Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.23.1

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः।
संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥ ५.२३.१ ॥

罗刹王罗波那——敌人的恐怖——如此对茂提丽说完,随即嘱咐了所有罗刹女,然后离去。

5.23.2

निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते।
राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ ५.२३.२ ॥

罗刹之主再次回到内宫之后,那些形貌可怖的罗刹女扑向悉多。

5.23.3

ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः।
परं परुषया वाचा वैदेहीमिदमब्रुवन् ॥ ५.२३.३ ॥

于是,被愤怒所迷乱的罗刹女走近悉多,以极其严厉的语气对毗提诃公主说了这些话。

5.23.4

पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः।
दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ ५.२३.४ ॥

悉多啊,你并不珍视成为罗波那的妻子——他是补罗斯底耶最杰出的后裔,大德的十首之王。

5.23.5

ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्।
आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥ ५.२३.५ ॥

此时名叫一髻的罗刹女,怒目发红,呼唤那纤腰的悉多,说道。

5.23.6

प्रजापतीनां षण्णां तु चतुर्थोऽयं प्रजापतिः।
मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ ५.२३.६ ॥

在六位生主之中,此人是第四位生主,乃梵天心生之子,名为补罗斯底耶,闻名于世。

5.23.7

पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः।
नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ ५.२३.७ ॥

光辉的大仙人毗首罗婆,是补罗斯底耶心生之子,其光芒与生主相等。

5.23.8

तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः।
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ ५.२३.८ ॥

他的儿子,广目的女子啊,是令敌人恐惧的罗波那。你应当成为这位罗刹之王的妻子。

5.23.9

मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे।
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ॥ ५.२३.९ ॥

我所说的话,美丽肢体的女子啊,你为何不肯接受?这时,名叫哈里遮陀的罗刹女说了这些话。

5.23.10

विवृत्य नयने कोपान्मार्जारसदृशेक्षणा।
येन देवास्त्रयस्त्रिंशद् देवराजश्च निर्जितः ॥ ५.२३.१० ॥

她怒目圆睁,以猫一般的目光说道:那位击败了三十三天神与天王的人,

5.23.11

तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि।
वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः।
बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लिप्ससे ॥ ५.२३.११ ॥

你应当成为这位罗刹之王的妻子。那位因勇力而自豪、在战场上从不退缩、强大而有威势的英雄,你为何不愿做他的妻子?

5.23.12

प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः।
सर्वासां च महाभागां त्वामुपैष्यति रावणः ॥ ५.२३.१२ ॥

摒弃了他心爱而备受尊敬的妻子之后,大力的国王罗波那将来到你身边,你是所有女子中最有福的。

5.23.13

समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्।
अन्तःपुरं तदुत्सृज्य त्वामुपैष्यति रावणः ॥ ५.२३.१३ ॥

罗波那将离开那座拥有千名女子、饰以种种珍宝的后宫,来到你的身边。

5.23.14

अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्।
असकृद् भीमवीर्येण नागा गन्धर्वदानवाः।
निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ ५.२३.१४ ॥

这时另一位名叫毗迦吒的罗刹女说道:“那位以可怖的威力在战场上屡次战胜龙众、乾闼婆与檀那婆的人,已经来到你的身边了。”

5.23.15

तस्य सर्वसमृद्धस्य रावणस्य महात्मनः।
किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ॥ ५.२३.१५ ॥

你为何不愿成为那位富足万分、心胸广大的罗波那,罗刹之王的妻子呢,卑贱的女人?

5.23.16

ततस्तां दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्।
यस्य सूर्यो न तपति भीतो यस्य स मारुतः।
न वाति स्मायतापाङ्गि किं त्वं तस्य न तिष्ठसे ॥ ५.२३.१६ ॥

这时名叫杜尔穆可的罗刹女对她说道:“令太阳因畏惧而不灼热、令风因畏惧而不吹拂的那位,长眼睛的女子啊,你为何不站在他身边?”

5.23.17

पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्।
शैलाः सुस्रुवुः पानीयं जलदाश्च यदेच्छति ॥ ५.२३.१७ ॥

令树木因畏惧而降下花雨,令山岭流出清水,令云朵做他所愿之事的那位——

5.23.18

तस्य नैर्ऋतराजस्य राजराजस्य भामिनि।
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥ ५.२३.१८ ॥

你为何不下定决心,成为那位罗刹王、王中之王罗波那的妻子呢,美人?

5.23.19

साधु ते तत्त्वतो देवि कथितं साधु भामिनि।
गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ ५.२३.१९ ॥

女神啊,你说得确实好,美丽的人。请接受我的话吧,笑容甜美的人;否则你将不会(处于好的境地)。