Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 5.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.17.1

ततः कुमुदखण्डाभो निर्मलं निर्मलोदयः।
प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ ५.१७.१ ॥

そのとき、白いクムダ蓮の花びらのように輝き、曇りなく昇る月は、紺青の水をゆく白鳥のように空を進んだ。

5.17.2

साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः।
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ ५.१७.२ ॥

まるで助手の務めを果たすかのように、清らかな光の月は冷たい光線で風の子を侍した。

5.17.3

स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्।
शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥ ५.१७.३ ॥

そのとき彼は、満月のような顔のシーターを見た。悲しみの重荷に打ちひしがれ、水に重みで沈んだ舟のようであった。

5.17.4

दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः।
स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ ५.१७.४ ॥

ヴァイデーヒーを見たいと思った風の子ハヌマーンは、少し離れたところに立つ、恐ろしい姿の羅刹女たちを見た。

5.17.5

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा।
अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥ ५.१७.५ ॥

一つ目の者、一つ耳の者、耳を覆いとしている者、耳のない者、杭のような耳の者、鼻孔が頭の方へ上がった者。

5.17.6

अतिकायोत्तमांगीं च तनुदीर्घशिरोधराम्।
ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् ॥ ५.१७.६ ॥

極めて巨大で抜きん出た体の者、細く長い首の者、乱れた髪の者、髪のない者、髪の毛布をまとう者。

5.17.7

लम्बकर्णललाटां च लम्बोदरपयोधराम्।
लम्बोष्ठीं चिबुकोष्ठीं च लम्बास्यां लम्बजानुकाम् ॥ ५.१७.७ ॥

耳と額が長く、腹と乳房が長く、唇が長く、顎のような唇を持ち、顔が長く、膝が長い女たち。

5.17.8

ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा।
करालां भुग्नवक्त्रां च पिंगाक्षीं विकृताननाम् ॥ ५.१७.८ ॥

背の低い者と高い者、せむしと醜い者、小人、恐ろしい者、口の曲がった者、茶色の目の者、顔の歪んだ者。

5.17.9

विकृताः पिंगलाः कालीः क्रोधनाः कलहप्रियाः।
कालायसमहाशूलकूटमुद्गरधारिणीः ॥ ५.१७.९ ॥

醜く歪み、茶色で、黒く、怒りっぽく、争いを好む者たち。黒鉄の大槍、鉄槌、棍棒を手にしていた。

5.17.10

वराहमृगशार्दूलमहिषाजशिवामुखाः।
गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः ॥ ५.१७.१० ॥

猪、鹿、虎、水牛、山羊、ジャッカルの顔を持ち、象・駱駝・馬の足を持つ者たち、そして頭がくぼんだ他の者たち。

5.17.11

एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः।
गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥ ५.१७.११ ॥

片手片足の者、驢馬・馬・牛・象・鹿の耳を持つ者、そして他の者たち。

5.17.12

अतिनासाश्च काश्चिच्च तिर्यङ्नासा अनासिकाः।
गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः ॥ ५.१७.१२ ॥

鼻が非常に長い者、鼻が横に曲がった者、鼻のない者、象のような鼻の者、額から息をする鼻の者。

5.17.13

हस्तिपादा महापादा गोपादाः पादचूलिकाः।
अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥ ५.१७.१३ ॥

象の足、大きな足、牛の足、足に房のある者たちで、頭と首が極端に大きく、乳房と腹が極端に大きかった。

5.17.14

अतिमात्रास्यनेत्राश्च दीर्घजिह्वाननास्तथा।
अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ॥ ५.१७.१४ ॥

口と目が極端に大きく、長い舌と顔をしていた。ある者は山羊の顔、ある者は象の顔、ある者は牛の顔、ある者は猪の顔だった。

5.17.15

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः।
शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ ५.१७.१५ ॥

馬・ラクダ・ロバの顔をした羅刹女たちは恐ろしい姿で、手に槍と棍棒を持ち、怒りっぽく争いを好んだ。

5.17.16

कराला धूम्रकेशिन्यो राक्षसीर्विकृताननाः।
पिबन्ति सततं पानं सुरामांससदाप्रियाः ॥ ५.१७.१६ ॥

