Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.36.1

भूय एव महातेजा हनूमान् पवनात्मजः।
अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ ५.३६.१ ॥

光辉赫赫的风之子哈努曼再次以谦逊的言辞开口,以赢得悉多的信任。

5.36.2

वानरोऽहं महाभागे दूतो रामस्य धीमतः।
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ ५.३६.२ ॥

尊贵的夫人,我是猴子,是智慧的罗摩的使者。王后,请看这枚刻有罗摩名字的戒指。

5.36.3

प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना।
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ ५.३६.३ ॥

这是为了让你安心而带来的,由伟大的罗摩所赠。愿你吉祥;宽心吧,你的苦难之果已经耗尽。

5.36.4

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषितम्।
भर्तारमिव सम्प्राप्तं जानकी मुदिताभवत् ॥ ५.३६.४ ॥

悉多接过并凝视那枚曾装饰丈夫之手的戒指,欢喜无比,仿佛丈夫亲自到来一般。

5.36.5

चारु तद् वदनं तस्यास्ताम्रशुक्लायतेक्षणम्।
बभूव हर्षोदग्रं च राहुमुक्त इवोडुराट् ॥ ५.३६.५ ॥

她那张美丽的脸,配着红白分明的大眼睛,因欢喜而焕发光彩,如同摆脱罗睺的月亮。

5.36.6

ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता।
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥ ५.३६.६ ॥

于是这位知羞的年轻女子,因丈夫的讯息而欢喜,心满意足,称赞了那位完成善事的大猴。

5.36.7

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम।
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ ५.३६.७ ॥

你勇猛、有能力又有智慧,是猴子中最优秀的;你独自一人便摧毁了罗刹的这处居所。

5.36.8

शतयोजनविस्तीर्णः सागरो मकरालयः।
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥ ५.३६.८ ॥

这片宽达百由旬、为摩竭鱼之居所的大海,因你那值得称赞的勇猛一跃,竟缩小得如同牛蹄印一般。

5.36.9

नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ।
यस्य ते नास्ति संत्रासो रावणादपि सम्भ्रमः ॥ ५.३६.९ ॥

猴中之雄,我不认为你是寻常的猴子,因为你即便面对罗波那,也没有恐惧,也没有慌乱。

5.36.10

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्।
यद्यसि प्रेषितस्तेन रामेण विदितात्मना ॥ ५.३६.१० ॥

猴中之最,若你是受了自知之明的罗摩所派遣,那么你便有资格与我交谈。

5.36.11

प्रेषयिष्यति दुर्धर्षो रामो नह्यपरीक्षितम्।
पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥ ५.३६.११ ॥

难以战胜的罗摩,特别是对我,绝不会在未经试探、未知其勇武之前便派遣某人前来。

5.36.12

दिष्ट्या च कुशली रामो धर्मात्मा सत्यसंगरः।
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ ५.३६.१२ ॥

幸而,心怀正法、践守誓言的罗摩安好;光辉赫赫、使苏弥特拉欢喜的罗什曼那也安好。

5.36.13

कुशली यदि काकुत्स्थः किं न सागरमेखलाम्।
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥ ५.३६.१३ ॥

若迦古德斯塔(Kākutstha)安好,为何不像愤怒升起的劫末之火,焚烧这被大海环绕的大地?

5.36.14

अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे।
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ॥ ५.३६.१४ ॥

或者那两位强大者连诸天也能制服;但我想,我的苦难并没有逆转。

5.36.15

कच्चिन्न व्यथते रामः कच्चिन्न परितप्यते।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥ ५.३६.१५ ॥

罗摩难道不悲伤吗?他难道不痛苦吗?那位人中至尊是否仍在完成重大的事业?

5.36.16

कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति।
कच्चित् पुरुषकार्याणि कुरुते नृपतेः सुतः ॥ ५.३६.१६ ॥

那位王子难道不颓丧、不慌乱吗?他在事务中难道不迷惑吗?那王之子是否做着男子应做的事?

5.36.17

द्विविधं त्रिविधोपायमुपायमपि सेवते।
विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परंतपः ॥ ५.३६.१७ ॥

啊,焚敌者!那渴望胜利的盟友是否运用二种、三种权谋?在盟友之中,他是真正的好友吗?

