蚁垤《罗摩衍那》 · 篇 5.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.32.1
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा।
वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगलम् ॥ ५.३२.१ ॥
于是她看见他隐身于枝叶之间,心绪不安;那人裹着白布,色泽黄褐,如同一团闪电。
5.32.2
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ ५.३२.२ ॥
她在那里看见那只猴子,他谦逊地坐着,言语和善,好似一堆盛开的无忧花,双眼如同烧红的黄金。
5.32.3
साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम्।
मैथिली चिन्तयामास विस्मयं परमं गता ॥ ५.३२.३ ॥
那时,她看见这位猴中最优秀者恭顺地站立,迈提利心中思量,极为惊异。
5.32.4
अहो भीममिदं सत्त्वं वानरस्य दुरासदम्।
दुर्निरीक्ष्यमिदं मत्वा पुनरेव मुमोह सा ॥ ५.३२.४ ॥
唉!这只猴子的形貌可怕而难以接近,连看都难。她这样想着,又一次昏厥了。
5.32.5
विललाप भृशं सीता करुणं भयमोहिता।
राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी ॥ ५.३२.५ ॥
被恐惧迷惑、为悲痛所苦的光彩照人的悉多,悲切地哀叹,呼喊:“罗摩啊,罗摩!”以及“罗什曼那!”
5.32.6
रुरोद सहसा सीता मन्दमन्दस्वरा सती।
साथ दृष्ट्वा हरिवरं विनीतवदुपागतम्।
मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥ ५.३२.६ ॥
贞节的悉多忽然以微弱低柔的声音哭泣。随后,她看见猴中最优秀者恭顺地走近,迈提利心想:“这莫非是梦?”光彩照人的她这样思量着。
5.32.7
सा वीक्षमाणा पृथुभुग्नवक्त्रं
शाखामृगेन्द्रस्य यथोक्तकारम्।
ददर्श पिंगप्रवरं महार्हं
वातात्मजं बुद्धिमतां वरिष्ठम् ॥ ५.३२.७ ॥
她凝视着他——那张宽阔而低垂的脸,这位听命行事的猴王之臣;她看见了风之子,淡黄色的、珍贵的,是智者中最杰出的。
5.32.8
सा तं समीक्ष्यैव भृशं विपन्ना
गतासुकल्पेव बभूव सीता।
चिरेण संज्ञां प्रतिलभ्य चैवं
विचिन्तयामास विशालनेत्रा ॥ ५.३२.८ ॥
看见他,她极度惊慌,仿佛失去了生气;过了很久,她才恢复知觉,这位明眸大眼的女子便如此思量起来。
5.32.9
स्वप्नो मयायं विकृतोऽद्य दृष्टः
शाखामृगः शास्त्रगणैर्निषिद्धः।
स्वस्त्यस्तु रामाय सलक्ष्मणाय
तथा पितुर्मे जनकस्य राज्ञः ॥ ५.३२.९ ॥
今日我见到这个梦:一只被经典所禁止的、形貌怪异的猴子。愿罗摩与罗什曼那平安,也愿我的父亲遮那迦王平安。
5.32.10
स्वप्नो हि नायं नहि मेऽस्ति निद्रा
शोकेन दुःखेन च पीडितायाः।
सुखं हि मे नास्ति यतो विहीना
तेनेन्दुपूर्णप्रतिमाननेन ॥ ५.३२.१० ॥
这不是梦,我也没有入睡。被忧伤与苦痛折磨的我没有快乐,因为我与那面容如满月的人分离了。
5.32.11
रामेति रामेति सदैव बुद्ध्या
विचिन्त्य वाचा ब्रुवती तमेव।
तस्यानुरूपं च कथां तदर्था-
मेवं प्रपश्यामि तथा शृणोमि ॥ ५.३२.११ ॥
心中常常思念他,口中呼唤着“罗摩,罗摩”,述说与他相称、专关于他的故事——我就这样看见他,这样听见他。
5.32.12
अहं हि तस्याद्य मनोभवेन
सम्पीडिता तद्गतसर्वभावा।
विचिन्तयन्ती सततं तमेव
तथैव पश्यामि तथा शृणोमि ॥ ५.३२.१२ ॥
今天我因他而被爱神(摩诺跋婆)折磨;我的一切情思都系于他身。始终只思念他,我便如此见他,如此听他。
5.32.13
मनोरथः स्यादिति चिन्तयामि
तथापि बुद्ध्यापि वितर्कयामि।
किं कारणं तस्य हि नास्ति रूपं
सुव्यक्तरूपश्च वदत्ययं माम् ॥ ५.३२.१३ ॥
我想这或许只是我欲念的幻影;然而我仍以理智思量。他本无形,为何这位形体清晰之人却对我说话?
5.32.14
नमोऽस्तु वाचस्पतये सवज्रिणे
स्वयम्भुवे चैव हुताशनाय।
अनेन चोक्तं यदिदं ममाग्रतो
वनौकसा तच्च तथास्तु नान्यथा ॥ ५.३२.१४ ॥
敬礼言语之主布利诃娑帕提;敬礼持金刚杵的因陀罗、自生的梵天,也敬礼火神阿耆尼。愿这位林中居者在我面前所说之言如此成就,而不是别样。