ヴァールミーキのラーマーヤナ · サルガ 5.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.40.1
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः।
उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ ५.४०.१ ॥
風神の偉大な御子の言葉を聞いて、神の娘のようなシーターは、自らのためになる言葉を語った。
5.40.2
त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर।
अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा ॥ ५.४०.२ ॥
甘い言葉を語るあなたを見て、猿よ、私は大いに喜ぶ。半ば実った作物の大地が雨を得て喜ぶように。
5.40.3
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः।
संस्पृशेयं सकामाहं तथा कुरु दयां मयि ॥ ५.४०.३ ॥
悲しみに痩せ衰えた体で、あの人中の虎に触れ、私の願いがかなうように、どうか私に慈悲を示してください。
5.40.4
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम।
क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ॥ ५.४०.४ ॥
猿の群れの最良者よ、ラーマへの印も与えてください。怒りに投げた、カラスの片目を射抜いた草の茎を。
5.40.5
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः।
त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि ॥ ५.४०.५ ॥
私の頬の傍らには辰砂の白檀の印が施されていました。その印は消えてしまったので、あなたは彼にそれを思い出させるべきです。
5.40.6
स वीर्यवान् कथं सीतां हृतां समनुमन्यसे।
वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम ॥ ५.४०.६ ॥
あの勇猛な方は、ラークシャサの間に住むさらわれたシーターを、どうして受け入れておられるのか。インドラやヴァルナに等しいあなたよ、どうしてこれを容認するのか。
5.40.7
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥ ५.४०.७ ॥
私が大切に守ってきたこの神聖な冠の宝珠を見ると、苦難の中にあっても、無垢なあなたを見ているかのように私は喜びます。
5.40.8
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ ५.४०.८ ॥
この輝かしい蓮の印をあなたに送ります。これからは、悲しみに焦がれて生きてはいられません。
5.40.9
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः।
राक्षसैः सह संवासं त्वत्कृते मर्षयाम्यहम् ॥ ५.४०.९ ॥
耐えがたい苦しみ、心を引き裂く言葉、羅刹たちとの共住——あなたのためにそのすべてを耐えています。
5.40.10
धारयिष्यामि मासं तु जीवितं शत्रुसूदन।
मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ॥ ५.४०.१० ॥
敵を滅ぼす方よ、私は一か月だけ命を保ちます。王子よ、一か月を過ぎれば、あなたを失って私は生きてはいないでしょう。
5.40.11
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि।
त्वां च श्रुत्वा विषज्जन्तं न जीवेयमपि क्षणम् ॥ ५.४०.११ ॥
この羅刹王は恐ろしく、私を見るその眼差しも心地よくありません。彼があなたに執着していると聞けば、私は一瞬も生きてはいられないでしょう。
5.40.12
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्।
अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ॥ ५.४०.१२ ॥
ヴァイデーヒーの憐れみを誘う、涙ながらの言葉を聞き、偉大な光輝を放つ風の子ハヌマーンは、そこで語った。
5.40.13
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।
रामे शोकाभिभूते तु लक्ष्मणः परितप्यते ॥ ५.४०.१३ ॥
女神よ、ラーマはあなたの悲しみから心を背けてはいません——真実にかけて誓います。ラーマは悲嘆に圧倒されており、ラクシュマナは彼のために苦しんでいます。
5.40.14
दृष्टा कथंचिद् भवती न कालः परिदेवितुम्।
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ॥ ५.४०.१४ ॥
輝く女性よ、どうにかあなたにお会いできました。今は嘆く時ではありません。この瞬間にも、あなたは苦しみの終わりを見るでしょう。
5.40.15
तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ ५.४०.१५ ॥
あの二人の王子は、人の中の虎であり、非の打ちどころがなく、あなたに会いたい一心で奮い立ち、ランカーを灰にするでしょう。
5.40.16
हत्वा तु समरे रक्षो रावणं सहबान्धवैः।
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यतः ॥ ५.४०.१६ ॥
戦いで羅刹ラーヴァナを親族もろとも討ち取ったのち、二人のラーガヴァはあなたを故郷の都へ連れ帰るでしょう、広い目のお方よ。
5.40.17
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते।
प्रीतिसंजननं भूयस्तस्य त्वं दातुमर्हसि ॥ ५.४०.१७ ॥
非の打ちどころのないお方よ、ラーマが見分けられ、再び彼の愛情を呼び覚ます証しを、あなたは彼に渡すべきです。
5.40.18
साब्रवीद् दत्तमेवाहो मयाभिज्ञानमुत्तमम्।
एतदेव हि रामस्य दृष्ट्वा यत्नेन भूषणम् ॥ ५.४०.१८ ॥
彼女は言った。ああ、私はすでにこの見事な証しを渡しました。これはラーマが注意深く見つめた、まさにその装身具です。
5.40.19
श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति।
स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ॥ ५.४०.१९ ॥
ハヌマーンよ、勇士よ、お前の言葉は信じるに足るものとなろう。すると、その栄光ある猿の中の最上の者は、その優れた宝玉を取った。
5.40.20
प्रणम्य शिरसा देवीं गमनायोपचक्रमे।
तमुत्पातकृतोत्साहमवेक्ष्य हरियूथपम् ॥ ५.४०.२० ॥
女神に頭を下げて礼拝し、彼は出発の準備をした。大跳躍を試みようと意気込む猿の群れの主を見て、
5.40.21
वर्धमानं महावेगमुवाच जनकात्मजा।
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ॥ ५.४०.२१ ॥
大いなる速さで勢いを増すその猿に、ジャナカの娘が語りかけた。涙に満ちた顔で、悲しみに沈んだシーターは、涙に詰まった声で言った。
5.40.22
हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम् ॥ ५.४०.२२ ॥
ハヌマーンよ、獅子のような二人の兄弟ラーマとラクシュマナ、そして大臣たちと共にいるスグリーヴァ、皆に私の無事を伝えなさい。
5.40.23
यथा च स महाबाहुर्मां तारयति राघवः।
अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥ ५.४०.२३ ॥
力強い腕を持つラグハヴァ(ラーマ)が、この悲しみの大海の堰から私を救い出してくださるように、あなたも取り計らうべきです。
5.40.24
इदं च तीव्रं मम शोकवेगं
रक्षोभिरेभिः परिभर्त्सनं च।
ब्रूयास्तु रामस्य गतः समीपं
शिवश्च तेऽध्वास्तु हरिप्रवीर ॥ ५.४०.२४ ॥
私のこの激しい悲しみの奔流と、これら羅刹どもの脅しを、ラーマのもとに行って伝えなさい。猿の英雄よ、あなたの道行きが吉祥でありますように。
5.40.25
स राजपुत्र्या प्रतिवेदितार्थः
कपिः कृतार्थः परिहृष्टचेताः।
तदल्पशेषं प्रसमीक्ष्य कार्यं
दिशं ह्युदीचीं मनसा जगाम ॥ ५.४०.२५ ॥
王女から使命の報せを受け、目的を果たし心喜んだ猿は、残るわずかな任務をよく考えて、心の中で北の方角へと向かった。