ヴァールミーキのラーマーヤナ · サルガ 5.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.26.1
प्रसक्ताश्रुमुखी त्वेवं ब्रुवती जनकात्मजा।
अधोगतमुखी बाला विलप्तुमुपचक्रमे ॥ ५.२६.१ ॥
このように語りながら、涙に濡れた顔を伏せて、ジャナカの娘シーターはその若い女性として嘆き始めた。
5.26.2
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती।
उपावृत्ता किशोरीव विचेष्टन्ती महीतले ॥ ५.२६.२ ॥
狂ったように、正気を失ったように、心乱れて嘆き、若い牝鹿のように地に身をよじらせた。
5.26.3
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा।
रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥ ५.२६.३ ॥
ラーガヴァが油断していた隙に、望む姿になれる羅刹ラーヴァナが、力ずくで私を奪い去り、私は叫び続けた。
5.26.4
राक्षसीवशमापन्ना भर्त्स्यमाना च दारुणम्।
चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ॥ ५.२६.४ ॥
羅刹女たちの支配下に落ち、残酷に脅され、深い悲しみに苦しみながら考える。私には生きる気力がない。
5.26.5
नहि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः।
वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥ ५.२६.५ ॥
羅刹たちの中に住み、大戦車の勇士ラーマなしには、私にとって命も富も装身具も何の意味もない。
5.26.6
अश्मसारमिदं नूनमथवाप्यजरामरम्।
हृदयं मम येनेदं न दुःखेन विशीर्यते ॥ ५.२६.६ ॥
私のこの心はきっと石の精髄でできているのだろう。あるいは老いも死もないのだろう。悲しみにも砕けないのだから。
5.26.7
धिङ्मामनार्यामसतीं याहं तेन विना कृता।
मुहूर्तमपि जीवामि जीवितं पापजीविका ॥ ५.२६.७ ॥
不貞で卑しい私に恥あれ。夫と離れて、なお一瞬でも生きている。これは罪深い生である。
5.26.8
चरणेनापि सव्येन न स्पृशेयं निशाचरम्।
रावणं किं पुनरहं कामयेयं विगर्हितम् ॥ ५.२६.८ ॥
左足でさえ、あの夜歩く者ラーヴァナには触れまい。ましてや、この卑しい者を望むことなどあろうか。
5.26.9
प्रत्याख्यानं न जानाति नात्मानं नात्मनः कुलम्।
यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ॥ ५.२६.९ ॥
残酷な性質から私に懇願しようとする者は、拒絶を知らず、自分自身も、自らの家系も知らぬ。
5.26.10
छिन्ना भिन्ना प्रभिन्ना वा दीप्ता वाग्नौ प्रदीपिता।
रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ॥ ५.२६.१० ॥
切り裂かれ、引き裂かれ、砕かれ、あるいは火で焼かれようとも、ラーヴァナのもとへは決して行かない。このような嘆きに、なぜこれほど長く欺かれてきたのか。
5.26.11
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः।
सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ ५.२६.११ ॥
ラガヴァは名高く、賢く、恩を知り、慈悲深く、品行正しい。だが私の運が尽きたため、今や非情になったのではないかと思う。
5.26.12
राक्षसानां जनस्थाने सहस्राणि चतुर्दश।
एकेनैव निरस्तानि स मां किं नाभिपद्यते ॥ ५.२६.१२ ॥
ジャナスターナでは、一人で一万四千の羅刹を滅ぼしたのに、なぜ彼は私のもとへ来ないのか。
5.26.13
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा।
समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ ५.२६.१३ ॥
力の弱い羅刹ラーヴァナに私は囚われている。しかし夫は戦いでラーヴァナを討つことが確かにできる。
5.26.14
विराधो दण्डकारण्ये येन राक्षसपुंगवः।
रणे रामेण निहतः स मां किं नाभिपद्यते ॥ ५.२६.१४ ॥
ダンダカの森で、ラーマは羅刹の雄であるヴィラーダを戦いで殺した。なぜ彼は私のもとに来ないのか。
5.26.15
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा।
न तु राघवबाणानां गतिरोधो भविष्यति ॥ ५.२६.१५ ॥
ラン力は確かに海の真ん中にあり攻め難い。しかしラーガヴァの矢の進路を遮ることはできないだろう。
5.26.16
किं नु तत् कारणं येन रामो दृढपराक्रमः।
रक्षसापहृतां भार्यामिष्टां यो नाभिपद्यते ॥ ५.२६.१६ ॥
羅刹に奪われた愛する妻のもとへ、堅固な勇気のラーマが来ないのはいったいなぜなのか。
5.26.17
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः।
