Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 5.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.49.1

ततः स कर्मणा तस्य विस्मितो भीमविक्रमः।
हनूमान् क्रोधताम्राक्षो रक्षोऽधिपमवैक्षत ॥ ५.४९.१ ॥

そこで、彼の行いに驚いた、恐るべき勇猛さのハヌマーンは、怒りに赤く染まった目の羅刹王を見た。

5.49.2

भ्राजमानं महार्हेण काञ्चनेन विराजता।
मुक्ताजालवृतेनाथ मुकुटेन महाद्युतिम् ॥ ५.४९.२ ॥

貴重な金に輝き、真珠の網で覆われた冠に飾られ、大いなる輝きを放っていた。

5.49.3

वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः।
हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ॥ ५.४९.३ ॥

ダイヤモンドをはめ込み、高価な宝石で形作られた、色とりどりの黄金の装身具は、まるで心が創り出したかのようであった。

5.49.4

महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्।
स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ॥ ५.४९.४ ॥

高価な絹をまとい、赤い白檀を塗り、様々な彩りの文様で美しく飾られていた。

5.49.5

विचित्रं दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः।
दीप्ततीक्ष्णमहादंष्ट्रं प्रलम्बं दशनच्छदैः ॥ ५.४९.५ ॥

奇妙でありながら見るに値する姿で、赤い目、恐ろしい容貌、輝く鋭い大きな牙を持ち、歯を覆って垂れ下がる唇があった。

5.49.6

शिरोभिर्दशभिर्वीरो भ्राजमानं महौजसम्।
नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम् ॥ ५.४९.६ ॥

十の頭を持ち輝き、大いなる力を備えた英雄は、多くの猛獣が満ちた峰々を持つマンダラ山のようであった。

5.49.7

नीलाञ्जनचयप्रख्यं हारेणोरसि राजता।
पूर्णचन्द्राभवक्त्रेण सबालार्कमिवाम्बुदम् ॥ ५.४९.७ ॥

青い黒玉の山のようで、胸に首飾りが輝き、満月のような顔をもち、昇る太陽を伴う雲のようであった。

5.49.8

बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः।
भ्राजमानाङ्गदैर्भीमैः पञ्चशीर्षैरिवोरगैः ॥ ५.४९.८ ॥

腕輪をはめ、上等の白檀を塗り、輝く腕飾りを付けた腕は、恐ろしい五頭の蛇のようであった。

5.49.9

महति स्फाटिके चित्रे रत्नसंयोगचित्रिते।
उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥ ५.४९.९ ॥

大きな水晶の、色とりどりで宝石の組み合わさった装飾の、上質の敷物を敷いた立派な座に、彼は安らかに坐っていた。

5.49.10

अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः।
वालव्यजनहस्ताभिरारात्समुपसेवितम् ॥ ५.४९.१० ॥

周囲を極めて飾り立てた女性たちが取り囲み、手にヤクの尾の払子を持って、近くで仕えられていた。

5.49.11

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा।
मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा ॥ ५.४९.११ ॥

羅刹のドゥルダラ、プラハスタ、マハーパールシュヴァと、謀略の本質を知る大臣たち、そして大臣ニクンバとともに。

5.49.12

उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितम्।
कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः ॥ ५.४९.१२ ॥

周りに座った四人の羅刹に囲まれ、力に誇る彼は、全世界を取り囲む四つの海のように見えた。

5.49.13

मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभदर्शिभिः।
आश्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम् ॥ ५.४९.१३ ॥

謀略の真髄を知る大臣たちや、吉兆を見る者たちに慰められている彼は、神々に囲まれた神々の王インドラのように見えた。

5.49.14

अपश्यद् राक्षसपतिं हनूमानतितेजसम्।
वेष्टितं मेरुशिखरे सतोयमिव तोयदम् ॥ ५.४९.१४ ॥

ハヌマーンは、極めて輝く羅刹の王を見た。彼はメール山の頂に覆われた水を含む雲のようであった。

5.49.15

स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः।
विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत ॥ ५.४९.१५ ॥

恐ろしい武勇の羅刹たちに責め立てられていても、彼は大いに驚嘆して羅刹の王を見つめた。

5.49.16

भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम्।
मनसा चिन्तयामास तेजसा तस्य मोहितः ॥ ५.४९.१६ ॥

そしてハヌマーンは輝く羅刹の王を見て、その輝きに心を奪われ、心の中で思いを巡らせた。

5.49.17

अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः।
अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ ५.४९.१७ ॥

ああ、この姿!ああ、この堅固さ!ああ、この内なる力!ああ、この輝き!ああ、羅刹王がすべての偉大な相を備えていることよ!

5.49.18

यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः।
स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥ ५.४९.१८ ॥

もしこの羅刹の王が不正によって強くなかったなら、彼はインドラとともに神々の世界をも守護していただろう。

5.49.19

अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः।
सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः ॥ ५.४९.१९ ॥

彼の残酷で非情な、世界に忌み嫌われる行いのゆえに、神々と阿修羅を含む全世界が彼を恐れている。

5.49.20

अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्।
दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः ॥ ५.४९.२० ॥

無限の威光を持つ羅刹王の力を見れば、彼が怒れば世界を一つの大海に変えてしまうことができるのは明らかだ。