ヴァールミーキのラーマーヤナ · サルガ 5.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.21.1
तस्य तद् वचनं श्रुत्वा सीता रौद्रस्य रक्षसः।
आर्ता दीनस्वरा दीनं प्रत्युवाच ततः शनैः ॥ ५.२१.१ ॥
その恐ろしいラークシャサの言葉を聞いて、シーターは苦しみながら、か細い声で哀れに、ゆっくりと答えた。
5.21.2
दुःखार्ता रुदती सीता वेपमाना तपस्विनी।
चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ॥ ५.२१.२ ॥
苦悩に打ちひしがれ、泣き震える苦行者シーター。美しい腰を持ち、ただ夫のことだけを思う貞淑な妻。
5.21.3
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता।
निवर्तय मनो मत्तः स्वजने प्रीयतां मनः ॥ ५.२१.३ ॥
一本の草を間に置き、清らかな微笑みの シーターは答えた。「あなたの心を私から離しなさい。あなたの身内の人々に心を喜ばせなさい。」
5.21.4
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत्।
अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ॥ ५.२१.४ ॥
罪深き者よ、悪を行う者が成功を望むのにふさわしくないように、あなたが私を望むのはふさわしくない。一夫の妻である私は、非難される不当な行いはしない。
5.21.5
कुलं सम्प्राप्तया पुण्यं कुले महति जातया।
एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ॥ ५.२१.५ ॥
偉大な家系に生まれ、清らかな家に嫁いだ栄光あるヴァイデーヒーは、このように言って、そのラーヴァナに告げた。
5.21.6
रावणं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्।
नाहमौपयिकी भार्या परभार्या सती तव ॥ ५.२१.६ ॥
ラーヴァナに背を向けて、シーターは再びこう言った。「私はあなたにふさわしい妻ではありません。私は他人の妻であり、貞節な女です。」
5.21.7
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर।
यथा तव तथान्येषां रक्ष्या दारा निशाचर ॥ ५.२१.७ ॥
夜行者よ、ダルマをよく見つめ、善き人々の誓いをよく守れ。お前の妻たちをお前が守るべきであるように、他人の妻たちも彼らが守るべきなのだ。
5.21.8
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्।
अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम्।
नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥ ५.२१.८ ॥
自分を手本として、自分の妻たちにこそ喜びを見出せ。自分の妻に満足せず、移り気で感覚の定まらない、欺く心の者を、他人の妻たちは破滅へと導くのだ。
5.21.9
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे।
यथा हि विपरीता ते बुद्धिराचारवर्जिता ॥ ५.२१.९ ॥
ここには善き人々がいないのか、いるのにお前は善き人々に従わないのか。お前の知恵は倒錯し、正しい行いを欠いてしまった。
5.21.10
वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः।
राक्षसानामभावाय त्वं वा न प्रतिपद्यसे ॥ ५.२१.१० ॥
虚偽に導かれた心の者は、賢者が説いた益となる言葉を受け入れない。羅刹たちの滅亡のためであっても、お前はそれを受け入れないのか。
5.21.11
अकृतात्मानमासाद्य राजानमनये रतम्।
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ ५.२१.११ ॥
自らを制しきれず、不正を楽しむ王のもとに身を寄せれば、繁栄する国も都市も滅びてしまうのだ。
5.21.12
तथैव त्वां समासाद्य लंका रत्नौघसंकुला।
अपराधात् तवैकस्य नचिराद् विनशिष्यति ॥ ५.२१.१२ ॥
同様に、宝石の山に満ちたラーンカーも、お前のもとに身を寄せたことによって、お前のただ一つの過ちのために、やがて滅びるであろう。
5.21.13
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः।
अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ॥ ५.२१.१३ ॥
ラーヴァナよ、自らの行いによって打ち倒され、先見の明を欠く者の、悪行者の滅亡を、生きとし生けるものは喜ぶ。
5.21.14
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः।
दिष्ट्यैतद् व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥ ५.२१.१४ ॥
こうして虐げられた人々はお前を悪行者と呼び、喜んで言うだろう。「恐ろしい者は幸運にもこの災いに遭った」と。
5.21.15
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा।
अनन्या राघवेणाहं भास्करेण यथा प्रभा ॥ ५.२१.१५ ॥
権勢にも富にも、私は誘惑されることはできない。ちょうど光が太陽から離れないように、私はラーガヴァ(ラーマ)から離れることはない。
5.21.16
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्।
कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ॥ ५.२१.१६ ॥
世界の主のあの尊ばれた腕を枕にした私が、どうして他の誰かの腕を枕にできるだろうか。
5.21.17
अहमौपयिकी भार्या तस्यैव च धरापतेः।
व्रतस्नातस्य विद्येव विप्रस्य विदितात्मनः ॥ ५.२१.१७ ॥
私はあの大地の主にふさわしい妻である。ちょうど誓戒の沐浴を終え、自己を知った婆羅門にとっての知識のように。
