ヴァールミーキのラーマーヤナ · サルガ 5.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.29.1
तथागतां तां व्यथितामनिन्दितां
व्यतीतहर्षां परिदीनमानसाम्।
शुभां निमित्तानि शुभानि भेजिरे
नरं श्रिया जुष्टमिवोपसेविनः ॥ ५.२९.१ ॥
悲しみに沈み、非難すべきところのなく、喜びを失い、心の沈んだ彼女のもとに、吉兆が現れた。あたかも吉祥に恵まれた人に従者が仕えるように。
5.29.2
तस्याः शुभं वाममरालपक्ष्म-
राज्यावृतं कृष्णविशालशुक्लम्।
प्रास्पन्दतैकं नयनं सुकेश्या
मीनाहतं पद्ममिवाभिताम्रम् ॥ ५.२९.२ ॥
その美しい髪の女性の左目は、白鳥の羽のような睫毛に囲まれ、黒と広い白の部分を持ち、魚に打たれた深紅の蓮のように吉兆として震えた。
5.29.3
भुजश्च चार्वञ्चितवृत्तपीनः
परार्घ्यकालागुरुचन्दनार्हः।
अनुत्तमेनाघ्युषितः प्रियेण
चिरेण वामः समवेपताशु ॥ ५.२९.३ ॥
その美しく曲がった、豊かな左腕は、最上の沈香や白檀にふさわしく、比類なき愛しい人に長く抱かれていたが、たちまち震えた。
5.29.4
गजेन्द्रहस्तप्रतिमश्च पीन-
स्तयोर्द्वयोः संहतयोस्तु जातः।
प्रस्पन्दमानः पुनरूरुरस्या
रामं पुरस्तात् स्थितमाचचक्षे ॥ ५.२९.४ ॥
象の鼻のように豊かで寄り添う彼女の二つの太腿のうち一つが再び震え、目の前に立つラーマを告げ知らせた。
5.29.5
शुभं पुनर्हेमसमानवर्ण-
मीषद्रजोध्वस्तमिवातुलाक्ष्याः।
वासः स्थितायाः शिखराग्रदन्त्याः
किंचित् परिस्रंसत चारुगात्र्याः ॥ ५.२९.५ ॥
比類なき目を持ち、山頂のような歯を持ち、美しい手足を持つ彼女の、黄金色で、わずかに塵がついたような吉祥の衣が、少しずり落ちた。
5.29.6
एतैर्निमित्तैरपरैश्च सुभ्रूः
संचोदिता प्रागपि साधुसिद्धैः।
वातातपक्लान्तमिव प्रणष्टं
वर्षेण बीजं प्रतिसंजहर्ष ॥ ५.२९.६ ॥
これらの吉兆やほかの確かな徴しに励まされ、眉の美しいシーターは以前にも喜んだことがあった。風と日照で萎れた種が雨を受けて再び芽吹くように。
5.29.7
तस्याः पुनर्बिम्बफलोपमोष्ठं
स्वक्षिभ्रुकेशान्तमरालपक्ष्म।
वक्त्रं बभासे सितशुक्लदंष्ट्रं
राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥ ५.२९.७ ॥
ビンバの実のような唇をもち、目も眉も髪の先まで美しく、睫毛は反り、白く輝く歯をもつ彼女の顔は、ラーフの口から解き放たれた月のように輝いた。
5.29.8
सा वीतशोका व्यपनीततन्द्रा
शान्तज्वरा हर्षविबुद्धसत्त्वा।
अशोभतार्या वदनेन शुक्ले
शीतांशुना रात्रिरिवोदितेन ॥ ५.२९.८ ॥
悲しみから解放され、疲れと眠気が去り、熱も静まり、喜びに心が目覚めた気高い女性は、白半月に冷たい光の月が昇って夜が輝くように、その顔で輝いた。