5.36.18

कच्चिन्मित्राणि लभतेऽमित्रैश्चाप्यभिगम्यते।
कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ॥ ५.३६.१८ ॥

他能得到朋友吗?连敌人也来亲近他吗?他是否是善良的朋友,并受到朋友们的尊重?

5.36.19

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः।
कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ॥ ५.३६.१९ ॥

王子是否仍期望诸神的恩典?他是否既依靠人力,也依靠天命?

5.36.20

कच्चिन्न विगतस्नेहो विवासान्मयि राघवः।
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति राघवः ॥ ५.३६.२० ॥

罗怙婆(Rāghava)因流放而对我的情意未曾减退吗?罗怙婆会将我从这灾难中救出吗?

5.36.21

सुखानामुचितो नित्यमसुखानामनूचितः।
दुःखमुत्तरमासाद्य कच्चिद् रामो न सीदति ॥ ५.३६.२१ ॥

罗摩一向习惯安乐、不曾经历苦难,遭遇这样更大的悲痛,他是否不会意志消沉?

5.36.22

कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च।
अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च ॥ ५.३६.२२ ॥

常常听到考萨雅(Kausalyā)和苏弥特拉(Sumitrā)安好的消息吗?也常听到婆罗多(Bharata)安好的消息吗?

5.36.23

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः।
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ ५.३६.२३ ॥

因为我,值得尊敬的罗怙婆是否深受悲痛?罗摩的心是否没有转向别处?罗摩会救我出去吗?

5.36.24

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः।
ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥ ५.३६.२४ ॥

对兄长深怀眷爱的婆罗多,会为我派出由大臣护卫、旌旗飘扬的可怕的一支十八万七千军(akṣauhiṇī)大军吗?

5.36.25

वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति।
मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ॥ ५.३६.२५ ॥

光辉的猴王须羯里婆,是否会为我而来,被以牙齿和指甲为武器的勇猛猴众所环绕?

5.36.26

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः।
अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ॥ ५.३६.२६ ॥

而善用兵器、令须弥陀欢喜的英勇罗什曼那,是否会以箭网击溃罗刹?

5.36.27

रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे।
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥ ५.३६.२७ ॥

我能否不久就看到,罗摩以猛烈的神箭在战场上诛杀的罗波那,连同他的同伴?

5.36.28

कच्चिन्न तद्धेमसमानवर्णं
तस्याननं पद्मसमानगन्धि।
मया विना शुष्यति शोकदीनं
जलक्षये पद्ममिवातपेन ॥ ५.३६.२८ ॥

他那金色容颜、带着莲花芬芳的面庞,是否因我不在而愁苦憔悴,如水涸之时莲花被日晒枯萎一般?

5.36.29

धर्मापदेशात् त्यजतः स्वराज्यं
मां चाप्यरण्यं नयतः पदातेः।
नासीद् यथा यस्य न भीर्न शोकः
कच्चित् स धैर्यं हृदये करोति ॥ ५.३६.२९ ॥

他以法为名舍弃王国,徒步带我入林时心中无惧无忧,如今他心中是否仍存坚定之志?

5.36.30

न चास्य माता न पिता न चान्यः
स्नेहाद् विशिष्टोऽस्ति मया समो वा।
तावद्ध्यहं दूत जिजीविषेयं
यावत् प्रवृत्तिं शृणुयां प्रियस्य ॥ ५.३६.३० ॥

他的母亲、父亲或任何他人,在情爱上都不比我更亲,也无人能与我相等。使者啊!我只愿活到能听到我所爱之人的消息为止。

5.36.31

इतीव देवी वचनं महार्थं
तं वानरेन्द्रं मधुरार्थमुक्त्वा।
श्रोतुं पुनस्तस्य वचोऽभिरामं
रामार्थयुक्तं विरराम रामा ॥ ५.३६.३१ ॥

女神悉多对猴王说完这些意义重大而甜美的话后,便沉默了,想再听他与罗摩之事相关的悦耳之言。

5.36.32

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ ५.३६.३२ ॥

风神之子、勇猛可畏的哈奴曼听了悉多的话,将合掌置于头顶,回答道:

