Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 5.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.34.1

तस्यास्तद् वचनं श्रुत्वा हनूमान् हरिपुंगवः।
दुःखाद् दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥ ५.३४.१ ॥

彼女の言葉を聞き、猿の中の最良者ハヌマーンは、悲しみに打ちひしがれた彼女に慰めの言葉を返した。

5.34.2

अहं रामस्य संदेशाद् देवि दूतस्तवागतः।
वैदेहि कुशली रामः स त्वां कौशलमब्रवीत् ॥ ५.३४.२ ॥

女神よ、私はラーマの言葉を携えて使者として参りました。ヴァイデーヒーよ、ラーマは無事でおられ、あなたの安否をお尋ねになっています。

5.34.3

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः।
स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥ ५.३४.३ ॥

梵天の武器とヴェーダを知り、ヴェーダに通じる者の中で最も優れたダシャラタの子ラーマが、女神よ、あなたの安否をお尋ねになりました。

5.34.4

लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः।
कृतवाञ्छोकसंतप्तः शिरसा तेऽभिवादनम् ॥ ५.३४.४ ॥

あなたの夫の愛する従者である、偉大な光輝のラクシュマナは、悲しみに苦しみ、頭を垂れてあなたに挨拶しました。

5.34.5

सा तयोः कुशलं देवी निशम्य नरसिंहयोः।
प्रतिसंहृष्टसर्वांगी हनूमन्तमथाब्रवीत् ॥ ५.३४.५ ॥

人中の二頭の獅子の無事を聞くと、女神は全身を喜びに震わせ、ハヌマーンに語りかけた。

5.34.6

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ ५.३४.६ ॥

なんと吉祥な言葉でしょう!けれどそれは世間の諺のように思えます。生きている人には、百年の後でも喜びが訪れるのだと。

5.34.7

तयोः समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता।
परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ ५.३४.७ ॥

二人の出会いに不思議な親愛の情が生まれ、安心した二人は互いに語り合った。

5.34.8

तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः।
सीतायाः शोकतप्तायाः समीपमुपचक्रमे ॥ ५.३४.८ ॥

彼女の言葉を聞いて、風の子ハヌマーンは悲しみに苦しむシーターに近づき始めた。

5.34.9

यथा यथा समीपं स हनूमानुपसर्पति।
तथा तथा रावणं सा तं सीता परिशङ्कते ॥ ५.३४.९ ॥

ハヌマーンが近づくほど、シーターは彼をラーヴァナだと疑った。

5.34.10

अहो धिग् धिक्कृतमिदं कथितं हि यदस्य मे।
रूपान्तरमुपागम्य स एवायं हि रावणः ॥ ५.३४.१० ॥

ああ、なんという恥辱!彼が私に言ったことは、まことに非難されるべきだ。この人こそ、別の姿に身を変えて来たラーヴァナなのだ。

5.34.11

तामशोकस्य शाखां तु विमुक्त्वा शोककर्शिता।
तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥ ५.३४.११ ॥

アショーカの木のその枝を離し、悲しみにやつれ、四肢の美しいシーターは、その木の下の地面に座った。

5.34.12

अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्।
सा चैनं भयसंत्रस्ता भूयो नैनमुदैक्षत ॥ ५.३४.१२ ॥

すると、その大力の者はジャナカの娘に礼拝した。しかし恐怖に震えるシーターは、もう二度と彼を見ようとはしなかった。

5.34.13

तं दृष्ट्वा वन्दमानं च सीता शशिनिभानना।
अब्रवीद् दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥ ५.३४.१३ ॥

彼が礼拝しているのを見て、月のような顔のシーターは長く息を吐き、甘い声で猿に語りかけた。

5.34.14

मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्।
उत्पादयसि मे भूयः संतापं तन्न शोभनम् ॥ ५.३४.१४ ॥

幻術に入り込んだ幻術師、ラーヴァナ自身であるなら、再び私を苦しめるのは相応しくない。

5.34.15

स्वं परित्यज्य रूपं यः परिव्राजकरूपवान्।
जनस्थाने मया दृष्टस्त्वं स एव हि रावणः ॥ ५.३४.१५ ॥

ジャナスターナで私が見た、自分の姿を捨て遊行者の姿をとったラーヴァナ、それがまさにあなただ。

5.34.16

उपवासकृशां दीनां कामरूप निशाचर।
संतापयसि मां भूयः संतापं तन्न शोभनम् ॥ ५.३४.१६ ॥

思いのままに姿を変える夜の徘徊者よ、断食で痩せ衰え哀れな私を、あなたはまた苦しめる。それは相応しくない。

5.34.17

अथवा नैतदेवं हि यन्मया परिशङ्कितम्।
मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥ ५.३४.१७ ॥

あるいは私が疑ったことは、そうではないのかもしれない。あなたを見て、私の心には喜びが生まれた。

5.34.18

यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते।
पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ॥ ५.३४.१८ ॥

もしあなたがラーマの使者として来たのなら、あなたに幸いがあるように。猿の中の最良の者よ、あなたに尋ねます。ラーマの物語は私にとって愛しいものなのです。

5.34.19

गुणान् रामस्य कथय प्रियस्य मम वानर।
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ॥ ५.३४.१९ ॥

猿よ、私の愛しいラーマの徳を語ってください。優しき者よ、あなたは川の流れが岸を崩すように私の心を奪っています。

5.34.20

अहो स्वप्नस्य सुखता याहमेव चिराहृता।
प्रेषितं नाम पश्यामि राघवेण वनौकसम् ॥ ५.३४.२० ॥

