蚁垤《罗摩衍那》 · 篇 5.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.48.1
ततस्तु रक्षोऽधिपतिर्महात्मा
हनूमताक्षे निहते कुमारे।
मनः समाधाय स देवकल्पं
समादिदेशेन्द्रजितं सरोषः ॥ ५.४८.१ ॥
于是伟大的罗刹之主,在王子阿刹被哈奴曼杀死后平复心神,怒气冲冲地命令如天神一般的因陀罗耆特。
5.48.2
त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः
सुरासुराणामपि शोकदाता।
सुरेषु सेन्द्रेषु च दृष्टकर्मा
पितामहाराधनसंचितास्त्रः ॥ ५.४८.२ ॥
你是精通武器的人,是持械者中最杰出的,即使对天神和阿修罗也能带来悲痛。在包括因陀罗在内的诸神之中,你的功业早已显现;你因崇拜梵天祖父而积聚了神兵。
5.48.3
त्वदस्त्रबलमासाद्य ससुराः समरुद्गणाः।
न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः ॥ ५.४८.३ ॥
面对你的神兵之力,诸天神与风神众,尽管投靠于天神之主,在战场上也无法站立。
5.48.4
न कश्चित् त्रिषु लोकेषु संयुगे न गतश्रमः।
भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः।
देशकालप्रधानश्च त्वमेव मतिसत्तमः ॥ ५.४८.४ ॥
三界之中,在战斗中无人不会疲倦;唯有你,由臂力守护、由苦行护佑,懂得时机与地利,是最智慧者之中的至上者。
5.48.5
न तेऽस्त्यशक्यं समरेषु कर्मणां
न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे।
न सोऽस्ति कश्चित् त्रिषु संग्रहेषु
न वेद यस्तेऽस्त्रबलं बलं च ॥ ५.४८.५ ॥
在战斗中,对你而言没有不可能之事;在以智慧为先导的谋划中,对你也没有做不到的事。三界的聚会之中,没有人不知道你的神兵之力与你的力量。
5.48.6
ममानुरूपं तपसो बलं च ते
पराक्रमश्चास्त्रबलं च संयुगे।
न त्वां समासाद्य रणावमर्दे
मनः श्रमं गच्छति निश्चितार्थम् ॥ ५.४८.६ ॥
我的力量与你的苦行和威力相称;你的勇武及战场上的兵器之力亦然。在厮杀的战场上遇见你,即便意志坚定之心也会疲惫。
5.48.7
निहताः किंकराः सर्वे जम्बुमाली च राक्षसः।
अमात्यपुत्रा वीराश्च पञ्च सेनाग्रगामिनः ॥ ५.४८.७ ॥
所有侍从都已被杀,罗刹江部摩利也一样;大臣的勇猛之子,以及走在军前的五人也都被杀。
5.48.8
बलानि सुसमृद्धानि साश्वनागरथानि च।
सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः।
न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ५.४८.८ ॥
装备精良的军队,连同马匹、象群与战车,已被摧毁;你的兄弟、你心爱的王子以及阿刹也已被杀。但是,摧毁敌人者啊,我真正的力量并不在他们身上,而在你身上。
5.48.9
इदं च दृष्ट्वा निहतं महद् बलं
कपेः प्रभावं च पराक्रमं च।
त्वमात्मनश्चापि निरीक्ष्य सारं
कुरुष्व वेगं स्वबलानुरूपम् ॥ ५.४८.९ ॥
看到这支大军已被消灭,又看清猴子的威势与勇武,也审视了自己力量的根本,那就以与自身力量相称的速度行动吧。
5.48.10
बलावमर्दस्त्वयि संनिकृष्टे
यथा गते शाम्यति शान्तशत्रौ।
तथा समीक्ष्यात्मबलं परं च
समारभस्वास्त्रभृतां वरिष्ठ ॥ ५.४८.१० ॥
正如你走近时,兵力的摧折便会平息,敌人也会因此安静;那么,仔细权衡自己与敌人的力量,开始你的事业吧,持兵器者中的最优秀者。
5.48.11
न वीर सेना गणशो च्यवन्ति
न वज्रमादाय विशालसारम्।
न मारुतस्यास्ति गतिप्रमाणं
