蚁垤《罗摩衍那》 · 篇 5.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.3.1
स लम्बशिखरे लम्बे लम्बतोयदसंनिभे।
सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः ॥ ५.३.१ ॥
站在那高耸、如长垂雨云般的山峰上,智慧的风神之子哈努曼振作决心,准备前行。
5.3.2
निशि लंकां महासत्त्वो विवेश कपिकुञ्जरः।
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ ५.३.२ ॥
夜间,心胸豁达的哈努曼——猴群中的象王——进入了楼卡城。此城林苑优美、水源丰沛,由罗波那守护。
5.3.3
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्।
सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ ५.३.३ ॥
楼阁如秋日云朵般装点其间,声如海潮轰鸣,又为海风所拂——这便是楼卡城。
5.3.4
सुपुष्टबलसम्पुष्टां यथैव विटपावतीम्।
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ ५.३.४ ॥
因其军力而强盛,如枝叶繁茂的大树;飞檐拱门美轮美奂,白色的城门与门楼巍然矗立——这便是楼卡城。
5.3.5
भुजगाचरितां गुप्तां शुभां भोगवतीमिव।
तां सविद्युद्घनाकीर्णां ज्योतिर्गणनिषेविताम् ॥ ५.३.५ ॥
这座楼卡城有蛇类栖居,守卫森严而美好,仿佛那繁华的薄伽婆提城;闪电与乌云密布其上,群星之光环绕相伴。
5.3.6
चण्डमारुतनिर्ह्रादां यथा चाप्यमरावतीम्।
शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ५.३.६ ॥
狂风呼啸之声回荡其间,恰如因陀罗的阿摩罗跋提城;楼卡城被一道巨大的黄金城墙所环绕。
5.3.7
किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्।
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ५.३.७ ॥
抵达这座装饰着旌旗、回响着铃网之声的城市后,哈奴曼欣喜地突然走近了城墙。
5.3.8
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः।
जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः ॥ ५.३.८ ॥
哈奴曼心中充满惊异,四面环顾这座城市:它的城门是黄金的,台阶是猫眼宝石所砌。
5.3.9
वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः।
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ ५.३.९ ॥
以金刚石、水晶与珍珠装饰,地面镶嵌宝石,排水沟由熔化的黄金制成,洁白纯净如白银。
5.3.10
वैदूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः।
चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः ॥ ५.३.१० ॥
台阶由猫眼宝石砌成,石缝间嵌着水晶尘,支柱精美,吉祥的楼阁仿佛飞升入天空。
5.3.11
क्रौञ्चबर्हिणसंघुष्टै राजहंसनिषेवितैः।
तूर्याभरणनिर्घोषैः सर्वतः परिनादिताम् ॥ ५.३.११ ॥
鹤与孔雀的鸣叫回荡其间,王家天鹅栖息于此,乐器与饰物之声四处回响。
5.3.12
वस्वोकसारप्रतिमां समीक्ष्य नगरीं ततः।
खमिवोत्पतितां लंकां जहर्ष हनुमान् कपिः ॥ ५.३.१२ ॥
哈奴曼望见这座如同诸婆神居所的城市,以及仿佛飞升天空的楞伽,这猴子欢喜不已。
5.3.13
तां समीक्ष्य पुरीं लंकां राक्षसाधिपतेः शुभाम्।
अनुत्तमामृद्धिमतीं चिन्तयामास वीर्यवान् ॥ ५.३.१३ ॥
观察了罗刹之主那座壮美、无与伦比而繁盛的楞伽城之后,这位勇猛者陷入沉思。
5.3.14
नेयमन्येन नगरी शक्या धर्षयितुं बलात्।
रक्षिता रावणबलैरुद्यतायुधपाणिभिः ॥ ५.३.१४ ॥
此城不能被他人以武力攻取,因为罗波那的军队手持高举的兵器守卫着它。
5.3.15
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः।
प्रसिद्धेयं भवेद् भूमिर्मैन्दद्विविदयोरपि ॥ ५.३.१५ ॥
此地或许可由顽陀与安伽达,或大猴苏舍那,还有曼达与德维维达所成就。
5.3.16
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः।
ऋक्षस्य कपिमुख्यस्य मम चैव गतिर्भवेत् ॥ ५.३.१६ ॥
维瓦斯瓦特之子、哈里之子、熊王俱舍波尔凡,以及猴群之主的我,都能到达此地。
5.3.17
समीक्ष्य च महाबाहो राघवस्य पराक्रमम्।
