Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.41.1

स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया।
तस्माद् देशादपाक्रम्य चिन्तयामास वानरः ॥ ५.४१.१ ॥

悉多以美好的话语敬重他,这只猴子正要离去,便离开那个地方,开始思索。

5.41.2

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा।
त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥ ५.४१.२ ॥

这件事所剩无几,因为已见到这位黑眼睛的女子。越过三种方略,这里显现出第四种。

5.41.3

न साम रक्षःसु गुणाय कल्पते
न दानमर्थोपचितेषु युज्यते।
न भेदसाध्या बलदर्पिता जनाः
पराक्रमस्त्वेष ममेह रोचते ॥ ५.४१.३ ॥

对罗刹而言,怀柔无益;对富有者,赠予不宜;骄矜于力量的人,不能以离间收服。此处我唯独喜欢勇武。

5.41.4

न चास्य कार्यस्य पराक्रमादृते
विनिश्चयः कश्चिदिहोपपद्यते।
हतप्रवीराश्च रणे तु राक्षसाः
कथंचिदीयुर्यदिहाद्य मार्दवम् ॥ ५.४१.४ ॥

此事若无勇武,此处绝无任何决断。若罗刹的勇士在战中被杀,罗刹们若以某种方式今日变得温顺……

5.41.5

कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ ५.४१.५ ॥

一件事既已完成,能在不违背先前之事的前提下,成就许多事者,才配承担此事。

5.41.6

न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः।
यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ ५.४१.६ ॥

在此,即便小事也不是只有一个成就的因缘。能以多种方式了知目标者,才有能力成就此事。

5.41.7

इहैव तावत्कृतनिश्चयो ह्यहं
व्रजेयमद्य प्लवगेश्वरालयम्।
परात्मसम्मर्दविशेषतत्त्ववित्
ततः कृतं स्यान्मम भर्तृशासनम् ॥ ५.४१.७ ॥

我在此已下定决心:今天我将前往猴王的居所,因为我知道敌我相撞的特殊道理;那时我主的命令便能完成。

5.41.8

कथं नु खल्वद्य भवेत् सुखागतं
प्रसह्य युद्धं मम राक्षसैः सह।
तथैव खल्वात्मबलं च सारवत्
समानयेन्मां च रणे दशाननः ॥ ५.४१.८ ॥

今日我与罗刹的强力之战,怎能轻易达成?同样,十首王是否会以他雄厚的兵力把我引入战场?

5.41.9

ततः समासाद्य रणे दशाननं
समन्त्रिवर्गं सबलं सयायिनम्।
हृदि स्थितं तस्य मतं बलं च
सुखेन मत्वाहमितः पुनर्व्रजे ॥ ५.४१.९ ॥

随后,在战场上遇到十首王及其大臣、军队和随从,轻易地看清他心中的意图与力量,我便从这里再次返回。

5.41.10

इदमस्य नृशंसस्य नन्दनोपममुत्तमम्।
वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ ५.४१.१० ॥

这残暴者的这座上好园林,如同难陀园,令眼目和心意喜悦,充满各种树木与藤蔓。

5.41.11

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः।
अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः ॥ ५.४१.११ ॥

我将毁灭此林,如火焚烧干枯的森林;此林一旦被毁,罗波那必定大怒。

5.41.12

ततो महत्साश्वमहारथद्विपं
बलं समानेष्यति राक्षसाधिपः।
त्रिशूलकालायसपट्टिशायुधं
ततो महद्युद्धमिदं भविष्यति ॥ ५.४१.१२ ॥

那时罗刹之主将率领大军而来,有战马、大战车和象群,兵器有三叉戟、致命铁器与叉刀;那时这将是一场大战。

5.41.13

अहं च तैः संयति चण्डविक्रमैः
समेत्य रक्षोभिरभङ्गविक्रमः।
निहत्य तद् रावणचोदितं बलं
सुखं गमिष्यामि हरीश्वरालयम् ॥ ५.४१.१३ ॥

我与那些勇猛异常的罗刹在战阵相遇,以不衰的勇武,歼灭罗波那所派的那支军队之后,便可安然返回猴王的居所。

5.41.14

ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः।
ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥ ५.४१.१४ ॥

于是,如风般愤怒、勇武可畏的风之子末底,凭借双腿的巨大力量,开始拔起树木并将其抛掷。

5.41.15

ततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम्।
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ ५.४१.१५ ॥

于是那位英雄末底摧毁了那座游乐园,园中回荡着醉鸟的鸣叫,遍布各色树木与藤蔓。

5.41.16

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः।
चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ ५.४१.१६ ॥

那片园林被拔起的树木、破碎的池塘和粉碎的山峰摧毁,变得令人不忍卒睹。

5.41.17

नानाशकुन्तविरुतैः प्रभिन्नसलिलाशयैः।
ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतैः ॥ ५.४१.१७ ॥

那片园林充满了各种鸟的鸣叫,池塘破裂,红色的嫩芽,树木与藤蔓都已枯萎。

5.41.18

न बभौ तद् वनं तत्र दावानलहतं यथा।
व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ ५.४१.१८ ॥

那片园林不再像被林火焚烧的森林那样光彩照人;那些藤蔓,覆盖散乱,显得慌乱不安。

5.41.19

लतागृहैश्चित्रगृहैश्च सादितै-
र्व्यालैर्मृगैरार्तरवैश्च पक्षिभिः।
शिलागृहैरुन्मथितैस्तथा गृहैः
प्रणष्टरूपं तदभून्महद् वनम् ॥ ५.४१.१९ ॥

藤蔓亭台与彩绘楼阁被毁坏,蛇、鹿与鸟兽发出痛苦的哀鸣,石屋与其他房舍被推倒,那片大林失去了原本的模样。

5.41.20

सा विह्वलाशोकलताप्रताना
वनस्थली शोकलताप्रताना।
जाता दशास्यप्रमदावनस्य
कपेर्बलाद्धि प्रमदावनस्य ॥ ५.४१.२० ॥

那片林地,阿输迦藤架皆被扰乱,凭猴子之力,竟在罗波那的游乐园中变成了愁苦藤架之地。

5.41.21

ततः स कृत्वा जगतीपतेर्महान्
महद् व्यलीकं मनसो महात्मनः।
युयुत्सुरेको बहुभिर्महाबलैः
श्रिया ज्वलंस्तोरणमाश्रितः कपिः ॥ ५.४१.२१ ॥

于是,那位大猴子深深伤害了世界之主的心,独自想与众多大力勇士交战,光辉闪耀,便站在了门楼之上。