न चाग्निकल्पः करणेन हन्तुम् ॥ ५.४८.११ ॥
英雄啊,军队即便成群也不会溃散,即便持有坚固广大的金刚杵也不会如此。风神之子的速度无可估量,也没有如火一般的手段能够杀死他。
5.48.12
तमेवमर्थं प्रसमीक्ष्य सम्यक्
स्वकर्मसाम्याद्धि समाहितात्मा।
स्मरंश्च दिव्यं धनुषोऽस्य वीर्यं
व्रजाक्षतं कर्म समारभस्व ॥ ५.४८.१२ ॥
周详考虑此事,以自身职责之平衡使心志安定,忆起此神弓的威力,开始那不受敌人损伤的事业吧。
5.48.13
न खल्वियं मतिश्रेष्ठ यत्त्वां सम्प्रेषयाम्यहम्।
इयं च राजधर्माणां क्षत्रस्य च मतिर्मता ॥ ५.४८.१३ ॥
智慧第一的人啊,我派遣你的确并非不当;这被认为是符合王道与刹帝利之心的考量。
5.48.14
नानाशस्त्रेषु संग्रामे वैशारद्यमरिंदम।
अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ ५.४८.१४ ॥
降伏敌人者啊,在战斗中必须精通各种兵器,而战场上的胜利也是所求之事。
5.48.15
ततः पितुस्तद्वचनं निशम्य
प्रदक्षिणं दक्षसुतप्रभावः।
चकार भर्तारमतित्वरेण
रणाय वीरः प्रतिपन्नबुद्धिः ॥ ५.४८.१५ ॥
于是,这位力量堪比达刹之子的英雄听了父亲的话,急忙恭敬地绕行主人,心志坚定地为战斗做好准备。
5.48.16
ततस्तैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः।
युद्धोद्धतकृतोत्साहः संग्रामं सम्प्रपद्यत ॥ ५.४८.१६ ॥
于是,因陀罗耆多受到了所亲爱的同伴们的敬重;怀着猛烈的战斗热情,他奔赴了战场。
5.48.17
श्रीमान् पद्मविशालाक्षो राक्षसाधिपतेः सुतः।
निर्जगाम महातेजाः समुद्र इव पर्वणि ॥ ५.४८.१७ ॥
罗刹王之子,莲花般宽阔的眼睛,光辉赫赫,如同满月之时潮涌的大海,挺身而出。
5.48.18
स पक्षिराजोपमतुल्यवेगै-
र्व्याघ्रैश्चतुर्भिः स तु तीक्ष्णदंष्ट्रैः।
रथं समायुक्तमसह्यवेगः
समारुरोहेन्द्रजिदिन्द्रकल्पः ॥ ५.४८.१८ ॥
因陀罗相似、速度无法抵挡的因陀罗耆,登上了由四头利齿猛虎所驾、如金翅鸟之王般迅疾的战车。
5.48.19
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः।
रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत् ॥ ५.४८.१९ ॥
这位车战勇士,乃弓手中之最,知晓兵器,精通神箭之中的上首,乘车迅速驶向哈奴曼所在之处。
5.48.20
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च।
निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् ॥ ५.४८.२० ॥
听到他战车的轰鸣与弓弦的铮鸣,那位猴族英雄愈发欢喜起来。
5.48.21
इन्द्रजिच्चापमादाय शितशल्यांश्च सायकान्।
हनूमन्तमभिप्रेत्य जगाम रणपण्डितः ॥ ५.४८.२१ ॥
因陀罗耆精于战阵,取过弓与利箭,瞄准哈奴曼,向前进发。
5.48.22
तस्मिंस्ततः संयति जातहर्षे
रणाय निर्गच्छति बाणपाणौ।
दिशश्च सर्वाः कलुषा बभूवु-
र्मृगाश्च रौद्रा बहुधा विनेदुः ॥ ५.४८.२२ ॥
当他手持箭矢走向战场、战意已然高涨之时,四方尽皆昏暗浑浊,凶猛的野兽纷纷以各种方式嘶吼起来。
5.48.23
समागतास्तत्र तु नागयक्षा
महर्षयश्चक्रचराश्च सिद्धाः।
नभः समावृत्य च पक्षिसङ्घा
विनेदुरुच्चैः परमप्रहृष्टाः ॥ ५.४८.२३ ॥
那里聚集了龙蛇、夜叉、大仙、轮行天神与悉陀;遮蔽天空的鸟群极度欢喜,高声鸣叫。
5.48.24