लक्ष्मणस्य च विक्रान्तमभवत् प्रीतिमान् कपिः ॥ ५.३.१७ ॥
思及罗伽瓦(罗摩)的威力与拉克什曼那的勇猛,啊,大臂者,那猴子欢喜了。
5.3.18
तां रत्नवसनोपेतां गोष्ठागारावतंसिकाम्।
यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ ५.३.१८ ॥
她(楞伽)披着宝饰之衣,以牛栏与库房为冠,以军械库为双乳,繁盛而美丽,宛如一位饰以珠宝的女子。
5.3.19
तां नष्टतिमिरां दीपैर्भास्वरैश्च महाग्रहैः।
नगरीं राक्षसेन्द्रस्य स ददर्श महाकपिः ॥ ५.३.१९ ॥
那罗刹王的城市,黑暗已被明亮的灯火与大星照亮,大猴看见了它。
5.3.20
अथ सा हरिशार्दूलं प्रविशन्तं महाकपिम्।
नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ ५.३.२० ॥
那时,这座城以自己的形貌,看见了进入城中的大猴——猴中猛虎、风神之子。
5.3.21
सा तं हरिवरं दृष्ट्वा लंका रावणपालिता।
स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ ५.३.२१ ॥
罗波那所守护的楞伽,看见那猴中之最,便自行站起,面目扭曲而可怖。
5.3.22
पुरस्तात् तस्य वीरस्य वायुसूनोरतिष्ठत।
मुञ्चमाना महानादमब्रवीत् पवनात्मजम् ॥ ५.३.२२ ॥
她挡在那位英雄、风神之子面前,发出巨大的吼声,对风神之子说道。
5.3.23
कस्त्वं केन च कार्येण इह प्राप्तो वनालय।
कथयस्वेह यत् तत्त्वं यावत् प्राणा धरन्ति ते ॥ ५.३.२३ ॥
居于林中的,你是谁?为何事来到这里?趁你尚有性命,在此如实说来。
5.3.24
न शक्यं खल्वियं लंका प्रवेष्टुं वानर त्वया।
रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ ५.३.२४ ॥
猴子啊,你实在不可能进入这座楞伽;它四面都被罗波那的军队严密守卫着。
5.3.25
अथ तामब्रवीद् वीरो हनुमानग्रतः स्थिताम्।
कथयिष्यामि तत् तत्त्वं यन्मां त्वं परिपृच्छसे ॥ ५.३.२५ ॥
那时英雄哈奴曼对站在他面前的她说:"你所问的真相,我将告诉你。"
5.3.26
का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसे।
किमर्थं चापि मां क्रोधान्निर्भर्त्सयसि दारुणे ॥ ५.३.२६ ॥
"你是谁,长着丑陋的眼睛,站在城门口?为何愤怒地威胁我,残忍的女人?"
5.3.27
हनुमद्वचनं श्रुत्वा लंका सा कामरूपिणी।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ ५.३.२७ ॥
哈奴曼的话传入耳中,那能随意变化形貌的楞伽女勃然大怒,对风之子说出了严厉的话。
5.3.28
अहं राक्षसराजस्य रावणस्य महात्मनः।
आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ ५.३.२८ ॥
我是等待伟大的罗刹王罗波那号令的无敌者,守护着这座城市。
5.3.29
न शक्यं मामवज्ञाय प्रवेष्टुं नगरीमिमाम्।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ ५.३.२९ ॥
无视我而进入这座城市是不可能的;今天你将失去性命,被我杀死,永远长眠。
5.3.30
अहं हि नगरी लंका स्वयमेव प्लवङ्गम।
सर्वतः परिरक्षामि अतस्ते कथितं मया ॥ ५.३.३० ॥
猴子啊!我自己就是楞伽城。我从四面守护着它,所以才告诉你这些。
5.3.31
लंकाया वचनं श्रुत्वा हनुमान् मारुतात्मजः।
यत्नवान् स हरिश्रेष्ठः स्थितः शैल इवापरः ॥ ५.३.३१ ॥
闻听楞伽之言,风之子哈努曼,这位警觉的猴中之最,屹立如另一座山。
5.3.32
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः।
आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥ ५.३.३२ ॥
见她化作女子之形,那智慧而坚定的猴中之最、跳跃之首,于是开口说话。
5.3.33
द्रक्ष्यामि नगरीं लंकां साट्टप्राकारतोरणाम्।
इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे ॥ ५.३.३३ ॥
我要观看楞伽城,它有楼阁、城墙和门楼;我为此而来,心中充满好奇。
5.3.34
वनान्युपवनानीह लंकायाः काननानि च।
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ ५.३.३४ ॥
我来此确实是为了观看楞伽的森林、园林和丛林,以及四面的主要房屋。
5.3.35
तस्य तद् वचनं श्रुत्वा लंका सा कामरूपिणी।
भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ ५.३.३५ ॥
她听了他的话,这位能随意变化形态的楞伽,又以严厉的言辞开口说道。
5.3.36
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्।
न शक्यं ह्यद्य ते द्रष्टुं पुरीयं वानराधम ॥ ५.३.३६ ॥
愚蠢的猴中最卑下者!不先战胜我——我由罗刹之主守护——你今日便无法看见此城。
5.3.37
ततः स हरिशार्दूलस्तामुवाच निशाचरीम्।
दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ५.३.३७ ॥
于是那位猴中猛虎对那夜行女说:善女,我看过此城之后,将原路返回。
5.3.38
ततः कृत्वा महानादं सा वै लंका भयंकरम्।
तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ ५.३.३८ ॥
于是,楞伽发出可怕的大吼,迅速用手掌击打猴中之最。
5.3.39
ततः स हरिशार्दूलो लंकया ताडितो भृशम्।
ननाद सुमहानादं वीर्यवान् मारुतात्मजः ॥ ५.३.३९ ॥
于是那猴中猛虎、有力的风之子被楞伽重击,发出巨大的吼声。
5.3.40
ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः।
मुष्टिनाभिजघानैनां हनुमान् क्रोधर्मूच्छितः ॥ ५.३.४० ॥
于是哈努曼被愤怒冲昏,将左手手指蜷成拳头,一拳击中了她。
5.3.41
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः।
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी।
पपात सहसा भूमौ विकृताननदर्शना ॥ ५.३.४१ ॥
他想"这是女人",自己并未大发雷霆。但那一击之下,她四肢失控,夜行女子忽然倒在地上,面容扭曲难看。
5.3.42
ततस्तु हनुमान् वीरस्तां दृष्ट्वा विनिपातिताम्।
कृपां चकार तेजस्वी मन्यमानः स्त्रियं च ताम् ॥ ५.३.४२ ॥
于是英雄哈努曼见她倒地,以为她是女子,这位光辉者便对她生出怜悯。
5.3.43
ततो वै भृशमुद्विग्ना लंका सा गद्गदाक्षरम्।
उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम् ॥ ५.३.४३ ॥
于是极为不安的楞伽以哽咽的声音,用不傲慢的言辞对跳跃的猴子哈奴曼说道。
5.3.44
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम।
समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥ ५.३.४४ ॥
请发慈悲,大臂者;请保护我,猴中之最。温和者啊,有德且大力的人会坚守约定的时限。
5.3.45
अहं तु नगरी लंका स्वयमेव प्लवङ्गम।
निर्जिताहं त्वया वीर विक्रमेण महाबल ॥ ५.३.४५ ॥
我本身就是楞伽城。跳跃者啊,英雄啊,大力者啊,我已被你的勇武所征服。
5.3.46
इदं च तथ्यं शृणु मे ब्रुवन्त्या वै हरीश्वर।
स्वयं स्वयम्भुवा दत्तं वरदानं यथा मम ॥ ५.३.४६ ॥
听我说这个真实的话,猴王啊。这是自生的梵天亲自赐给我的恩典。
5.3.47
यदा त्वां वानरः कश्चिद् विक्रमाद् वशमानयेत्।
तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ॥ ५.३.४७ ॥
当某只猴子以勇武将你制服时,你就应当知道,恐惧已降临到罗刹身上。
5.3.48
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात्।
स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ॥ ५.३.४८ ॥
温和者啊,我那注定的时刻因见到你今日已经到来。这是自生者所定的真实之事,无人能违背它。
5.3.49
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः।
रक्षसां चैव सर्वेषां विनाशः समुपागतः ॥ ५.३.४९ ॥
因为悉多,邪恶的罗波那王和所有罗刹的毁灭已经临近。
5.3.50
तत् प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्।
विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ ५.३.५० ॥
因此,猴中之最,进入这座由罗波那守护的城市,完成你在此所希望的一切事务吧。
5.3.51
प्रविश्य शापोपहतां हरीश्वर
पुरीं शुभां राक्षसमुख्यपालिताम्।
यदृच्छया त्वं जनकात्मजां सतीं
विमार्ग सर्वत्र गतो यथासुखम् ॥ ५.३.५१ ॥
猴王啊,进入这座被诅咒所困、由诸位罗刹首领守护的美丽城市,随心所欲地四处寻找忠贞的遮那伽之女吧。