ヴァールミーキのラーマーヤナ · サルガ 5.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.20.1
स तां परिवृतां दीनां निरानन्दां तपस्विनीम्।
साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ ५.२०.१ ॥
取り囲まれ、悲しみに沈み、喜びを失ったその苦行の女に、ラーヴァナは優しく丁寧な言葉で自らを示した。
5.20.2
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्।
अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ ५.२०.२ ॥
私を見て、象の鼻のような腿を持つ女よ、胸と腹を覆い隠し、恐れのあまり自分を見えなくしようとしているかのようだ。
5.20.3
कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये।
सर्वांगगुणसम्पन्ने सर्वलोकमनोहरे ॥ ५.२०.३ ॥
私はあなたを求めている、大きな目をした人よ。私を大切に思ってくれ、愛しい人よ。あらゆる美徳を備え、全世界の心を奪う人よ。
5.20.4
नेह किञ्चिन्मनुष्या वा राक्षसाः कामरूपिणः।
व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ५.२०.४ ॥
ここには人間も、意のままに姿を変える羅刹もいない。シーター、私から生じたあなたの恐れは去れ。
5.20.5
स्वधर्मो रक्षसां भीरु सर्वदैव न संशयः।
गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा ॥ ५.२०.५ ॥
臆病な者よ、羅刹にとっての本分は常にこれである、疑いはない。他人の妻のもとへ行くこと、あるいは力ずくで奪い去ることである。
5.20.6
एवं चैवमकामां त्वां न च स्प्रक्ष्यामि मैथिलि।
कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ ५.२०.६ ॥
このように、望まないあなたには私は触れまい、マイティリーよ。私の身体の欲望は、望むままに働くがよい。
5.20.7
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये।
प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ५.२०.७ ॥
女神よ、ここで恐れてはならない。愛しき人よ、私を信じよ。真心をもって愛を受け入れよ。このように悲しみを渇望する者となってはならない。
5.20.8
एकवेणी अधःशय्या ध्यानं मलिनमम्बरम्।
अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ५.२०.८ ॥
一つの三つ編み、地面に眠ること、瞑想、汚れた衣、ふさわしくない場所での断食——これらはあなたにふさわしくない。
5.20.9
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च।
विविधानि च वासांसि दिव्यान्याभरणानि च ॥ ५.२०.९ ॥
さまざまな花輪、白檀と沈香、多彩な衣服、そして神々しい装身具も。
5.20.10
महार्हाणि च पानानि शयनान्यासनानि च।
गीतं नृत्यं च वाद्यं च लभ मां प्राप्य मैथिलि ॥ ५.२०.१० ॥
貴重な飲み物、寝台と座席、歌と舞踊と楽器も。マイティリーよ、私を得て、これらを楽しめ。
5.20.11
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्।
मां प्राप्य हि कथं वा स्यास्त्वमनर्हा सुविग्रहे ॥ ५.२०.११ ॥
あなたは女性の中の宝石。そうなってはならない。身体に装身具をつけよ。私を得てもなお、どうしてあなたがふさわしくないことがあろうか、美しい姿の人よ。
5.20.12
इदं ते चारु संजातं यौवनं ह्यतिवर्तते।
यदतीतं पुनर्नैति स्रोतः स्रोतस्विनामिव ॥ ५.२०.१२ ॥
あなたのこの美しい若さは生じたが、今まさに過ぎ去っている。過ぎ去ったものは、川の流れのように二度と戻らない。
5.20.13
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत्।
नहि रूपोपमा ह्यन्या तवास्ति शुभदर्शने ॥ ५.२०.१३ ॥
形を創る者、世界を作る者は、あなたを造って仕事を終えたのだと思う。吉祥なる姿の人よ、あなたの美しさに並ぶものはない。
5.20.14
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्।
कः पुनर्नातिवर्तेत साक्षादपि पितामहः ॥ ५.२०.१४ ॥
美と若さに輝くヴァイデーヒーよ、あなたに近づいたなら、祖父ブラフマーでさえ、誰が節度を越えずにいられようか。
5.20.15
यद् यत् पश्यामि ते गात्रं शीतांशुसदृशानने।
तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते ॥ ५.२०.१५ ॥
月のような顔の人よ、あなたの体のどこを見ても、広い腰の人よ、私の目はそこに釘付けになる。
5.20.16
भव मैथिलि भार्या मे मोहमेतं विसर्जय।
बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव ॥ ५.२०.१६ ॥
マイティリーよ、私の妻となれ。この迷いを捨てよ。多くの優れた女性の中で、あなたは私の第一の王妃となれ。
5.20.17
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि मे।
तानि ते भीरु सर्वाणि राज्यं चैव ददामि ते ॥ ५.२०.१७ ॥
臆病な人よ、私が諸世界から掻き集めて奪ってきた宝玉はすべて、そして王国も、あなたに与えよう。
5.20.18
विजित्य पृथिवीं सर्वां नानानगरमालिनीम्।
जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ ५.२०.१८ ॥
艶やかな人よ、あなたのために、多くの都市の首飾りで飾られた全地を征服して、ジャナカに献じよう。
5.20.19
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्।
पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ ५.२०.१९ ॥
この世界には私に匹敵する力を持つ者は見当たらない。戦いで比類なき我が大いなる武勇を見よ。
5.20.20
असकृत् संयुगे भग्ना मया विमृदितध्वजाः।
अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ ५.२०.२० ॥
戦いで幾度も私に打ち破られ、旗を砕かれた神々と阿修羅は、私の陣列に立ち向かうことができなかった。
5.20.21
इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्।
सुप्रभाण्यवसज्जन्तां तवांगे भूषणानि हि ॥ ५.२०.२१ ॥
私を望みなさい。今日こそあなたに最高の装いを施し、輝く飾りをその身に着けさせよう。
5.20.22
साधु पश्यामि ते रूपं सुयुक्तं प्रतिकर्मणा।
प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ॥ ५.२०.२२ ॥
装いで美しく整えたあなたの姿を見たい。美しい顔の人よ、飾りをまとい、慈しみ深く輝いてほしい。
5.20.23
भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च।
यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥ ५.२०.२३ ॥
臆病な人よ、望みのままに楽しみを味わい、飲み、喜びなさい。望むままに大地でも富でも与えてよいのだ。
5.20.24
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च।
मत्प्रासादाल्ललन्त्याश्च ललतां बान्धवस्तव ॥ ५.२०.२४ ॥
私を信頼して安心して喜びに浸り、遠慮なく命じなさい。私の恩恵によって、あなたの喜びに連なるあなたの親族も喜びを得るでしょう。
5.20.25
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशस्विनि।
किं करिष्यसि रामेण सुभगे चीरवासिना ॥ ५.२०.२५ ॥
私の富と栄華をご覧なさい、吉祥で名高い方よ。樹皮の衣をまとうラーマと、あなたは何をするのですか、幸福な方よ。
5.20.26
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः।
व्रती स्थण्डिलशायी च शंके जीवति वा न वा ॥ ५.२०.२६ ॥
勝利を捨て、栄華を失い、森をさまよい、誓いを守り、裸の地に眠るラーマ。彼が生きているかどうか、私は疑わしく思う。
5.20.27
नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलभ्यते।
पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ ५.२०.२७ ॥
ヴァイデーヒーよ、ラーマはあなたを見ることも得ることもできない。前に白鷺を連ねた黒い雲に月光が覆われるように。
5.20.28
न चापि मम हस्तात् त्वां प्राप्तुमर्हति राघवः।
हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ ५.२०.२८ ॥
ラーガヴァもまた私の手からあなたを得ることはできない。インドラの手に渡った名声を、ヒラニヤカシプが取り戻せないように。
5.20.29
चारुस्मिते चारुदति चारुनेत्रे विलासिनि।
मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ ५.२०.२९ ॥
麗しく微笑む方、麗しい歯の方、麗しい眼の方、戯れる方、臆病な方よ。スパルナが蛇を奪うように、あなたは私の心を奪う。
5.20.30
क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्।
त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ ५.२०.३० ॥
くたびれた絹の衣をまとい、細身で飾りのないあなたを見ても、私は自分の妻たちに喜びを見いだせない。
5.20.31
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः।
यावत्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥ ५.२०.३१ ॥
私の奥御殿に住み、あらゆる徳を備えた女性たちは、その数すべてについて、ジャーナキーよ、その支配権をお取りなさい。
5.20.32
मम ह्यसितकेशान्ते त्रैलोक्यप्रवरस्त्रियः।
तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ५.२०.३२ ॥
私の黒髪の、三界で最も優れた女性たちが、アプサラスがシュリーに仕えるように、あなたに仕えるでしょう。
5.20.33
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च।
तानि लोकांश्च सुश्रोणि मया भुङ्क्ष्व यथासुखम् ॥ ५.२०.३३ ॥
ヴァイシュラヴァナの宝玉と財宝、美しい眉の人よ、そして世界も、豊かな腰の人よ、私と共に思うままに享受しなさい。
5.20.34
न रामस्तपसा देवि न बलेन च विक्रमैः।
न धनेन मया तुल्यस्तेजसा यशसापि वा ॥ ५.२०.३४ ॥
女神よ、ラーマは苦行においても、力や武勇においても、富においても、輝きや名声においても、私に並ぶ者ではありません。
5.20.35
पिब विहर रमस्व भुङ्क्ष्व भोगान्
धननिचयं प्रदिशामि मेदिनीं च।
मयि लल ललने यथासुखं त्वं
त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ ५.२०.३५ ॥
飲みなさい、遊び楽しみなさい、喜びなさい、快楽を味わいなさい。山のような富と大地そのものをあなたに与えましょう。婦人よ、思うままに私と戯れなさい。そしてあなたと結ばれて、あなたの親族も喜びますように。
5.20.36
कुसुमिततरुजालसंततानि
भ्रमरयुतानि समुद्रतीरजानि।
कनकविमलहारभूषितांगी
विहर मया सह भीरु काननानि ॥ ५.२०.३६ ॥
海辺に生まれ、花咲く木々の連なりに満ち、蜜蜂の群れる林を、私と共に散策しなさい、臆病な人よ。あなたの肢体は、純金の首飾りで飾られている。