恐ろしい煙色の髪をし、顔の歪んだ羅刹女たちは絶えず酒を飲んでいた。彼女たちはいつも酒と肉を好んだ。

5.17.17

मांसशोणितदिग्धांगीर्मांसशोणितभोजनाः।
ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥ ५.१७.१७ ॥

猿の中の最上者(ハヌマーン)は、血肉にまみれた身体で、血肉を食らうその羅刹女たちを見た。彼女たちの姿は身の毛がよだつものだった。

5.17.18

स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्।
तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् ॥ ५.१७.१८ ॥

羅刹女たちは枝を張った大木を取り囲んで座っていた。その木の下には、あの女神、王女、非の打ちどころのない女性(シーター)がいた。

5.17.19

लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम्।
निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ॥ ५.१७.१९ ॥

吉祥なるハヌマーンは、ジャナカの娘を見た。輝きを失い、悲しみに焼かれ、汚れにもつれた髪をしていた。

5.17.20

क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव।
चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ ५.१७.२० ॥

功徳が尽きて地に落ちた星のように、彼女は善行の名声に満ちていたが、夫に会えず不幸の中にあった。

5.17.21

भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम्।
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ ५.१७.२१ ॥

上等の飾りを失い、夫の愛情だけで飾られ、羅刹王に囚われ、親族からも引き離されていた。

5.17.22

वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव।
चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम् ॥ ५.१७.२२ ॥

群れから離され、獅子に囲まれて縛られた雌象のように、また雨季の終わりに秋の雲に覆われた三日月のように。

5.17.23

क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्।
स तां भर्तृहिते युक्तामयुक्तां रक्षसां वशे ॥ ५.१७.२३ ॥

触れ合いのないために姿は痛めつけられ、調子の外れた琵琶のようであった。夫の幸せに心を尽くしていたが、羅刹の支配下にあった。

5.17.24

अशोकवनिकामध्ये शोकसागरमाप्लुताम्।
ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ ५.१७.२४ ॥

アショーカの園の中で悲しみの海に沈み、そこで彼女たちに囲まれていた。惑星とともにいる羅睺尼(ローヒニー)のように。

5.17.25

ददर्श हनुमांस्तत्र लतामकुसुमामिव।
सा मलेन च दिग्धांगी वपुषा चाप्यलंकृता।
मृणाली पङ्कदिग्धेव विभाति च न भाति च ॥ ५.१७.२५ ॥

そこでハヌマーンは、花のないつる草のような彼女を見た。汚れに塗れた四肢であったが、身体は飾られているかのようだった。泥に汚れた蓮の茎のように、彼女は輝いているようでもあり、輝いていないようでもあった。

5.17.26

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्।
संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः ॥ ५.१७.२६ ॥

汚れて擦り切れた衣をまとい、子鹿のような目をしたその美しい女性を、猿のハヌマーンが見た。

5.17.27

तां देवीं दीनवदनामदीनां भर्तृतेजसा।
रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥ ५.१७.२७ ॥

その女神、顔は悲しげでありながらひるむことのない方、夫の威光に守られ、自らの徳によって守られた方、黒い瞳のシーターを。

5.17.28

तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम्।
मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः ॥ ५.१७.२८ ॥

子鹿の目をしたシーターを見て、ハヌマーンは、おびえた雌鹿のように四方を見回している彼女を見た。

5.17.29

दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः।
संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ॥ ५.१७.२९ ॥

嘆息で芽吹いた木々を焼き焦がすかのように、悲しみの集まりのように、悲嘆の波のように立ち上がった彼女。

5.17.30

तां क्षमां सुविभक्तांगीं विनाभरणशोभिनीम्।
प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥ ५.१७.३० ॥

忍耐強く、均整のとれた肢体をもち、装身具がなくとも輝くマイティリーを見て、風の子マールティ・ハヌマーンは比類ない喜びを得た。

5.17.31

हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्।
मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥ ५.१७.३१ ॥

酒に酔ったような瞳の彼女を見て、ハヌマーンはそこで喜びの涙を流し、ラーガヴァ(ラーマ)に礼拝した。

5.17.32

नमस्कृत्वाथ रामाय लक्ष्मणाय च वीर्यवान्।
सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत् ॥ ५.१७.३२ ॥

それからラーマとラクシュマナに礼拝し、シーターの姿を見て喜んだ勇猛なハヌマーンは身を隠した。