जानन्नपि स तेजस्वी धर्षणां मर्षयिष्यति ॥ ५.२६.१७ ॥
ここにいる私を、ラクシュマナの兄は知らないのではないかと私は疑っている。たとえ知っていても、あの輝かしい方はこの侮辱を耐え忍ぶだろう。
5.26.18
हृतेति मां योऽधिगत्य राघवाय निवेदयेत्।
गृध्रराजोऽपि स रणे रावणेन निपातितः ॥ ५.२६.१८ ॥
私を見つけ、「彼女は奪われた」とラーガヴァに報告するはずだった鷲の王さえ、戦いでラーヴァナに討ち倒された。
5.26.19
कृतं कर्म महत् तेन मां तथाभ्यवपद्यता।
तिष्ठता रावणवधे वृद्धेनापि जटायुषा ॥ ५.२६.१९ ॥
老いてもなお、ラーヴァナの殺害に揺るがず立ち、私を救うために進み出たジャターユーは、偉大な行いをした。
5.26.20
यदि मामिह जानीयाद् वर्तमानां हि राघवः।
अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ ५.२६.२० ॥
もしラーガヴァが私がここで生きていると知れば、今日にも怒りに燃え、その矢で世界から羅刹を一掃するでしょう。
5.26.21
निर्दहेच्च पुरीं लङ्कां निर्दहेच्च महोदधिम्।
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥ ५.२६.२१ ॥
彼はランカーの都を焼き、大海さえも焼き、卑しきラーヴァナの名声と名前までも滅ぼすだろう。
5.26.22
ततो निहतनाथानां राक्षसीनां गृहे गृहे।
यथाहमेवं रुदती तथा भूयो न संशयः ॥ ५.२६.२२ ॥
その時、夫を殺された羅刹の女たちは家ごとに、今私が泣いているように再び泣くでしょう。疑いはありません。
5.26.23
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः।
नहि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ॥ ५.२६.२३ ॥
ラーマとラクシュマナはランカーで羅刹たちを探し出し、そこを羅刹のない地にするでしょう。この二人に見つけられた敵は、一瞬たりとも生きてはいられません。
5.26.24
चिताधूमाकुलपथा गृध्रमण्डलमण्डिता।
अचिरेणैव कालेन श्मशानसदृशी भवेत् ॥ ५.२६.२४ ॥
葬儀の火の煙に道が覆われ、禿鷹の群れに飾られたその都は、やがてまるで火葬場のようになるでしょう。
5.26.25
अचिरेणैव कालेन प्राप्स्याम्येनं मनोरथम्।
दुष्प्रस्थानोऽयमाभाति सर्वेषां वो विपर्ययः ॥ ५.२६.२५ ॥
ほどなく、時が来れば、私はこの願いを成し遂げるだろう。しかしこの不吉な出発は、あなたがた皆にとって逆転の兆しに見える。
5.26.26
यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु।
अचिरेणैव कालेन भविष्यति हतप्रभा ॥ ५.२६.२६ ॥
ラṅカーに見える不吉な兆しのとおり、ほどなく時が経てば、この都は輝きを失うだろう。
5.26.27
नूनं लङ्का हते पापे रावणे राक्षसाधिपे।
शोषमेष्यति दुर्धर्षा प्रमदा विधवा यथा ॥ ५.२६.२७ ॥
まことに、邪悪な羅刹王ラーヴァナが殺されたなら、この難攻不落のラṅカーは寡婦のように萎れるだろう。
5.26.28
पुण्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा।
भविष्यति पुरी लङ्का नष्टभर्त्री यथांगना ॥ ५.२६.२८ ॥
聖なる祭りに満ちたラṅカーは、羅刹たちとともに夫を失った女のようになるだろう。
5.26.29
नूनं राक्षसकन्यानां रुदतीनां गृहे गृहे।
श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ॥ ५.२६.२९ ॥
まことに、ほどなくここで、家々で泣く羅刹の乙女たちの、悲嘆に苦しむ声を私は聞くだろう。
5.26.30
सान्धकारा हतद्योता हतराक्षसपुंगवा।
भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ॥ ५.२६.३० ॥
闇に包まれ、光を失い、優れた羅刹たちは殺され、ラṅカーの都はラーマの矢によって焼き尽くされるだろう。
5.26.31
यदि नाम स शूरो मां रामो रक्तान्तलोचनः।
जानीयाद् वर्तमानां यां राक्षसस्य निवेशने ॥ ५.२६.३१ ॥
目尻の赤いあの勇士ラーマが、私がラークシャサの館に身を置いていることを知ったなら——
5.26.32
अनेन तु नृशंसेन रावणेनाधमेन मे।
समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥ ५.२६.३२ ॥
この残酷で卑劣なラーヴァナが私に定めた期限が、今まさに訪れた。
5.26.33
स च मे विहितो मृत्युरस्मिन् दुष्टेन वर्तते।
अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः ॥ ५.२६.३३ ॥
私に定められた死は、この邪悪な者によって迫っている。罪を犯すこれらのナイルリタは、してはならぬことを知らない。
5.26.34
अधर्मात् तु महोत्पातो भविष्यति हि साम्प्रतम्।