आयान्तं स रथं दृष्ट्वा तूर्णमिन्द्रध्वजं कपिः।
ननाद च महानादं व्यवर्धत च वेगवान् ॥ ५.४८.२४ ॥
见那战车疾速驶来,状如因陀罗之幢,猴子发出巨大的吼声,并且迅猛地更加壮大。
5.48.25
इन्द्रजित् स रथं दिव्यमाश्रितश्चित्रकार्मुकः।
धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ॥ ५.४८.२५ ॥
因陀罗耆登上神车,手持奇异的弓,拉弓发出如雷电般强劲的弦响。
5.48.26
ततः समेतावतितीक्ष्णवेगौ
महाबलौ तौ रणनिर्विशङ्कौ।
कपिश्च रक्षोऽधिपतेस्तनूजः
सुरासुरेन्द्राविव बद्धवैरौ ॥ ५.४८.२६ ॥
于是这两位速度极其迅猛、力量强大、临阵无畏的勇士相遇了:那猴子与罗刹王之子,犹如结下仇怨的天神与阿修罗之两位因陀罗。
5.48.27
स तस्य वीरस्य महारथस्य
धनुष्मतः संयति सम्मतस्य।
शरप्रवेगं व्यहनत् प्रवृद्ध-
श्चचार मार्गे पितुरप्रमेयः ॥ ५.४८.२७ ॥
他挡住了那位在战场上闻名的英雄、大战车武士、持弓者的箭势;而长大的无量者哈奴曼则在其父之路上穿行。
5.48.28
ततः शरानायततीक्ष्णशल्यान्
सुपत्रिणः काञ्चनचित्रपुङ्खान्।
मुमोच वीरः परवीरहन्ता
सुसंततान् वज्रसमानवेगान् ॥ ५.४८.२८ ॥
于是那位斩杀敌方勇士的英雄,射出了密集的箭矢:长而锐利的箭头,羽毛精美,金色而奇妙的箭杆,速度如金刚杵。
5.48.29
ततः स तत्स्यन्दननिःस्वनं च
मृदङ्गभेरीपटहस्वनं च।
विकृष्यमाणस्य च कार्मुकस्य
निशम्य घोषं पुनरुत्पपात ॥ ५.४८.२९ ॥
于是他听到战车的轰鸣、鼓、钟鼓与小鼓的声响,以及拉弓的弦声,便再次腾身跃起。
5.48.30
शराणामन्तरेष्वाशु व्यावर्तत महाकपिः।
हरिस्तस्याभिलक्ष्यस्य मोक्षयँल्लक्ष्यसंग्रहम् ॥ ५.४८.३० ॥
大猴子迅速从箭矢之间的空隙中转身闪开,避开了那一群目标。
5.48.31
शराणामग्रतस्तस्य पुनः समभिवर्तत।
प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ ५.४८.३१ ॥
他又在箭矢前逼近,风之子哈努曼伸开双手跃起。
5.48.32
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ।
सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥ ५.४८.३२ ॥
这两位速度非凡、精通战斗之道,展开了一场绝妙的战斗,令一切众生为之倾心。
5.48.33
हनूमतो वेद न राक्षसोऽन्तरं
न मारुतिस्तस्य महात्मनोऽन्तरम्।
परस्परं निर्विषहौ बभूवतुः
समेत्य तौ देवसमानविक्रमौ ॥ ५.४८.३३ ॥
罗刹不知哈努曼的弱点,风之子也不知那位大德者的弱点;两人相遇,勇力与诸神相当,彼此都无法战胜对方。
5.48.34
ततस्तु लक्ष्ये स विहन्यमाने
शरेष्वमोघेषु च सम्पतत्सु।
जगाम चिन्तां महतीं महात्मा
समाधिसंयोगसमाहितात्मा ॥ ५.४८.३४ ॥
此时,他的目标正受到攻击,不误的箭矢纷纷落下,这位以三摩地之瑜伽而心意安定的大德者,陷入了深深的沉思。
5.48.35
ततो मतिं राक्षसराजसूनु-
श्चकार तस्मिन् हरिवीरमुख्ये।
अवध्यतां तस्य कपेः समीक्ष्य
कथं निगच्छेदिति निग्रहार्थम् ॥ ५.४८.३५ ॥
于是罗刹王之子对那位猴族英雄之首拿定了主意。见这猴子不可杀害,他思索如何才能将其制服。
5.48.36
ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः।
संदधे सुमहातेजास्तं हरिप्रवरं प्रति ॥ ५.४८.३६ ॥
于是那位英雄,善用兵器者中的最优者,大放光明,将梵天之箭搭上弦,对准那猴族之首。
