक्ष्मणाभ्याम्।
सा राक्षसीभिर्विकृतेक्षणाभिः
संरक्ष्यते सम्प्रति वृक्षमूले ॥ ५.१६.२९ ॥
大地のように忍耐強く、蓮の目を持つ彼女は、かつてラーマとラクシュマナに守られていた。今は歪んだ目の羅刹女たちによって、木の根元で見張られている。
5.16.30
हिमहतनलिनीव नष्टशोभा
व्यसनपरम्परया निपीड्यमाना।
सहचररहितेव चक्रवाकी
जनकसुता कृपणां दशां प्रपन्ना ॥ ५.१६.३० ॥
霜に打たれた蓮池のように輝きを失い、次々と襲う災いに押しつぶされ、連れ合いを失ったチャクラヴァーキーのように、ジャナカの娘は哀れな境遇に陥っている。
5.16.31
अस्या हि पुष्पावनताग्रशाखाः
शोकं दृढं वै जनयन्त्यशोकाः।
हिमव्यपायेन च शीतरश्मि-
रभ्युत्थितो नैकसहस्ररश्मिः ॥ ५.१६.३१ ॥
彼女のために、花で枝先がしなったアショーカの木々はただ深い悲しみを生むばかりだ。霜が去り、冷たい光の月が昇り、千の光の太陽も昇った。
5.16.32
इत्येवमर्थं कपिरन्ववेक्ष्य
सीतेयमित्येव तु जातबुद्धिः।
संश्रित्य तस्मिन् निषसाद वृक्षे
बली हरीणामृषभस्तरस्वी ॥ ५.१६.३२ ॥
このように状況をよく見極め、「これこそシーターだ」と確信したとき、猿の中の雄牛である、力強く素早いその猿は、その木に身を寄せて座った。