5.21.18
साधु रावण रामेण मां समानय दुःखिताम्।
वने वासितया सार्धं करेण्वेव गजाधिपम् ॥ ५.२१.१८ ॥
ではラーヴァナよ、悲しむ私をラーマと再会させよ。森に住む雌象が象の王と再び会うように。
5.21.19
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता।
बन्धं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ॥ ५.२१.१९ ॥
ラーマは自らの地位を取り戻そうとして、友好を結ぼうとするだろう。お前も恐ろしい拘束を望まないのだから、あの人中の雄は友好を求めるであろう。
5.21.20
विदितः सर्वधर्मज्ञः शरणागतवत्सलः।
तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ॥ ५.२१.२० ॥
彼はあらゆる法に通じ、帰依する者を慈しむことで知られている。お前が生きたいのなら、彼と友好を結ぶがよい。
5.21.21
प्रसादयस्व त्वं चैनं शरणागतवत्सलम्।
मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥ ५.२१.२१ ॥
帰依する者を慈しむ彼の心を和らげよ。そして心を静めて、私を彼のもとへ送り返すべきである。
5.21.22
एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे।
अन्यथा त्वं हि कुर्वाणः परां प्राप्स्यसि चापदम् ॥ ५.२१.२२ ॥
このように、ラグを率いる最も優れた方に私を返すなら、お前に安泰があるだろう。さもなければ、別の行いをすれば、お前は大いなる災いに遭うだろう。
5.21.23
वर्जयेद् वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्।
त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः ॥ ५.२१.२३ ॥
投げられた雷霆は長く避けられるかもしれず、死神さえ長く遠ざけられるかもしれない。しかし、怒ったとしても、あの世界の主ラーガヴァは、お前のような者を見逃しはしないだろう。
5.21.24
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्।
शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ ५.२१.२४ ॥
インドラが投げた雷霆の轟きのように、ラーマの弓の大いなる音をお前は聞くことになるだろう。
5.21.25
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः।
इषवो निपतिष्यन्ति रामलक्ष्मणलक्षिताः ॥ ५.२१.२५ ॥
ここではまもなく、美しい節を持つ矢が、燃える口の蛇のように、ラーマとラクシュマナの名を刻まれて落ちるでしょう。
5.21.26
रक्षांसि निहनिष्यन्तः पुर्यामस्यां न संशयः।
असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ॥ ५.२१.२६ ॥
この都で羅刹を討ちながら、鷺の羽をつけた矢は、落ちるときにも必ず的中するでしょう。疑いはありません。
5.21.27
राक्षसेन्द्रमहासर्पान् स रामगरुडो महान्।
उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥ ५.२१.२७ ॥
あの偉大なラーマは、ガルダのように、羅刹の王という大蛇を素早く引き抜くでしょう。ヴァイナテーヤのガルダが蛇をさらうように。
5.21.28
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः।
असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥ ५.२१.२८ ॥
敵を制する私の夫は、まもなくあなたから私を取り戻すでしょう。ヴィシュヌが三歩でアスラから輝く栄光を取り返したように。
5.21.29
जनस्थाने हतस्थाने निहते रक्षसां बले।
अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥ ५.२१.२९ ॥
ジャナスタナで羅刹の軍勢が殺され、その地が荒らされた時、無力なお前は、羅刹よ、この不正を行った。
5.21.30
आश्रमं तत्तयोः शून्यं प्रविश्य नरसिंहयोः।
गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ॥ ५.२१.३० ॥
人中の二頭の獅子が視界から去った時、彼らの空っぽの庵に入り、卑劣な者よ、お前は私を奪い去った。
5.21.31
नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया।
शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव ॥ ५.२१.३१ ॥
ラーマとラクシュマナの匂いを嗅いだ者は、二頭の虎の前に犬が立てないように、彼らの前に立つことはできない。
5.21.32
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्।
वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य विग्रहे ॥ ५.२१.३२ ॥
インドラの両腕に捕らえられたヴリトラが、片腕の争いで握りを失ったように、あの二人との戦いにおいてお前の握りも不安定になるだろう。
5.21.33
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह।
तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥ ५.२१.३३ ॥
まもなく私の主ラーマは、サウミトリとともに、太陽が少しの水を吸い上げるように、矢でお前の命を奪うでしょう。
5.21.34
गिरिं कुबेरस्य गतोऽथवाऽऽलयं
सभां गतो वा वरुणस्य राज्ञः।
असंशयं दाशरथेर्विमोक्ष्यसे
महाद्रुमः कालहतोऽशनेरिव ॥ ५.२१.३४ ॥
クベーラの山へ行こうと、彼の館へ行こうと、あるいはヴァルナ王の集会へ行こうと、お前はダシャラタの子から必ず逃れられないだろう。時に打たれた大樹が雷に倒れるように。