5.48.37
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्।
निजग्राह महाबाहुं मारुतात्मजमिन्द्रजित् ॥ ५.४८.३७ ॥
知道此猴不可杀害,精通兵器本质的因陀罗耆用兵器将那大臂的风之子擒住。
5.48.38
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः।
अभवन्निर्विचेष्टश्च पपात च महीतले ॥ ५.४८.३८ ॥
被罗刹的那件兵器所缚,那猴子便僵立不动,倒在地上。
5.48.39
ततोऽथ बुद्ध्वा स तदस्त्रबन्धं
प्रभोः प्रभावाद् विगताल्पवेगः।
पितामहानुग्रहमात्मनश्च
विचिन्तयामास हरिप्रवीरः ॥ ५.४८.३९ ॥
那猴族英雄于是明白了那兵器的束缚。由于主上的威力,他的速度已大为减弱,于是他思量梵天的恩典与自身的处境。
5.48.40
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रं चाभिमन्त्रितम्।
हनूमांश्चिन्तयामास वरदानं पितामहात् ॥ ५.४८.४० ॥
于是哈奴曼思量那由自生者(梵天)的咒语所加持的梵天之箭,以及从祖父那里获得的恩赐。
5.48.41
न मेऽस्य बन्धस्य च शक्तिरस्ति
विमोक्षणे लोकगुरोः प्रभावात्।
इत्येवमेवं विहितोऽस्त्रबन्धो
मयाऽऽत्मयोनेरनुवर्तितव्यः ॥ ५.४८.४१ ॥
我没有力量解开这束缚,它只能凭借世界导师的威力解除。因此这样设下的兵器之缚,我应当遵从,视为自生者(梵天)的命令。
5.48.42
स वीर्यमस्त्रस्य कपिर्विचार्य
पितामहानुग्रहमात्मनश्च।
विमोक्षशक्तिं परिचिन्तयित्वा
पितामहाज्ञामनुवर्तते स्म ॥ ५.४८.४२ ॥
这只猴子思量了兵器的威力、祖父的恩典以及自身的处境,又思索了解脱的力量,于是遵从了祖父的命令。
5.48.43
अस्त्रेणापि हि बद्धस्य भयं मम न जायते।
पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥ ५.४८.४३ ॥
即使被兵器所缚,我心中也不生恐惧,因为我受到祖父、大因陀罗和风神的护佑。
5.48.44
ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम्।
राक्षसेन्द्रेण संवादस्तस्माद् गृह्णन्तु मां परे ॥ ५.४८.४४ ॥
即使被罗刹们抓住,对我也大有益处,因为这将使我与罗刹王交谈。那就让敌人抓住我吧。
5.48.45
स निश्चितार्थः परवीरहन्ता
समीक्ष्यकारी विनिवृत्तचेष्टः।
परैः प्रसह्याभिगतैर्निगृह्य
ननाद तैस्तैः परिभर्त्स्यमानः ॥ ५.४८.४५ ॥
他意志坚定,是敌方英雄的杀戮者,三思而后行,于是停止了动作;敌人蜂拥而至将他强行擒住,他在敌人的威胁下怒吼起来。
5.48.46
ततस्ते राक्षसा दृष्ट्वा विनिश्चेष्टमरिंदमम्।
बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ ५.४८.४६ ॥
于是那些罗刹见这位制敌者一动不动,便用麻线和树皮编成的绳索将他紧紧捆住。
5.48.47
स रोचयामास परैश्च बन्धं
प्रसह्य वीरैरभिगर्हणं च।
कौतूहलान्मां यदि राक्षसेन्द्रो
द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥ ५.४८.४७ ॥
他接受了他人的捆缚和众勇士的强行责难,并决定:如果罗刹王出于好奇想要见我,那就让他见吧。
5.48.48
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्।
अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥ ५.४८.४८ ॥
这位勇武者被那树皮绳捆住,随后被神兵之力解脱;神兵之缚并不随从其他任何束缚。
5.48.49