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ॥ ५.२६.३४ ॥
非法(アダルマ)のゆえに、今まさに大いなる災いが必ず起こるだろう。肉食のこれらのラークシャサは法(ダルマ)を知らない。
5.26.35
ध्रुवं मां प्रातराशार्थं राक्षसः कल्पयिष्यति।
साहं कथं करिष्यामि तं विना प्रियदर्शनम् ॥ ५.२६.३५ ॥
きっとあのラークシャサは朝食のために私を用意するだろう。あの愛らしい姿の人なしに、私はどうしたらよいのか。
5.26.36
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता।
क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥ ५.२६.३६ ॥
目尻の赤いラーマに会えず、深く悲しむ私は、夫なしに間もなく太陽神の子ヤマ神に会うことになるだろう。
5.26.37
नाजानाज्जीवतीं रामः स मां भरतपूर्वजः।
जानन्तौ तु न कुर्यातां नोर्व्यां हि परिमार्गणम् ॥ ५.२६.३७ ॥
バラタの兄ラーマは、私が生きていることを知らない。知っていれば、必ず大地を捜索させたであろう。
5.26.38
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः।
देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥ ५.२६.३८ ॥
きっと私の悲しみのために、ラクシュマナの兄であるあの勇士は、大地で身体を捨て、ここから神々の世界へ去ったのだ。
5.26.39
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
मम पश्यन्ति ये वीरं रामं राजीवलोचनम् ॥ ५.२६.३९ ॥
わが勇士、蓮の眼のラーマを見る神々、ガンダルヴァ、シッダ、大仙たちは幸いである。
5.26.40
अथवा नहि तस्यार्थो धर्मकामस्य धीमतः।
मया रामस्य राजर्षेर्भार्यया परमात्मनः ॥ ५.२६.४० ॥
あるいは、ダルマを愛する賢明な王仙、至上のアートマンであるラーマにとって、妻である私にはもはや用がないのかもしれない。
5.26.41
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यदृश्यतः।
नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ॥ ५.२६.४१ ॥
愛情は見えるときにこそ生じ、見えないものとの友情はない。滅ぼすのは恩知らずだけ。ラーマは滅ぼさないだろう。
5.26.42
किं वा मय्यगुणाः केचित् किं वा भाग्यक्षयो हि मे।
या हि सीता वरार्हेण हीना रामेण भामिनी ॥ ५.२६.४२ ॥
私に何か欠点があるのか、それとも私の幸運が尽きたのか。最上の夫にふさわしいラーマから、私シーターは引き離されてしまった。
5.26.43
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मना।
रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ॥ ५.२६.४३ ॥
偉大な魂のラーマを失って生きるよりは、死ぬ方が私には良い。彼は清廉な振る舞いで、勇敢で、敵を滅ぼす者である。
5.26.44
अथवा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ।
भ्रातरौ हि नरश्रेष्ठौ चरन्तौ वनगोचरौ ॥ ५.२६.४४ ॥
あるいは、人中の英雄であるあの二人の兄弟は、武器を置き、森で根や果実を食べ、森の住人として歩き回っているのかもしれない。
5.26.45
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना।
छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ॥ ५.२६.४५ ॥
あるいは、邪悪な羅刹の王ラーヴァナが策略によって、あの勇敢な兄弟ラーマとラクシュマナを殺させたのかもしれない。
5.26.46
साहमेवंविधे काले मर्तुमिच्छामि सर्वतः।
न च मे विहितो मृत्युरस्मिन् दुःखेऽतिवर्तति ॥ ५.२६.४६ ॥
このような状況で、私は完全に死にたいと思う。しかしこの苦しみの中で時が過ぎても、私には死が定められていない。
5.26.47
धन्याः खलु महात्मानो मुनयः सत्यसम्मताः।
जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ॥ ५.२६.४७ ॥
真実によって尊ばれ、自己を制し、大いに幸運な偉大な聖者たちは、まことに幸いである。彼らには好ましいものも好ましくないものもない。
5.26.48
प्रियान्न सम्भवेद् दुःखमप्रियादधिकं भवेत्।
ताभ्यां हि ते वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ ५.२६.४८ ॥
悲しみは好ましいものからは生じない。好ましくないものからはさらに大きな悲しみが生じる。その両方から離れた偉大な魂の人々に礼拝を捧げる。
5.26.49
साहं त्यक्ता प्रियेणैव रामेण विदितात्मना।
प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥ ५.२६.४९ ॥
自らを知る愛しきラーマに見捨てられた私は、罪深いラーヴァナの支配下に落ち、命を捨てるでしょう。