ああ、長く連れ去られていた私がここにいるこの夢はなんと心地よいことか。ラーガヴァが森の住人を遣わしたのが見えます。

5.34.21

स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्।
पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ॥ ५.३४.२१ ॥

夢の中でさえ、勇士ラーガヴァがラクシュマナと共にいるのを見ることができれば、私は悲しみに沈まないでしょう。けれどこの夢さえ私を妬んでいるのです。

5.34.22

नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्।
न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥ ५.३४.२२ ॥

これは夢だとは思いません。夢の中で猿を見ることなどできないからです。繁栄を得るのは容易ではありませんが、私にも繁栄が訪れたのです。

5.34.23

किं नु स्याच्चित्तमोहोऽयं भवेद् वातगतिस्त्वियम्।
उन्मादजो विकारो वा स्यादयं मृगतृष्णिका ॥ ५.३४.२३ ॥

これは心の迷いか、それとも風の動きのような異変か。あるいは狂気から生じた乱れか。これは蜃気楼なのか。

5.34.24

अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः।
सम्बुध्ये चाहमात्मानमिमं चापि वनौकसम् ॥ ५.३४.२४ ॥

あるいはこれは狂気でもなく、狂気の特徴を帯びた迷いでもない。私は自分自身とこの森の住人をはっきりと認識している。

5.34.25

इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्।
रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ॥ ५.३४.२५ ॥

このようにシーターは力の強弱を様々に考え、羅刹は望む姿になれるので、彼を羅刹の主だと思った。

5.34.26

एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा।
न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥ ५.३४.२६ ॥

このように心を定めた、細い腰の、ジャナカの娘シーターは、そのとき猿に答えなかった。

5.34.27

सीताया निश्चितं बुद्ध्वा हनूमान् मारुतात्मजः।
श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयन् ॥ ५.३४.२७ ॥

シーターの決意を知った風神の子ハヌマーンは、耳に快い言葉で彼女を喜ばせながら。

5.34.28

आदित्य इव तेजस्वी लोककान्तः शशी यथा।
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ॥ ५.३४.२८ ॥

太陽のように輝き、世界に愛される月のように、すべての世界の王である神ヴァイシュラヴァナのように。

5.34.29

विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः।
सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ॥ ५.३४.२९ ॥

武勇に恵まれ、大いなる名声を持つヴィシュヌのように、真実を語り甘い言葉を話す神ヴァーチャスパティのように。

5.34.30

रूपवान् सुभगः श्रीमान् कंदर्प इव मूर्तिमान्।
स्थानक्रोधे प्रहर्ता च श्रेष्ठो लोके महारथः ॥ ५.३४.३० ॥

美しく、幸運で、栄光ある、姿をとったカーマデーヴァのように。時にかなって怒り打ち倒す者、世で最も優れた大戦車の勇士。

5.34.31

बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः।
अपक्रम्याश्रमपदान्मृगरूपेण राघवम् ॥ ५.३४.३१ ॥

鹿の姿となって、彼は隠者の庵から羅ghava(ラーガヴァ)を連れ去った。その腕の陰に、全世界が身を寄せているお方である。

5.34.32

शून्ये येनापनीतासि तस्य द्रक्ष्यसि तत्फलम्।
अचिराद् रावणं संख्ये यो वधिष्यति वीर्यवान् ॥ ५.३४.३२ ॥

空しい場所から汝を奪った者の報いを、汝はまもなく見るであろう。勇者が戦いの中で、やがてラーヴァナを討つのだから。

5.34.33

क्रोधप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः।
तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ॥ ५.३४.३३ ॥

怒りに放たれ、燃える火のように輝く矢を持つ彼によって、私は使者として汝のもとに遣わされ、ここへ来たのである。

5.34.34

त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत्।
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ ५.३४.३४ ॥

汝と離れた悲しみに苦しむ彼は、汝の安否を尋ねた。また、スミトラーの喜びを増す大いなる光輝のラクシュマナもまた、汝の安否を尋ねたのである。

5.34.35

अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत्।
रामस्य च सखा देवि सुग्रीवो नाम वानरः ॥ ५.३४.३५ ॥

大いなる腕を持つ方は汝に敬礼し、汝の安否を尋ねた。女神よ、ラーマの友である猿のスグリーヴァもまた汝の安否を尋ねたのである。

5.34.36

राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्।
नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः ॥ ५.३४.३६ ॥

猿の長たちの王もまた、汝の安否を尋ねた。ラーマはスグリーヴァとラクシュマナとともに、いつも汝を思っている。

5.34.37

दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता।
नचिराद् द्रक्ष्यसे रामं लक्ष्मणं च महारथम् ॥ ५.३४.३७ ॥

ヴァイデーヒーよ、幸いにもあなたは羅刹女の支配下に落ちながらも生きている。まもなくあなたは大戦車の戦士ラーマとラクシュマナに会うだろう。

5.34.38

मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्।
अहं सुग्रीवसचिवो हनूमान् नाम वानरः ॥ ५.३४.३८ ॥

何千万もの猿の中で、私は無限の力を持つスグリーヴァの大臣、ハヌマーンという名の猿です。

5.34.39

प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्।
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ॥ ५.३४.३९ ॥

大海を跳び越えてラン カー の都に入り、邪悪なラーヴァナの頭に足を置いた。

5.34.40

त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्।
नाहमस्मि तथा देवि यथा मामवगच्छसि।
विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ ५.३४.४० ॥

女神よ、私はあなたに会うために自分の武勇を頼みとして来ました。あなたが思うような者ではありません。この疑いを捨て、私の言葉を信じてください。