अथेन्द्रजित् तं द्रुमचीरबद्धं
विचार्य वीरः कपिसत्तमं तम्।
विमुक्तमस्त्रेण जगाम चिन्ता-
मन्येन बद्धोऽप्यनुवर्ततेऽस्त्रम् ॥ ५.४८.४९ ॥
于是英雄因陀罗耆特审视被树皮绳捆住的那位猴中之最,对他因神兵而解脱之事陷入沉思——即便被他人束缚,神兵仍然随之而行。
5.48.50
अहो महत् कर्म कृतं निरर्थं
न राक्षसैर्मन्त्रगतिर्विमृष्टा।
पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्
प्रवर्तते संशयिताः स्म सर्वे ॥ ५.४८.५० ॥
唉!大事已经做成,却是徒劳;罗刹们没有考虑计谋的进程。神兵一旦失效,另一神兵便不会发动;我们都陷入了疑虑。
5.48.51
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यते।
कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ॥ ५.४८.५१ ॥
哈奴曼被神兵解脱,却不再觉察自己;被罗刹拖拽,又为那些束缚所折磨。
5.48.52
हन्यमानस्ततः क्रूरै राक्षसैः कालमुष्टिभिः।
समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥ ५.४८.५२ ॥
此时,那猴子被残酷的罗刹以如死神般的拳头殴打,被拖到了罗刹王的面前。
5.48.53
अथेन्द्रजित् तं प्रसमीक्ष्य मुक्त-
मस्त्रेण बद्धं द्रुमचीरसूत्रैः।
व्यदर्शयत् तत्र महाबलं तं
हरिप्रवीरं सगणाय राज्ञे ॥ ५.४८.५३ ॥
于是因陀罗耆特仔细看了那被武器释放、却被树皮绳索绑缚的大力猴中英雄,便在那里把他展示给连同随从在内的国王看。
5.48.54
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ ५.४८.५४ ॥
罗刹们向罗刹王罗波那禀报了那位猴中最优秀者,他像被激怒的大象一样被绑着。
5.48.56
कोऽयं कस्य कुतो वापि किं कार्यं कोऽभ्युपाश्रयः।
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे।
राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ॥ ५.४८.५६ ॥
“他是谁?属于谁?从哪里来?有什么目的?依托何人?”另一些人说:“打他、烧他,或者把他吃掉。”于是愤怒的罗刹们在那里彼此议论起来。
5.48.57
अतीत्य मार्गं सहसा महात्मा
स तत्र रक्षोऽधिपपादमूले।
ददर्श राज्ञः परिचारवृद्धान्
गृहं महारत्नविभूषितं च ॥ ५.४८.५७ ॥
大心的哈努曼突然穿过道路,在那里罗刹王的脚下,看见了国王的年长侍从,以及装饰着大量宝石的宫殿。
5.48.58
स ददर्श महातेजा रावणः कपिसत्तमम्।
रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः ॥ ५.४८.५८ ॥
那位光辉的罗波那看见,猴中最优秀者被形貌丑陋的罗刹们拖来拽去。
5.48.59
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः।
तेजोबलसमायुक्तं तपन्तमिव भास्करम् ॥ ५.४८.५९ ॥
猴中最优者也看见了罗刹之主,他光辉与威力兼备,如太阳般炽烈。
5.48.60
स रोषसंवर्तितताम्रदृष्टि-
र्दशाननस्तं कपिमन्ववेक्ष्य।
अथोपविष्टान् कुलशीलवृद्धान्
समादिशत् तं प्रति मुख्यमन्त्रीन् ॥ ५.४८.६० ॥
十首罗刹王怒目赤红,看着那只猴子;随后他向坐在那里、门第与品德俱老成的首席大臣们下令处置此猴。
5.48.61
यथाक्रमं तैः स कपिश्च पृष्टः
कार्यार्थमर्थस्य च मूलमादौ।
निवेदयामास हरीश्वरस्य
दूतः सकाशादहमागतोऽस्मि ॥ ५.४८.६१ ॥
他们依次询问时,那只猴子从头禀明了此行的使命与事情的根由:“我是奉猴王之命前来的使者。”