5.36.33

न त्वामिहस्थां जानीते रामः कमललोचनः।
तेन त्वां नानयत्याशु शचीमिव पुरंदरः ॥ ५.३६.३३ ॥

莲花眼的罗摩不知道你在此地,所以他不能像因陀罗迅速迎回舍琪那样,迅速把你接回。

5.36.34

श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसंयुताम् ॥ ५.३६.३४ ॥

一听到我的话,罗怙家的后裔便会率领由猿猴与熊群组成的庞大大军迅速前来。

5.36.35

विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्।
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥ ५.३६.३५ ॥

迦古特斯塔以箭雨阻断不可动摇的水神之域,使楞伽城的罗刹全部平息。

5.36.36

तत्र यद्यन्तरा मृत्युर्यदि देवा महासुराः।
स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ॥ ५.३६.३६ ॥

即便途中有死亡阻挡,或天神与大阿修罗挡在罗摩的路上,他也会将他们一并诛灭。

5.36.37

तवादर्शनजेनार्ये शोकेन परिपूरितः।
न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ५.३६.३७ ॥

高贵的女士啊,因不见你而生的悲痛充满了罗摩的心,他得不到安宁,如同被狮子折磨的大象。

5.36.38

मन्दरेण च ते देवि शपे मूलफलेन च।
मलयेन च विन्ध्येन मेरुणा दर्दुरेण च ॥ ५.३६.३८ ॥

女神啊,我以曼陀罗山、根与果、摩罗耶山、温底耶山、须弥山和达度罗山向你起誓。

5.36.39

यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम्।
मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥ ५.३६.३९ ॥

你将看到罗摩的面容:眼睛美丽,姿态优雅,嘴唇如红果,耳饰精美,犹如升起的满月。

5.36.40

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ।
शतक्रतुमिवासीनं नागपृष्ठस्य मूर्धनि ॥ ५.३६.४० ॥

维代希啊,你很快就会在普罗斯罗瓦那山上看到罗摩,他端坐如骑着象背顶峰的因陀罗。

5.36.41

न मांसं राघवो भुङ्क्ते न चैव मधु सेवते।
वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥ ५.३६.४१ ॥

罗怙婆不食肉,也不饮蜜。他总是在第五时进食经过妥善烹制的野生食物。

5.36.42

नैव दंशान् न मशकान् न कीटान् न सरीसृपान्।
राघवोऽपनयेद् गात्रात् त्वद्गतेनान्तरात्मना ॥ ५.३६.४२ ॥

罗怙婆甚至不驱赶身上的蚊虻、蚊子、虫子或爬行之物,因为他的内心已全然向着你。

5.36.43

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः।
नान्यच्चिन्तयते किंचित् स तु कामवशं गतः ॥ ५.३६.४३ ॥

罗摩始终沉浸于冥想,始终沉溺于悲伤。他不再想其他任何事情;他已受欲望所control。

5.36.44

अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः।
सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते ॥ ५.३६.४४ ॥

罗摩始终不眠;即使入睡,这位人中之杰也会一边呼唤甜美的名字“悉多”一边醒来。

5.36.45

दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत् स्त्रीमनोहरम्।
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ ५.३६.४५ ॥

每当看见果实、花朵,或其他能令女子心动的事物,他便一再叹息,说:“唉,爱人!”并对你诉说。

5.36.46

स देवि नित्यं परितप्यमान-
स्त्वामेव सीतेत्यभिभाषमाणः।
धृतव्रतो राजसुतो महात्मा
तवैव लाभाय कृतप्रयत्नः ॥ ५.३६.४६ ॥

女神啊,他始终煎熬着,只对你说话,称你为“悉多”。那位坚守誓言的伟大王子,只为得到你而努力。

5.36.47

सा रामसंकीर्तनवीतशोका
रामस्य शोकेन समानशोका।
शरन्मुखेनाम्बुदशेषचन्द्रा
निशेव वैदेहसुता बभूव ॥ ५.३६.४७ ॥

因称念罗摩而忘却忧愁,又与罗摩同样悲伤的这位毗提诃之女,如同秋初之夜,云间残留着一轮明月。